TBD.
ह्वेञ् स्पर्धायां शब्दे च, वेञ् तन्तुसन्ताने, माङ् माने इत्येतेभ्यश्च कर्मण्युपपदे अण् प्रत्ययो भवति। कप्रत्ययस्य अपवादः। स्वर्गह्वायः। तन्तुवायः। धान्यमायः।
TBD.
–
731 ह्वावामश्च। `ह्वेञ् स्पर्धायाम्' `वेञ् तन्तुसन्ताने' अनयोः कृतात्वयोर्निर्देशः, `माङ् माने' एषां द्वन्द्वात्पञ्चम्येकवचनम्। एभ्य इति। कर्मण्युपपदे एभ्योऽण् स्यादित्यर्थः। ननु `कर्मण्य'णित्येव सिद्धे किमर्थमिदमित्यत आह– कापवाद इति। `आतोऽनुपसर्गे कः' इत्यस्याऽणपवादस्य वक्ष्यमाणस्य बाधनार्थमित्यर्थः। माङ्मेङोरिह ग्रहणं, नतु `मा माने' इत्यस्य, अकर्मकत्वात्। स्वर्गह्वाय इति। यद्यपि पराभिभवेच्छायां स्पद्र्धायां परिभिभवस्य कर्मणो धात्वर्थत्वेनोपसङ्ग्रहादकर्मक इत्युक्तम्, तथापि इहाऽभिभवेच्छा धात्वर्थः। स्वर्गमभिभवितुं वाञ्छतीत्यर्थः। अन्तरङ्गत्वादात्वे कृते आतो युक्। एवमग्रेऽपि।
610 ह्वावामश्च। कापवाद इति। `आतोऽनुपसर्गे' इति प्राप्तिर्बोध्या। स्वर्गह्वाय इत्यादि। ह्वेञ्वेञोः `आदेचः' इत्यात्वे `आतो यु'गिति युक्। माङ् माने, मेङ् प्रणिदाने अनयोरिह ग्रहणं, न तु मा माने इत्यस्य, अकर्मकत्वात्। कविधानस्य फलमाह– -आतो लोप इति।
TBD.