Table of Contents

<<2-3-64 —- 2-3-66>>

2-3-65 कर्तृकर्मणोः कृति

प्रथमावृत्तिः

TBD.

काशिका

कृत्प्रयोगे कर्तरि कर्मणि च षष्ठी विभक्तिर् भवति। भवतः शायिका। भवत आसिका। कर्मणिअपां स्रष्टा। पुरां भेत्ता। वज्रस्य भर्ता। कर्तृकर्मणोः इति किम्? शस्त्रेण भेत्ता। कृति इति किम्? तद्धितप्रयोगे मा भूत्, कृतपूर्वी कटम्। भुक्तपूर्व्योदनम्। शेषे इति निवृत्तम्, पुनः कर्मग्रहणात्। इतरथा हि कर्तरि च कृति इत्येवं ब्रूयात्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

615 कर्तृकर्मणोः कृति। कृत्प्रत्यये प्रयुज्यमाने सतीत्यर्थः। फलितमाह–कृद्योग इति। तत्र कर्तर्यु दाहरति–कृष्णस्य कृतिरिति। भावे स्त्रियां क्तिन्। कृष्णक्रतृका सृष्टिरित्यर्थः। कर्मण्युदाहरति-जगत इति। जगत्कर्मकसृष्ट\उfffद्नुकूलव्यापारवानित्यर्थः। गुणकर्मणीति। कृदन्तद्विकर्मकधातुयोगेऽप्रधानकर्मणि षष्ठीविकल्प इष्यत इत्यर्थः। प्रधानकर्मणि तु नित्यैव षष्ठी। `अकथितं चे\

तत्त्वबोधिनी

550 कर्तृकर्मणोः कृति। शेष इति निवृत्तं, `कर्तरि च कृति' इति सूत्रे कृते चकारेण `अधीगर्थ—'इति सूत्रात् `चतुथ्र्यर्थे बहुलं छन्दसि' इति पर्यन्तमनुवर्तमानस्य कर्मणीत्यस्यानुकर्षणसम्भवेऽपि पुनरत्र कर्मग्रहणात्। तस्माव्द्याख्यानमेवात्र शरणमित्यपरे। कर्तृकर्मणोः किम्?। शस्त्रेण भेत्ता। कृतिरिति। करणं कृतिः। `स्त्रियां क्तिन्'। कृष्णोऽत्र कर्ता। कर्मण्युदाहरति—जगत इति। कृष्णस्य तृचाऽभिहितत्वात्ततः षष्ठी न भवति। कृति किमिति। नन्विह कर्तृकर्मभ्यां क्रिया आक्षिप्यते, तद्वाची तु धातुरेव। धातोश्च द्वये प्रत्ययाः, कृतस्तिङश्च। तत्र तिङ्प्रयोगे कटं करोतीत्यादौ `न लोका—'इति प्रतिषेधेन भाव्यम्। ततश्च परिशेषात्कृद्योगे एव षष्ठी भविष्यति, त[स्मा]\उfffद्त्क कृद्ग्रहणेनेति प्रश्नः।

कर्मत्वं कटस्याऽस्त्येवेति षष्ठी स्यात्। तद्धिताधिक्ये तु सा मा भूदित्येतदर्थं कृद्ग्रहणमिति भावः। ननु कृतः कटः पूर्वमनेनेत्यस्मिन् विग्रहे क्तस्य कर्मणि विधानात्तेनैवाऽभिहितं कर्मेति नैव द्वितीया प्राप्नोति, नापि तदपवादभूता षष्ठी, इहाप्यनभिहिताधिकारात्। किञ्च कृतशब्दस्य कटसापेक्षतया समासो दुर्लभ एव, एवं तद्धितोऽपीति चेत्। अत्राहुः–पूर्वं कृतमनेनेति विग्रहे अविवक्षितकर्मतया भावे क्तप्रत्यये कृते कृतशब्दस्य कटसापेक्षत्वाऽभावात्समासतद्धितौ भवत एव। तथाच `कृपूर्वी'त्ययं पूर्वं कृतवान् इत्यनेन समानार्थः सम्पद्यते, गुणभूतयापि क्रियया कारकाणां सम्बन्धस्य कटं कृतवानित्यादौ दर्शनादत्रापि करोति क्रियापेक्षं कर्मत्वं कटस्याभ्युपगम्यते। तच्च कर्मत्वें न केनाप्यभिहितम्।भावे क्तस्य, कर्तरि इनिप्रत्ययस्य च विधानात्। अतोऽसति कृद्ग्?रहणे षष्ठी स्यादेवेति। एवं च `ओदनस्य पाचकतम'इत्यत्र षष्ठ\उfffदा असाधुत्वे इष्टापत्तिरेव शरणम्। `कृतपूर्वी'त्यत्र समासतद्धितौ भवत एवेत्युक्तम्।तत्र समासः `सुप्सुपा' इति बोध्यः। तद्धितस्तु `पूर्वादिनिः' `सपूर्वाच्च' इति कर्तरि इनिः, तद्विधौ `श्राद्धमनेन'इति सूत्रादनेनेत्यनुवृत्तेः। स्यादेतत्-भिदेण्र्यन्तात् `पर्यायार्हणोत्पत्तिषु'इति ण्वुचि `भेदिका देवदत्तस्य यज्ञदत्तस्य काष्ठाना'मित्युभाम्यामप्यनेन कृद्योगषष्ठी जायते, तत्र मुख्याऽमुख्यसन्निधौ मुख्ययस्यैव कार्ये सम्प्रत्ययात्प्रयोजककर्तृवाचकादेव स्यात्। अन्यथा `पाचयत्योदनं देवदत्तेन यज्ञदत्त' इत्यत्र प्रयोज्यप्रयोजकयोरुभयोरपि लकतारवाच्यत्वे उभाभ्यामपि कर्तृवाचकाङ्यां प्रथमा स्यात्। मैवं। प्रयोज्यप्रयोजकवाचकाभ्यां भेदेन षष्ठी जायते न त्वेकैवेति नेह मुख्याऽमुख्यान्यायप्रवृत्तिः। तत्र तु लकारस्यैकत्वात्कर्तुस्तद्वाच्यत्वकल्पनायामुक्तन्यायः प्रवर्तत इति वैषम्यात्। एवं चस `ओदनः पाच्यते देवदत्तेन यज्ञदत्तेने'त्यादावुभाभ्यमपि तृतीया स्यादेवेति बोध्यम्। अत्र व्याचक्षते–`तदर्हमि'ति निर्देशात्`कर्तृकर्मणोः कृति' इत्येतदनित्यम्। तथाच`धायैरामोदमुत्तमम्' इति भट्टिप्रयोगः सङ्गच्छति इति।

Satishji's सूत्र-सूचिः

TBD.