Table of Contents

<<2-2-29 —- 2-2-31>>

2-2-30 उपसर्जनं पूर्वम्

प्रथमावृत्तिः

TBD.

काशिका

समासे इति वर्तते। उपसर्जनसंज्ञकं समासे पूर्वं प्रयोक्तव्यम्। पूर्ववचनं परप्रयोगनिवृत्त्यर्थम्। अनियमो हि स्यात्। द्वितीया कष्टश्रितः। तृतीया शङ्कुलाखण्डः। चतुर्थी यूपदारु। पञ्चमी वृकभयम्। षष्ठी राजपुरुषः। सप्तमी अक्षशौण्डः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

913 समासे उपसर्जनं प्राक्प्रयोज्यम्. इत्यधेः प्राक् प्रयोगः. सुपो लुक्. एकदेशविकृतस्यानन्यत्वात्प्रातिपदिकसंज्ञायां स्वाद्युत्पत्तिः. अव्ययीभावश्चेत्य व्ययत्वात्सुपो लुक्. अधिहरि..

बालमनोरमा

646 उपसर्जनं पूर्वम्। प्राक्कडारात् समास इत्यदिकृतम्। समास इति प्रथमान्तं योग्यतया सप्तम्यन्तं विपरिणम्यते। तदाह–समासे उपसर्जनं प्राक् प्रयोज्यमिति। पूर्वमित्यस्य पूर्वं प्रयोज्यमित्यर्थ इति भावः। एवंच प्रकृते अपेत्यस्य पूर्वं प्रयोगनियमः सिद्धः। अप दिशा इति स्थितम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

Video

वृत्तिः समासे उपसर्जनं प्राक्प्रयोज्यम् । In a compound a term which has the designation “उपसर्जन” should be placed in the prior position.

Example continued from 1-2-43

प्र + ज्ञ By 2-2-30 “प्र” is placed in the prior position.

“प्रज्ञ” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46