Table of Contents

<<2-2-18 —- 2-2-20>>

2-2-19 उपपदम् अतिङ्

प्रथमावृत्तिः

TBD.

काशिका

नित्यम् इति वर्तते। उपपदम् अतिङन्तं समर्थेन शब्दान्तरेण सह समस्यते नित्यम्, तत्पुरुषश्च समासो भवति। कुम्भकारः। नगरकारः। अतिङिति किम्? एधानाहारको व्रजति। ननु च सुप् सुपा इति वर्तते, तत्र कुतस् तिङन्तेन समासप्रसङ्गः? एवं तर्हि ज्ञापयति एतयोर् योगयोः सुप् सुपेति न सम्बध्यते इति। तेन गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः इत्येतदुपपन्नं भवति। अश्वक्रीती। अश्वक्रीती। धनक्रीती।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

957 उपपदं सुबन्तं समर्थेन नित्यं समस्यते. अतिङन्तश्चायं समासः. कुम्भम् करोति कुम्भकारः. अतिङ् किम्? मा भवान् भूत्. माङि लुङिति सप्तमीनिर्देशान्माङुपपदम्. (प.) गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः. व्याघ्री. अश्वक्रीती. कच्छपीत्यादि..

बालमनोरमा

772 उपपदमतिङ्। सुबन्तमिति। `सुबामन्त्रिते' इत्यतस्तदनुवृत्तेरिति भावः। समर्तेनेति। प्रथमान्तं समर्थग्रहणं तृतीयान्ततया विपरिणम्यत इति भावः। अतिङन्तश्च समास इति। सूत्रे तिङिति तदन्तग्रहणमिति भावः। समासः तिङन्तघटितो न भवतीत्यर्थः। अतिङ् किम् ?, कारको व्रजति। `तुमुन्ण्वुलो क्रियायां क्रियार्थाया'मिति व्रजतावुपपदे कृञो ण्वुल्, अकादेशः। `उपपदं समर्थेने'त्येतावत्युक्ते इहाप्युपपदसमासः स्यात्। अतोऽतिङ्ग्रहणम्। नचैवं सुबित्यनुवृत्तेः प्रयोजनाऽभाव इति वाच्यं, `चर्मकार' इत्यत्र नलोपार्थकत्वात्। `उपपदमतिङन्तं समर्तेन समस्यते' इति व्याख्याने तु सुबिति नानुवर्तेत। ततश्च `चर्मकार' इत्यत्र नलोपो न स्यादिति भावः। कुम्भिमिति। कुम्भं करोतीत्यर्थः। `कर्मण्य'णिति कर्मीभूतकुम्भवाचकपदे उपपदे कृञ्धातोः कर्तरि अण्प्रत्यये `अचो ञ्णिती'ति वृद्धौ रपरत्वे कारशब्दः। तेन कुम्भशब्दस्य समासे कुम्भकारशब्द इत्यर्थः। ननु कुम्भं करोतीति कथं विग्रहप्रदर्शनम्, `अतिङन्तः समास' इत्युक्तत्वादित्यत आह–कुम्भ अस् कार इत्यलौकिकं प्रक्रियावाक्यमिति। लोके प्रयोगानर्हत्वमलौकिकत्वम्। `प्रत्ययोत्तरपदयोश्चे'ति सूत्रभाष्यरीत्या अलोकिकविग्रहवाक्य एव समासप्रवृत्तिः। कुम्भं करोतीति तदर्थप्रदर्शनमात्रमिति भावः। कुम्भ अम्-कार इत्यपपाठः, कृद्योगे षष्ठ\उfffदा विधानात्। मा भवान्भूदिति। अत्र भूदिति तिङन्तेन माङः समासनिवृत्त्यर्थमतिङ्ग्रहणमिति भावः। भवानिति पदं तु समासाऽभावसूचनाय मध्ये प्रयुक्तम्। ननु माङस्तृतीयधात्वधिकारे सप्तमीनिर्दिष्टत्वं तु अदृष्टं येन तस्य उपपदत्वात्समासः प्रसज्यत इत्यत आह–माङिति। ननु अतिङ्ग्रहणं व्यर्थं, मा भवान्भूदित्यत्र सुपेत्यनुवृत्त्यैव समासनिवृत्तिसंभवादित्यत आह–अतिङ्ग्रहणमिति। एवंच उपपदमसुबन्तेन समस्यत इति फलितम्। गतिसमासोऽप्यसुबन्तेनेत्याह–पूर्वसूत्र इति। उत्तरसूत्रात्पूर्वसूत्रेऽनुवृत्तिरपकर्षः। `कुप्रादयः' इति `गति'रिति च योगो विभज्यते। कुप्रादयः सुबन्तेन समस्यन्ते। गतिस्तु समर्थेन समस्यते। अतिङन्तश्च समास इति व्याख्येयमिति यावत्। ततः किमित्यत आह–तथा चेति। `गतिकारकोपपदानां कृदन्तैः सह सुबुत्पत्तेःप्राक्समासो वक्तव्य' इति प्राचीनव्याकरणोक्तं सिद्धं भवतीत्यर्थः। यद्यप्युक्तरीत्या गत्युपपदयोरेव लाभः, तथाप्येकदेशानुमतिद्वारा प्राचीनपरिबाषेयं सिध्यति। अथ परिभाषायाः फलं दर्शयितुं गतिसमासमुदाहरति– व्याघ्रीति। व्याजिघ्रतीति व्याघ्रः। `व्याङ्पूर्वाद्घ्राधातोः `आतश्चोपसर्गे' इति कः, `आतो लोप इटि चे'त्याल्लोपः। `पाघ्राध्मादेट्दृशः शः' इति तु न भवति, `जिघ्रतेः संज्ञायां नेति वाच्य'मिति निषेधात्। आङो घ्रशब्देन गतिसमासः। आघ्रशब्देन वेर्गतिसमासः। तत्र यदि घ्रशब्दस्य सुबन्तत्वमपेक्ष्येत, तर्हि स्त्रीप्रत्यये उत्पन्ने सुबुत्पत्तिः स्यात्, स्वार्थद्रव्यलिङ्गसङ्ख्याकारकप्रयुक्तकार्याणां क्रमिकत्वस्य `कुत्सिते'इति सूत्रस्थभाष्यदर्शितस्य `ङ्याप्प्रातिपदिका'दित्यत्रास्माभिः प्रपञ्चितत्वात्। ततश्च सुबुतपत्तये लिङ्गसङ्ख्याकारकं क्रमेणाऽपेक्ष्यमिति प्रथमं लिङ्गसंयोगे सति अदन्तत्वाट्टाप्स्यात्। न तु जातिलक्षणङीष्, घ्रशब्दमात्रस्य जातिवाचित्वाऽभावात्। ततश्च घ्राशब्देन सुबन्तेन समासे सति व्याघ्राशब्दस्याऽदन्तत्वाऽभावाज्जातिलक्षणो ङीष् न स्यादिति भावः। यद्यप्युपपदत्वेनाप्येतत्सिद्धं, तथापि गतित्वसंभवमात्रेणेदमित्याहुः। वस्तुतस्तु आङो घ्राशब्देन उपपदसमासः, `आतश्चोपसर्गे' इति सप्तमीनिर्देशात्। वेस्तु आघ्रशब्देन गतिसमास इति तदंशे गतिसमासोदाहरणमित्याहुः। अथ कारकसमासमुदाहरति–अ\उfffदाक्रीतीति। अ\उfffदोन क्रीतेति विग्रहे `कर्तृकरणे कृता' इति समासः। `क्रीतात्करणपूर्वा'दिति ङीष्। सुबन्तेन समासे तूक्तरीत्या पूर्वं टापि अदन्तत्वाऽभावान्ङीष् न स्यादिति भावः। उपपदसमासमुदाहरति-कच्छपीति। कच्छः=तीरं, तेन तस्मिन्वा पिबतीतिकच्छपो। `सुपि स्थः' इत्यत्र सुपी'ति योगविभागात्कः, उपपदसमासः,। तस्य सुबन्तापेक्षायामुक्तरीत्या टाबेव स्यान्न तु जातिलक्षण ङीषिति भावः।

तत्त्वबोधिनी

681 समर्थेनेति। तेन `महान्तं कुम्भं करोती त्यादी नातिप्रसङ्गः। अतिङन्तश्चेति। सुबिति तु अनुवर्तत एवेति अतिङन्तमिति नोक्तमिति भावः। कुम्भ असिति। अमिति तु नोक्तं, कृद्योगे षष्ठीविधानात्। अतिङ् किमिति। सुपेत्यधिकारात्किमनेनेति प्रश्नः।इतरो वक्ष्यमाणं ज्ञापकं मनसि निधाय प्रत्युदाहरति—मा भवानिति। समासाऽभावसूचनाय `भवा'निति मध्ये प्रयुक्तम्। पूर्वसूत्र इति। `कुप्रादयः' `गतिः'इति योगं विभज्य `कुप्रादयऋ सुबन्ताः सुबन्तेन समस्यन्ते, गतिस्तु सुबन्तोऽतिङन्तेन समस्यते'इति व्याख्येयमित्यर्थः। तथाचेति। यद्यप्युक्तरीत्या गत्युपपदयोरेव लाभः, तथापि त्रितयविषयिणी प्राचां परिभाषा एकदेशानुमतिद्वारा इहापि ज्ञाप्यत इति भावः। कारकांशे तु `कर्तृकरणे कृते'ति सूत्रस्थबहुलग्रहणमुक्तार्थे साधकमित्यपि मनोरथायां स्थितम्। प्रागिति। कृदन्ताच्चरमपदात्सुबुत्पत्तेः पूर्वं समास इत्यर्थः। प्रथमान्तसुब्ग्रहणं त्विहानुवर्तत एव, तेन `राजदर्शी' त्यादौ पूर्वपदे नलोपादि कार्य सिद्द्यति। परिभाषाफलं दर्शयन् गतिमुदाहरति–व्याघ्रीति। व्याजिघ्रतीति व्याघ्री। `आतश्चोपसर्गे'इति इति कः। `पाघ्राध्माधे'डिति शस्तु संज्ञायां न भवति, व्याघ्रादिभिरिति निर्देशादिति वक्ष्यते। व्याङो `घ्र'शब्देन गतिसमासः। स यदि घ्रशब्दस्य सुबन्ततामापेक्षेत, तर्हि सुबुत्पत्तये सङ्ख्याद्यपेक्ष्यं, ततः प्रागेव लिङ्गयोग इति लिङ्गनिमित्तप्रत्ययेन टापा भाव्यं न तु ङूषा। घ्र शब्दमात्रस्य जातिवाचित्वाऽभावात्, ततो घ्राशब्देन समास इत्यदन्तत्वाऽभाबाज्जातिलक्षणो ङीष् न स्यादिति भावः। यद्यप्युपपदत्वेनाप्येतत्सिद्धं तथापि गतिग्रहणमाङो घ्रशब्देन समासे पश्चादाघ्रशब्देन विशब्दस्य समासार्थमावश्यकमेव। आङ्पूर्वाद्धातोः कप्रत्ययविधानादाङयुपपदसंज्ञाभ्युपगमेऽपि विशब्दे तदनभ्युपगमादिति बोध्यम्। कारकमुदाहरति–अ\उfffदाक्रीतीति। अ\उfffदोन क्रीति। `कर्तृकरणे कृते'ति समासः। `क्रीतात्करणपूर्वा'दिति ङीष्। सुबन्तेन समासे तु टापा भाव्यमित्यदन्तत्वाऽभावात् `क्रीतात्करण—' इत्यये ङीष् न स्यादिति ज्ञेयम्। उपपदमुदाहरति–कच्छपीति। कच्छेन पिबतीति कच्छमी। `सुपि'इति योगविभागात्कः। इहापि समासस्य सुबन्ततापेक्षायां टाबेव स्यान्न ङीषित्यादि व्याघ्रात्यत्रेव बोध्यम्। प्राचातु`उपपदमतिङन्तं समस्यते'इत्युक्तं, तदसत्, तथा सति प्रथमान्तसुब्ग्रहणनिवृत्त्यापत्त्या `राजदर्शी'`चर्मकार'इत्यादौ नलोपो न स्यात्, पदान्तत्वात्। प्राटितेत्यादौ `अतो गुणे' इति पररूपं च स्यात्। स्यादेतत्–कच्छेन साधनेन पिबतीतियर्थाभ्युपगमे कच्छस्य कारकत्वेन कच्छपीति रूपसिद्धौ नेदमुपपदस्याऽसाधारणोदाहरणमिति चेत्, एवं तर्हि `भाषवापिणी'त्युदाहर्तव्यम्। `सुप्यजातौ'इति णिनौ कृते माषोपपदस्य कृदन्तेन समासे `प्रातिपदिकान्ते'त्यादिनापूर्वपदस्थान्निमित्तात्परस्या समासप्रतिपदिकान्तनकारस्य णत्वं सिद्द्यति। सुबन्तेन समासे त्वन्तरङ्गत्वान्नान्तलक्षणे ङीपि पश्चाद्वापिनीशब्देन समासे गर्गभगिनीत्यत्रेव णत्वं न स्यादित्येके। अन्ये तु कच्छेन हेतुना पिबतीत्यर्थविवक्षायां कच्छस्याऽकारकत्वात्कच्छपूत्युपपदस्योदाहरणं सम्यगेवेत्याहुः।

Satishji's सूत्र-सूचिः

Video

वृत्तिः उपपदं सुबन्तं समर्थेन नित्यं समस्यते। अतिङन्तश्चायं समासः। A सुबन्तम् (term ending in a सुँप् affix ) having the designation “उपपद” (ref: 3-1-92 तत्रोपपदं सप्तमीस्थम्‌) invariably compounds with a syntactically related term as long as the compound does not end in a तिङ् affix.

Example continued from 3-1-92

2-2-19 allows us to form a compound between “प्र” and “ज्ञ”।

Example continued under 1-2-43