Table of Contents

<<1-4-58 —- 1-4-60>>

1-4-59 उपसर्गाः क्रियायोगे

प्रथमावृत्तिः

TBD.

काशिका

प्राऽदयः क्रियायोगे उपसर्गसंज्ञा भवन्ति। प्रणयति। परिणयति। प्रणायकः। परिणायकः। क्रियायोगे इति किम्? प्रगतो नायको ऽस्माद् देशात्, प्रनायको देशः। मरुच्छाब्दस्य च उपसङ्ख्यानम् कर्तव्यम्। मरुद्भिर् दत्तो मरुतः। संज्ञाविधानसामर्थ्यादनजन्तत्वे ऽपि अच उपसर्गात् तः 7-4-47 इति तत्त्वं भवति। श्रच्छब्दस्य उपसङ्ख्यानम्। आतश्चौपसर्गे 3-3-106 इति अङ् भवति श्रद्धा। उपसर्ग. प्रदेशाः उपसर्गे घोः किः 3-3-93 इत्येवम् आदयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

35 प्रादयः क्रियायोगे उपसर्गसंज्ञाः स्युः. प्र परा अप सम् अनु अव निस् निर दुस् दुर वि आङ् नि अधि अपि अति सु उत् अभि प्रति पर उपि - एते प्रादयः..

सिद्धान्तकौमुदी

<< 1-4-581-4-60 >>
२२ उपसर्गाः क्रियायोगे ॥

बालमनोरमा

24

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

270) उपसर्गाः क्रियायोगे 1-4-59

वृत्तिः प्रादयः क्रियायोगे उपसर्गसञ्ज्ञा: स्‍युः । When used in conjunction with a verb, the terms “प्र” etc. get the उपसर्ग-सञ्ज्ञा।

गीतासु उदाहरणम् – श्लोकः bg8-21

यं प्राप्य न निवर्तन्ते। “Having reached which (they) don’t return.” Here the term “नि” which is listed in the प्रादिगण:, is used in conjunction with the verb “वर्तन्ते”। Hence it gets the उपसर्ग-सञ्ज्ञा। (It also retains the निपात-सञ्ज्ञा and the अव्यय-सञ्ज्ञा)।