Table of Contents

<<3-2-2 —- 3-2-4>>

3-2-3 आतो ऽनुपसर्गे कः

प्रथमावृत्तिः

TBD.

काशिका

आकारान्तेभ्यः अनुपसर्गेभ्यः कर्मण्युपपदे कप्रत्ययो भवति। अणो ऽपवादः। गोदः। कम्बलदः। पार्ष्णित्रम्। अङ्गुलित्रम्। अनुपसर्गे इति किम्? गोसन्दायः। वडवासन्दायः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

794 आदन्ताद्धातोरनुपसर्गात्कर्मण्युपपदे कः स्यात्. अणोऽपवादः. आतो लोप इटि च. गोदः. धनदः. कम्बलदः. अनुपसर्गे किम्? गोसन्दायः. (वा.) मूलविभुजादिभ्यः कः. मूलानि विभुजति मूलविभुजो रथः. आकृतिगणोऽयम्. महीध्रः. कुध्रः..

सिद्धान्तकौमुदी

< 3-2-23-2-4 >
२९१५ आदन्ताद्धातोरनुपसर्गात्कर्मण्युपपदे कः स्यान्नाण् । ’आतो लोपः’ । गोदः । पार्ष्णित्रम् । ’अनुपसर्गे’ किम् । गोसन्दायः । ’कविधौ सर्वत्र संप्रसारणेभ्यो ड:’ (वा० १९८४) । ब्रह्म जिनाति ब्रह्मज्यः । सर्वत्रग्रहणादातश्चोपसर्गे आह्वः । प्रह्वः ।

बालमनोरमा

732 आतोऽनुपसर्गे कः। पा\उfffद्ष्णत्रमिति। पा\उfffद्ष्णः– पादमूलभागः। तं त्रायते विग्रहः। `त्रैङ् पालने' आत्वे कृते कः। गोसंदाय इति। अणि - आतो युक्। कविधौ सर्वत्रेति। वार्तिकमिदम्। सर्वत्र कप्रत्ययविधौ संप्रसारणार्हेभ्यः कापवादो डप्रत्ययो वाच्य इत्यर्थः। ब्राहृज्य इति। `ज्या वयोहानौ' अस्माड्डः। डित्त्वसामथ्र्यादभस्यापि टेर्लोपः। अत्र कप्रत्यये सति कित्त्वात् `ग्रहिज्ये' ति संप्रसारणं प्रसक्तम्, अतो ड एव, नतु कः। सर्वत्रेति। उपसर्गे उपपदे आतोऽपि ड एव, नतु `आतश्चोपसर्गे' इति कः,`सर्वत्र' ग्रहणादित्यन्वयः। अन्यथा `अनन्तरस्य विधि'रिति न्यायात् `आतोऽनुपसर्गे'इति कं बाधित्वा ड एव। तस्य अकित्त्वाद्यजादिलक्षणं संप्रसारणं न। सुपि स्थः। योगो विभज्यते इति। इदं भाष्ये स्पष्टम्। तत्र `सुपी'त्यंशं व्याचष्टे– सुप्युपपदे इति इदं केवलोपसर्ग व्यर्थम्, `आतश्चोपसर्गे' इत्येव सिद्धेः, कर्मण्युपपदेऽप्येतद्व्यर्तमेव, `आतोऽनुपसर्गे कः' इत्यारम्भादिति मत्वोदाहरति– द्वाभ्यामिति। तत इति। `सुपी'त्यंशस्य व्याख्यानान्तरं `स्थ' इत्यंशो व्याख्यायत इत्यर्थः। ननु `सुपी'त्यंशेनैव सिद्धे किमर्थमिदमित्यत आह– आरम्भसामथ्र्यादिति। कर्तरि `सुपि' इति पूर्वेण स्दधे `कर्तरि कृ'दिति नानुवर्तते। अनिर्दिष्टार्थत्वात् `गुप्तिज्किद्भ्यः स' नित्यादिवत्स्वार्थिकोऽयम्, स्वार्थश्च भाव एवेति भाष्ये स्पष्टम्। न च एवं सति `घञर्थे कविधान'मित्येव सिद्धमिति वाच्यम्, नित्योपपदसमासार्थत्वात्। अत एव ल्युडन्तेन अस्वपदविग्रहं दर्शयन्नाह— आखूनामुत्थानमाखूत्थ इति।

तत्त्वबोधिनी

611 पा\उfffद्ष्णत्रमिति। पार्ष्ण त्रायत इति। त्रैङ् पालने। गोसंदाय इति। अण्। युक्। संप्रसारणपर्यायः। जिनातीति। ज्या वनोहानौ। `क्र्यादिभ्य' इति श्नाप्रत्यये `ग्रहिज्ये' ति संप्रसारणे पूर्वरूपे `हलः' इति दीर्घे च कृते `प्वादीना'मिति ह्यस्वः। ब्राहृज्य इति। डित्त्वसामथ्र्यादभस्यापि टेर्लोपः। पूर्वेण के हि सति कित्त्वात्संप्रसारणादौ च `ब्राहृजिय' इति स्यात्। आह्वः प्रह्व इति। के हि सति `वचिस्वपी'त्यादिना ह्वेञः संप्रसारणे सति आहुवः प्रहुव इति स्यादिति बोध्यम्।

Satishji's सूत्र-सूचिः

Video

वृत्तिः आदन्ताद्धातोरनुपसर्गात्कर्मण्युपपदे कः स्यात् । अणोऽपवादः। When in composition with a पदम् which denotes the object (of the action) a verbal root which ends in a आकारः may take the affix “क” as long as there is no उपसर्गः (ref: 1-4-59 उपसर्गाः क्रियायोगे) associated with the verbal root. Note: The affix “क” (prescribed by this सूत्रम्) is an exception to the affix “अण्” prescribed by 3-2-1 कर्मण्यण्।

उदाहरणम् – धनं ददातीति धनदः derived from √दा (डुदाञ् दाने ३. १०) with the उपपदम् “धन”।

“धन” gets the उपपद-सञ्ज्ञा by 3-1-92
दा + क 3-2-3
= दा + अ 1-3-8, 1-3-9
= द् + अ 6-4-64, 1-1-52
= द

धन ङस् (ref: 2-3-65) + द 2-2-19, 1-2-43, 2-2-30
= धन + द 1-2-46, 2-4-71

“धनद” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46

Examples