Table of Contents

<<3-4-100 —- 3-4-102>>

3-4-101 तस्थस्थमिपाम् तांतंतामः

प्रथमावृत्तिः

TBD.

काशिका

ङितः इत्येव। ङिल्लकारसम्बन्धिनां चतुर्णाम् यथासङ्ख्यं तामादयः आदेशा भवन्ति। अपचताम्। अपचतम्। अपचत। अपचम्। अपाक्ताम्। अपाक्तम्। अपाक्त। अपाक्षम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

416 ङितश्चतुर्णां तामादयः क्रमात्स्युः. भवताम्. भवन्तु..

बालमनोरमा

48 तस्थस्थमिपां। तस्,थस्, थ, मिप्,–एषां द्वन्द्वात्षष्ठीबहुवचनम्। ताम तम् त आम् एषां द्वन्द्वात्प्रथमाबहुवचनम्। `नित्यं ङित' इत्यस्मान्ङित इत्यनुव्रतते। तदाह–ङितश्चतुर्णामिति। ङितो लकारस्य आदेशभूतानामित्यर्थः। क्रमादिति। यथासङ्ख्यसूत्रलभ्यमिदम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

301) तस्थस्थमिपां तांतंतामः 3-4-101

वृत्तिः ङितश्‍चतुर्णां तामादयः क्रमात्‍स्‍युः। The तिङ्-प्रत्ययाः “तस्”, “थस्”, “थ” and “मिप्” of a लकारः which is a ङित्, are replaced by “ताम्”, “तम्”, “त” and “अम्” respectively.

उदाहरणम् – भवताम् (√भू-धातुः, लोँट्, प्रथम-पुरुषः, द्विवचनम्)
भू + लोँट् 3-3-162 = भू + ल् 1-3-2, 1-3-3
= भू + तस् 1-4-101, 1-4-102, 1-4-108, तस् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= भू + ताम् 3-4-85, 3-4-101, 1-3-10, ताम् also gets सार्वधातुक-सञ्ज्ञा by 1-1-56
= भू + शप् + ताम् 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= भो + शप् + ताम् 7-3-84 = भो + अ + ताम् 1-3-3, 1-3-8, 1-3-4 = भवताम् 6-1-78