Table of Contents

<<3-4-83 —- 3-4-85>>

3-4-84 ब्रुवः पञ्चानाम् आदित आहो ब्रुवः

प्रथमावृत्तिः

TBD.

काशिका

परस्मैपदानाम् इत्येव, लटो वा इति च। ब्रुवः परस्य लटः परस्मैपदानां पञ्चानाम अदिभूतानां पञ्चैव णलादय आदेशा भवन्ति, तत्सन्नियोगेन च ब्रुव आहशब्द आदेशो भवति। आह, आहतुः, आहुः। आत्थ, आहथुः। न च भवति। ब्रवीति, ब्रूतः, ब्रुवन्ति। ब्रवीषि, ब्रूथः। पञ्चानाम् इति किम्? ब्रूथ। ब्रवीमि, ब्रूवः, ब्रूमः। आदितः इति किम्? परेषां मा भूत्। ब्रुवः इति पुनर् वचनं स्थान्यर्थम्, प्रस्मैपदानाम् एव हि स्यात्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

596 ब्रुवो लटस्तिबादीनां पञ्चानां णलादयः पञ्च वा स्युर्ब्रुवश्चाहादेशः. आह. आहतुः. आहुः..

बालमनोरमा

281 ब्राऊञ्। ब्राउवः पञ्चानाम्। `परस्मैपदानां णलतु'रित्यत उत्तरसूत्रमिदम्। `विदो लटो वे'त्यतो लटो वेत्यनुवर्तते। तदाह–ब्राउवो लट इति। आदितः पञ्चानामिति। तिप् तस् झि सिप् थसित्येषामित्यर्थः। णलादयः पञ्चेति। णल् अतुस् उस् थल् अथुस् इत्येते पञ्चेत्यर्थः। उच्चारणार्थ इति। तत्प्रयोजनमात्तेत्यत्रानुपदमेव व्यक्तं भविष्यति। आहेति ब्राऊधातोर्लटस्तिपो णलि प्रकृतेराहादेशः। सिपस्थलि प्रकृतेराहादेशे आह् थ इति स्थिते हस्य ढत्वे प्राप्ते–

तत्त्वबोधिनी

246 ब्राउवः पञ्चानाम्। `विदो लटो वे'त्यतो लटो वेतित वर्तते। `ब्राउव' इत्येतदादिमं पञ्चम्यन्तमन्तिमं तु पञ्चम्यन्तमन्तिमं तु षष्ठ\उfffद्न्तमित्याशयेनाह– ब्राउवो लट इत्यादि। चत्र्वमिति। प्रक्रियालाघवात् `आहस्तः' इत्येव सुवचमित्याहुः।

Satishji's सूत्र-सूचिः

393) ब्रुवः पञ्चानामादित आहो ब्रुवः 3-4-84
वृत्तिः ब्रुवो लटस्‍तिबादीनां पञ्चानां णलादयः पञ्च वा स्‍युर्ब्रुवश्‍चाहादेशः । The first five affixes (“तिप्”, “तस्”, “झि”, “सिप्”, “थस्”) of लँट् following the verbal root √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९) optionally get the first five णलादि-प्रत्ययाः (“णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”) as replacements. As per 1-3-10, the substitutions are done respectively. Simultaneously, “ब्रू” takes the substitution “आह्”।

The ञकार: at the end of “ब्रूञ्” is an इत् by 1-3-3. Therefore, as per 1-3-72, this धातुः √ब्रू can take either परस्मैपद-प्रत्यया: or आत्मनेपद-प्रत्यया:।

Let us consider the case when a परस्मैपद-प्रत्यय: is used.

उदाहरणम् – आह (√ब्रू, अदादि-गणः, ब्रूञ् व्यक्तायां वाचि, धातु-पाठः #२. ३९) लँट्, कर्तरि-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

ब्रू + लँट् 3-2-123 = ब्रू + ल् 1-3-2, 1-3-3
= ब्रू + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= आह् + णल् 3-4-84
= आह् + शप् + णल् 3-1-68
= आह् + णल् 2-4-72
= आह् + अ 1-3-3, 1-3-7 = आह