TBD.
सुबन्ते उपपदे तिष्ठतेः कप्रत्ययो भवति। समस्थः। विषमस्थः। अत्र योगविभागः कर्तव्यः सुपि इति। सुपि आकारान्तेभ्यः कप्रत्ययो भवति। द्वाभ्याम् पिबति इति द्विपः। पादपः। कच्छपः। ततः स्थः इति। स्थश्च सुपि कप्रत्ययो भवति। किमर्थम् इदम्? कर्तरि पूर्वयोगः। अनेन भावे ऽपि यथा स्यात्। आखूनाम् उत्थानम् आखूत्थः। शलभोत्थः। इत उत्तरं कर्मणीति च सुपीति च द्वयमप्यनुवर्तते। तत्र सकर्मकेषु धातुषु कर्मणीत्येतदुपतिष्ठते। अन्यत्र सुपीति।
TBD.
–
–
612 सुपि स्थः। `सु'पिति प्रत्याहारो गृह्रते, न तु सप्तमीबहुवचम्। कृत्रिमाऽकृत्रिमयोः कृत्रिमस्यैव ग्रहणात्। आरम्भसाथ्र्यादिति। कर्तरि पूर्वेणैव सिद्धत्वादिह `कर्तरि कृ'दिति न संबध्यते, अनिर्दिष्टार्थश्चस्वार्थे, धातोः स्वार्थो भाव एव। नन्वेवं `घञर्थे कविधान' मित्यनेन गतार्थतेति चेत्। न। वार्तिकं दृष्ट्वा सूत्रकृतोऽप्रवृत्तेः। किं च `षष्ठी'ति सूत्रेण पाक्षिकसमासे प्रसक्ते `उपपदमति'ङिति नित्यसमासार्थमिदम्। अतएव ल्युडन्तेनाऽस्वपदविग्रहमाह- - आखूनामुत्थानमिति। नन्वेवं `घञर्थे कविधाने स्थारुआआपाव्यधिहनियुध्यर्थ'मिति वार्तिके स्थाग्रहणं व्यर्थमिति चेत्। अत्राहुः– `अकर्तरि कारके विधानार्थं तत्र स्थाग्रहण'मिति। आखूत्थ इति। स्था इत्यस्य के परे `आतो लोपः' इत्यालोपः, `उदः स्थास्तम्भो'रिति उदः परस्य सस्य थः, उदो दस्य चत्र्वम्। अत्र प्राचा आखूत्थं वर्ततैति नपुंसकं पठितं, तदुपेक्ष्यमिति मनोरमायामुक्तम्, भाष्यादौ सर्वत्र पुंलिङ्गस्यैवोदाह्मतत्वात्। `ल्युः कर्तरीमनिज् भावेको घोः किः प्रादितोऽन्यतः' इत्यमरकोशे बावे कस्य पुंस्त्वविधानात्, `भावे नणकचिद्भोऽन्ये' इति नपुंसकविधाने कस्य पर्युदासाच्चेति। `नणकचिद्भ्य' इत्यत्र चकार इद्यस्य स चित्, नश्च णश्च कश्च चिच्च नणकचितस्तेभ्योऽन्य इति विग्रहः।
वृत्तिः सुपीति योगो विभज्यते । सुपि उपपदे आदन्तात्कः स्यात् । तत: “स्थ:”। सुपि तिष्ठते: क: स्यात्। आरम्भसामर्थ्याद्भावे। This rule is split in to two parts. The first part is सुपि - When in composition with a पदम् which ends in a सुप् affix (ref. 4-1-2 स्वौजसमौट्छष्टा..), a verbal root which ends in a आकारः may take the affix “क”। The second part is “स्थ:” – When in composition with a पदम् which ends in a सुप् affix (ref. 4-1-2 4-1-2 स्वौजसमौट्छष्टा..), the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) may take the affix “क” to denote the action itself (and not the agent of the action.)
उदाहरणम् – द्वाभ्यां पिबतीति द्विपः derived from √पा (पा पाने १. १०७४)।
द्वि + भ्याम् + पा + क 3-2-4 (सुपि)
Note: In the सूत्रम् 3-2-4 (सुपि), the term सुपि ends in the seventh (locative) case. Hence “द्वि + भ्याम्” gets the उपपद-सञ्ज्ञा here by 3-1-92.
= द्वि + भ्याम् + पा + अ 1-3-8, 1-3-9. Note: The affix “क” is a कित्। This allows 6-4-64 to apply in the next step.
= द्वि + भ्याम् + प् + अ 6-4-64, 1-1-52
= द्वि + भ्याम् + प
Now we form the compound between “द्वि भ्याम्” (which is the उपपदम्) and “प” using the सूत्रम् 2-2-19. Note: Here “द्वि भ्याम्” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43
In the compound, “द्वि भ्याम्” is placed in the prior position as per 2-2-30
“द्वि भ्याम् + प” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46
= द्विप 2-4-71
उदाहरणम् – आखूनामुत्थानम् = आखूत्थ:। derived from √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) with the उपसर्ग: “उद्”।
आखु + आम् + उद् स्था + क 3-2-4 (स्थ:)
Note: In the सूत्रम् 3-2-4 (स्थ:), the term सुपि (which ends in the seventh (locative) case) comes as अनुवृत्ति: from the prior सूत्रम् 3-2-4 (सुपि)। Hence “आखु + आम्” gets the उपपद-सञ्ज्ञा here by 3-1-92
= आखु + आम् + उद् स्था + अ 1-3-8, 1-3-9. Note: The affix “क” is a कित्। This allows 6-4-64 to apply in the next step.
= आखु + आम् + उद् स्थ् + अ 6-4-64, 1-1-52
= आखु + आम् + उद् स्थ
Now we form the compound between “आखु + आम्” (which is the उपपदम्) and “उद् स्थ” using the सूत्रम् 2-2-19. Note: Here “आखु + आम्” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43
In the compound, “आखु + आम्” is placed in the prior position as per 2-2-30
“आखु + आम् + उद् स्थ” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46
= आखु उद् स्थ 2-4-71
= आखूद्स्थ 6-1-101
= आखूत्स्थ 8-4-55
Example continued under 8-4-61