Table of Contents

<<3-4-82 —- 3-4-84>>

3-4-83 विदो लटो वा

प्रथमावृत्तिः

TBD.

काशिका

परस्मैपदानाम् इत्येव। विद ज्ञाने, अस्माद् धातोः परेषां लडादेशानां परस्मैपदानां णलादयो नव विकल्पेन आदेशा भवन्ति। वेद, विदतुः, विदुः। वेत्थ, विदथुः, विद। वेद, विद्व, विद्म। न च भवति। वेत्ति, वित्तः, विदन्ति। वेत्सि, वित्थः, वित्थ। वेद्मि, विद्वः, विद्मः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

571 वेत्तेर्लटः परस्मैपदानां णलादयो वा स्युः. वेद. विदतुः. विदुः. वेत्थ. विदथुः. विद. वेद. विद्व. विद्म. पक्षे – वेत्ति. वित्तः. विदन्ति..

बालमनोरमा

295 विदो लटो वा। `परस्मैपदानां णलतु'सित्यादिसूत्रमनुवर्तते। `विद'इति पञ्चमी। तदाह–वेत्तेर्लट इति। विन्दतिविद्यत्योस्तु शेन श्यना च व्यवधानान्नैते आदेशाः। इत्यादीति। विदन्ति। वेत्सि वित्थः वित्थ। वेद्मि विद्वः विद्मः। विविदतुरिति। विविदुः। विवेदिथ विविदथुः विविद। विवेद विविदिव विविदिम। आम्पक्षे इति। न लघूपधगुण इत्यन्वयः। कुत इत्यत आह–अकारान्तनिपातनादिति। `उषविदे'ति सूत्रे विदेत्यकारान्तत्वमाम्संनियोगेन निपात्यत इत्यर्थः। आमि अतो लोपः। तस्य स्थानिवत्त्वान्न लघूपधगुण इति भावः। वेदितेति। वेदिष्यतीत्यपि ज्ञेयम्।

तत्त्वबोधिनी

255 विदो लटो वा। पञ्चमीयं, न तु षष्ठी, तेन विद्यतिविन्दत्योरव्यवहितपरस्य लटोऽभावान्नैते आदेशाः। तदाह–वेत्तेरिति।

Satishji's सूत्र-सूचिः

374) विदो लटो वा 3-4-83

वृत्तिः वेत्तेर्लटः परस्‍मैपदानां णलादयो वा स्‍युः। The affixes (“तिप्”, “तस्” etc.) of लँट् following the verbal root √विद् (विदँ ज्ञाने २. ५९ ) optionally get the nine affixes “णल्”, “अतुस्” etc., as replacements respectively.
Note: The nine परस्‍मैपद-प्रत्यया: [“तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्”, “मस्”] of लँट् optionally get “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व”, “म” as replacements. As per 1-3-10, the substitutions are done respectively.

णल्-पक्षे
उदाहरणम् – वेद (√विद्, अदादि-गणः, विदँ ज्ञाने , धातु-पाठः #२. ५९ ) लँट्, कर्तरि-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
विद् + लँट् 3-2-123 = विद् + ल् 1-3-2, 1-3-3
= विद् + तिप् 3-4-78, 1-4-100, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= विद् + णल् 3-4-83, 1-3-10, णल् also gets सार्वधातुक-सञ्ज्ञा by 1-1-56 = विद् + अ 1-3-3, 1-3-7
= विद् + शप् + अ 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113 = विद् + अ 2-4-72 = वेद 7-3-86

णल्-अभावपक्षे
उदाहरणम् – वेत्ति (√विद्, अदादि-गणः, विदँ ज्ञाने, धातु-पाठः #२. ५९ ) लँट्, कर्तरि-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
विद् + लँट् 3-2-123 = विद् + ल् 1-3-2, 1-3-3
= विद् + तिप् 3-4-78, 1-4-100, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= विद् + ति 1-3-3 = विद् + शप् + ति 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= विद् + ति 2-4-72 = वेद् + ति 7-3-86 = वेत्ति 8-4-55