TBD.
तत्र एतस्मिन् धात्वधिकारे तृतीये यत् सप्तमीनिर्दिष्टं तदुपपदसंज्ञं भवति। वक्ष्यति कर्मण्यण् 3-2-1। कुम्भकारः। स्थग्रहणं सूत्रेषु सप्तमीनिर्देशप्रतिपत्त्यर्थम्। इतरथा हि सप्तमी श्रूयते यत्र तत्र एव स्यात्, स्तम्बेरमः, कर्णेजपः इति। यत्र वा सप्तमीश्रुतिरस्ति सप्तम्यां जनेर् डः 3-2-97 इति, उपसरजः, मन्दुरजः इति। स्थग्रहणात् तु सर्वत्र भवति। गुरुसंज्ञाकरणम् अन्वर्थसंज्ञाविज्ञाने सति समर्थपरिभाषाव्यापारार्थम्। पष्य कुम्भं, करोति कटम् इति प्रत्ययो न भवति। उपपदप्रदेशाः उपपदम् अतिङ् 2-2-19 इत्येवम् आदयः।
TBD.
956 सप्तम्यन्ते पदे कर्मणीत्यादौ वाच्यत्वेन स्थितं यत्कुम्भादि तद्वाचकं पदमुपपदसंज्ञं स्यात्..
771 अथोपपदसमासं वक्ष्यन्नुपपदसंज्ञामाह–तत्रोपपदं सप्तमीस्थम्। अधिकाऽयम्। `सप्तमी'ति तदन्तग्रहणम्। सप्तम्यन्ते पदे वाच्यवाचकभावसंबन्धेन तिष्ठतीति सप्तमीस्थम्। सप्तम्यन्तवाच्यमिति यावत्। धातोरित्यधिकारसूत्रादुत्तरसूत्रमिदम्। ततश्च तदधिकारान्तर्गतेषु `कर्मण्य'णित्यादिसूत्रेषु यत्सप्तम्यन्तमुच्चारितं तदेव इह विवक्षितम्। एवंच तदुदाहरणे कुम्भं करोति कुम्भकार इत्यत्र सप्तम्यन्तवाच्यं कुम्भादीति पर्यवसन्नम्। कुम्भादेश्च उपपदसंज्ञायां प्रयोजनाऽभावात्तद्वाचकपदेषु विश्राम्यति। तथाच धातोरित्यधिकारान्तर्गते कर्मणीत्यादिसूत्रे यत्सप्तम्यन्तं `कर्मणी'त्यादि, तद्वाच्यं यत्कुम्भादि, तद्वाचकं पदम् उपपदसंज्ञं स्यादित्यधिकृत वेदितव्यमित्यर्थः फलितः। तदाह–सप्तम्यन्ते पद इत्यादिना। तत्र `धातोः कर्मणः समानकर्तृकात्' इति, `धातोरेकाचो हलादेः' इति, `धातो'रिति च क्रमेण त्रयो धात्वधिकाराः। तत्र प्रत्यासत्त्या तृतीयधात्वधिकारस्थसप्तम्यन्तस्यैव ग्रहणात् `धातोरेकाचः' इत्याधिकारे `च्लि लुङी'त्यत्र सप्तम्यन्तं न गृह्रते। अन्यथा कर्मणीत्यादाविव लुङन्ते अभूदित्यादावुपपदो धातोः च्लिरित्यर्थः स्यात्। ननु तत्रेति व्यर्थं, तृतीयधात्वधिकारस्य प्रकृतत्वादेव ग्रहणसंभवादित्याशङ्क्या– त\उfffद्स्मश्च सत्येवेति। अयमाशयः–तत्रेति भिन्नं वाक्यं क्रमव्यत्यासेन योज्यम्। सप्तमीस्थमुपपदसंज्ञं स्यात्, `तत्र'=तस्मिन्सति इति चाधिकृतं वेदितव्यमिति। तथाचोपपदे सति वक्ष्यमाणः प्रत्ययः स्यादिति `तत्रे'त्यस्यार्थः फलति। तथाच `कर्मण्य णित्यत्र इदं सूत्रमुपस्थितम्। कर्मणीति सप्तम्यन्तं प्रथमान्तत्वेन विपरिणम्यते। सप्तमीनिर्देशस्तु उपपदसंज्ञाप्रवृत्त्यर्थः। `धातोरण्स्यात्कर्तर्यर्थे, कर्मवाचकं तु कुम्भादिपदमुपपदसंज्ञं प्रत्येतव्यम्, तस्मिन्नपपदे सत्यव अण्स्या'दिति फलति। `तस्मिन्सत्येवाऽण्स्या'दित्यभावे तु कारेत्येवं केवलादपि धातोः कर्तर्यर्थे अण्प्रत्ययः स्यात्। कर्मणीति सप्तम्यन्तनिर्देशस्तु कुम्भकार इत्यादौ उपपदसंज्ञां प्रापय्य`उपपदमति'ङिति नित्यसमाससंपादनेन कुम्बे त्यस्य कारेत्यस्य च साधुत्वप्रापणार्थतया चरितार्थः। `तस्मिन्नुपपदे सत्येवाण्स्या'दित्युक्ते तु कुम्भाद्युपपदस्य अम्प्रत्ययोत्पत्तौ निमित्तत्वावगमान्न केवलादण्प्रत्ययः, उपपदसंज्ञायाः प्रत्ययविधिसंनियोगशिष्टत्वलाभात्। `धः कर्मणि ष्ट्रन्' `भुवो भावे' इत्यादौ सप्तम्यन्तमर्थनिर्देशपरमेव, व्याख्यानादिति भाष्यकैयटादिषु स्पष्टम्।
680 तत्रोपपदम्। `सप्तमीस्थ'मित्येतव्द्याचष्टे–सप्तम्यन्त इत्यादिना। तद्वाचकं पदमिति। एतच्चोपपदमित्यन्वर्थसंज्ञाबलाल्लभ्यते। अतएव संज्ञाविधवपि सप्तमीग्रहणेन सप्तम्यन्तं गृह्रते। `धातोः'इति पृथगधिकारबलात् `संनिहिते धात्वधिकारे'इति लभ्यते। तेन `च्लि लुङी'त्यस्य लुङन्तेऽभूदित्यादावुपपदे धातोश्चिलरित्यर्थो न भवति `तत्र ग्रहणं व्याचष्टे—तस्मिन् सत्येवेति। उपपदे सत्येवेत्यर्थः। तत्रग्रहणाऽभावे तु `धः कर्मणि ष्ट्र'न्नित्यादाविव `कर्मण्य'णित्यादावपि कर्मण्यभिधेयेऽणित्याद्यर्थः स्यात्। किंच सप्तम्यन्तनिर्देशस्योपपदसंज्ञार्थतया चरितार्थत्वात्केवलादपि धातोः कर्तर्यण्प्रत्ययः संभाब्येत। कृते तु `तत्र'ग्रहणे कुम्बाद्युपपदस्य प्रत्ययोत्पत्तौ निमित्तत्व प्रतीत्या केवलादण्?प्रत्ययशङ्कैव नास्ति। एवं स्थितेः `धः कर्मणी'त्यादौ क्वचिदर्थग्रहणं व्याख्यानादित्याहुः। अन्ये तु `तत्रोपपद'मित्यस्य `कर्मण्य' णित्यादेश्चैकवाक्यतया प्रवृत्तावुपपदसंज्ञाया निपर्विषयत्वापत्तेस्तत्रग्रहणं विनाप\उfffद्ष्ट सिद्द्यत्येवेत्याहुः।
वृत्तिः सप्तम्यन्ते पदे कर्मणीत्यादौ वाच्यत्वेन स्थितं यत्कुम्भादि तद्वाचकं पदमुपपदसञ्ज्ञं स्यात्। (तस्मिन् सत्येव वक्ष्यमाणाः प्रत्ययाः स्युः।) The designation उपपदम् is applied to a term which denotes a thing – like a pot etc. – which is present (as the thing to be expressed) in a word ending in the locative case in the सूत्रम्। (The affixes which are prescribed from this सूत्रम् onwards only apply in the presence of the उपपदम् when applicable.) Note: This is a अधिकार-सूत्रम् which runs up to the end of Chapter Three of the अष्टाध्यायी। Note: The term उपपदम् is derived as follows: उप (= समीपे) उच्चारितं पदम् = उपपदम्।