Table of Contents

<<1-3-9 —- 1-3-11>>

1-3-10 यथासङ्ख्यम् अनुदेशः समानाम्

प्रथमावृत्तिः

TBD.

काशिका

सङ्ख्याशब्देन क्रमो लक्ष्यते। यथासङ्ख्यं यथाक्रमम् अनुदेशो भवति। अनुदिश्यते इति अनुदेशः। पश्चादुच्चार्यते इत्यर्थः। समानां समसङ्ख्यानं समपरिपहितानाम् उद्देशिनाम् अनुदेशिनां च यथाक्रममौद्देशिभिरनुदेशिनः सम्बध्यन्ते। तूदीशलातुरवर्मतीकूचवाराड् ढक्छण्ढञ्यक्ः 4-3-94। प्रथमात् प्रथमः, द्वितीयाद् द्वितीयः इत्यादि। तौदेयः। शालातुरीयः। वार्मतेयः। कौचवार्यः। समानाम् इति किम्? लक्षणैत्थम्भूताऽख्यानभाग. वीप्सासु प्रतिपर्यनवः 1-4-90। लक्षणादयश्चत्वारो ऽर्थाः, प्रत्यादयस् त्रयः, सर्वेषं सर्वत्र कर्मप्रवचनीयसंज्ञा भवति। इह कस्मान् न भवति वेशोयशाऽदेर् भगाद् यल् 4-4-131) ख च (*4,4.132 इति? स्वरितेन लिङ्गेन यथासङ्ख्यम्। यत्र एष्यते, तत्र स्वरितत्वं न प्रतिज्ञायते। स्वरितेन अधिकारः 1-3-11 इति स्वरितग्र्हणं पूर्वेण अपि सम्बध्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

23 समसंबन्धी विधिर्यथासंख्यं स्यात्. हरये. विष्णवे. नायकः. पावकः..

बालमनोरमा

128 यथासङ्ख्यम्। साम्यमिह सङ्ख्यातो विवक्षितम्। अनुदेशः=विधानम्। समानामिति यदि कर्मणि षष्ठी स्यात्तर्हि स्थान्यादिभिः समसङ्ख्यानां यत्र विधानं, यथा `एचोऽयवायाव' इत्यादौ तत्रैव यथासङ्ख्य प्रवृत्तिः स्यात्, `समूलाकृतजीवेषु हन्?कृञ्?ग्रहः' इत्यत्र न स्यात्, तत्र विधेयस्य णमुल एकत्वात्। अतः `समाना'मिति सम्बन्धसामान्ये षष्ठी। एवञ्च समूलाद्युपपदानां हनादिधातूनां च समसङ्ख्यानामुपादानेन एकस्य प्रत्ययस्य विधिरपि समसङ्ख्याकसम्बन्धी विधिरेवेति तत्रापि यथासङ्ख्यप्रवृत्तिनिर्बाधा। तदाह–समसम्बन्धीति। यथासङ्ख्यमिति। सङ्ख्याशब्देनात्र प्रथमत्वद्वितीयत्वादिरूपाः सङ्ख्याघटितधर्मा विवक्षिताः, ताननतिक्रम्य यथासङ्ख्यम्। ततश्च `एचोऽयवायाव' इत्यादिषु प्रथमस्य स्थानिनः प्रथम आदेशः, द्वितीयस्य द्वितीय इत्येवमक्रमेण स्थान्यादेशतन्निमित्तादीनां समसङ्ख्याकानां क्रमेणाऽन्वयः प्रतिपत्तव्य इति फलितम्। प्रकृ-ते च यपरके हकारे परे मकारस्य यकारः, वपरके वकारः, लपरके लकार इति सिध्यति। किय्#ँ ह्र इति। मस्य यत्वे रूपम्। `ह्र' इत्यव्ययम्, पूर्वेद्युरित्यर्थः। यत्वाभावे मोऽनुस्वारः। किव्#ँ ह्वलयतीति। मस्य वत्वम्। ह्वल चलने, णिच्। किल्#ँ ह्लादयतीति। मस्य लत्वम्॥ `ह्लादी सुखे च' णिच्।

तत्त्वबोधिनी

102 यथासङ्ख्यमनुदेशः। अनुदिश्यत इति अनुदेशः। पश्चादुच्चार्यत इत्यर्थः। `समाना'मिति संबन्धे षष्ठी, तदाह–समसम्बन्धी विधिरिति। `समकर्मकं विधान'मिति तु नोक्तम्, तथाहि सति यत्रोद्देशिषु समेषु समानां विधानं पाघ्रदिषु पिबादीनां प्रियस्थिरादिषु च प्रस्थादीनां' तत्रैव यथाक्रमं प्रवृत्तिः स्यात्। इष्यते तु अनुवाद्ययोरपि यथासङ्ख्यत्वम्। `समूलाकृतजीवेषु हन्कृञ्ग्रहः' इत्यत्र यथा। समानामिति किम् ?, `लक्षणेत्थंभूते'त्यत्र लक्षणादयश्चत्वारोऽर्थाः, प्रत्यादयस्तु त्रयः, तत्र सर्वेषां सर्वत्र कर्मप्रवचनीयसंज्ञा यथा स्यात्।

Satishji's सूत्र-सूचिः

300) यथासंख्यमनुदेशः समानाम् 1-3-10

वृत्तिः समसंबन्‍धी विधिर्यथासंख्‍यं स्‍यात् । The assignment of equally enumerated items follows the order of their enumeration.