Table of Contents

<<3-1-150 —- 3-2-2>>

3-2-1 कर्मण्यण्

प्रथमावृत्तिः

TBD.

काशिका

त्रिविधं कर्म, निर्वर्त्यं, विकार्यं, प्राप्यं च इति। सर्वत्र कर्मणि उपपदे धातोः अण् प्रत्ययो भवति। निर्वर्त्यं तावत् कुम्भकारः। नगरकारः। विकार्यम् काण्डलावः। शरलावः। प्राप्यम् वेदाध्यायः। चर्चापारः। ग्रामं गच्छति, आदित्यं पश्यति, हिमवन्तं शृणोति इत्यत्र न भवति, अनभिधानात्। शीलिकामिभक्ष्याचरिभ्यो णः पूर्वपदप्रकृतिस्वरत्वं च वक्तव्यम्। मांसशीलः, मांसशीला। मांसकामः, मांसकामा। मांसभक्षः, मांसभक्षा। कल्याणाचारः, कल्याणाचारा। ईक्षक्षमिभ्यां च इति वक्तव्यम्। सुखप्रतीक्षः, सुखप्रतीक्षा। बहुक्षमः, बहुक्षमा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

793 कर्मण्युपपदे धातोरण् प्रत्ययः स्यात्. कुम्भं करोतीति कुम्भकारः..

बालमनोरमा

730 कर्मण्यण्। कर्मण्युपपदे इति। `तत्रोपपदं सप्तमीस्थ'मित्यत्र `तत्रे'त्यनेनदं लभ्यत इति तत्रैवोक्तम्। प्रत्ययस्तु कर्तर्येव। उपपदसमास इति। `उपपदमति'ङित्यनेनेति भावः। कुम्भं करोतीति। अस्वपदो लौकिकविग्रहोऽयम्। कुम्भ अस् कार इत्यलौकिकविग्रह वाक्ये सुबुत्पत्तेः प्रागेव कारशब्देन कृदन्तेन कुम्भ अस् इति षष्ठ\उfffद्न्तस्य समास इति प्रागेवोक्तम्। ननु आदित्यं पश्यतीत्यादित्यदर्शः, हिमवन्तं शृणोतीति हिमवच्छ्रावः, ग्रामं गच्छतीति ग्रामगाम इत्यादि स्यादित्यत आह- - आदित्यं पश्यतीत्यादावनभिधानान्नेति। एतच्च भाष्ये स्पष्टम्। शालीति। शीलि, कामि, भक्षि, आचरि एभ्यो णप्रत्ययो वाच्य इत्यर्थः। ननु `कर्मण्य' णित्यणैव सिद्धे किमर्थमिदत्यत आह– अणोऽपवादार्थमिति. अण्णन्तत्वे तु ङीप् स्यात्, तन्निवृत्त्यर्थं णविधानमिति भावः। तदाह– मांसशीलेति। `शील समाधौ' इति भ्वादिः। इह तु स्वभावतः सेवने वर्तते। मांसं स्वभावतः सेवमानेत्यर्थः। मांसकामेति। मांसकामेति। मांसं कामयते इति विग्रहः। मांसभक्षेति। मांसं भक्षयते इति विग्रहः। कल्याणाचारेति। कल्याणमाचरतीति विग्रहः। सर्वत्र टाप्। ईक्षिक्षमिभ्यामिति। वार्तिकमिदम्। `ण' इति शेषः। कथमिति। कर्मण्यणि गङ्गाधार इत्यादि स्यादित्याक्षेपः। `कर्मणः शेषत्वेति. तथा च कर्मोपपदाऽभावान्नाऽणिति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

Video

वृत्तिः कर्मण्युपपदे धातोरण् प्रत्ययः स्यात् । The affix “अण्” may be used after a verbal root when in composition with a पदम् which denotes the object (of the action.)

उदाहरणम् – कुम्भं करोतीति कुम्भकारः derived from √कृ (डुकृञ् करणे ८. १०) with the उपपदम् “कुम्भ”।

“कुम्भ” gets the उपपद-सञ्ज्ञा by 3-1-92 कृ + अण् 3-2-1 = कृ + अ 1-3-3, 1-3-9 = कर् + अ 7-3-84, 1-1-51 = कार 7-2-116

कुम्भ ङस् (ref: 2-3-65) + कार 2-2-19, 1-2-43, 2-2-30 = कुम्भ + कार 1-2-46, 2-4-71

“कुम्भकार” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46