Table of Contents

<<1-2-45 —- 1-2-47>>

1-2-46 कृत्तद्धितसमासाश् च

प्रथमावृत्तिः

TBD.

काशिका

कृतस् तद्धिताः समासाश्च प्रातिपदिकसंज्ञा भवन्ति। अप्रत्ययः इति पूर्वत्र पर्युदासत् कृदन्तस्य तद्धितान्तस्य च अनेन प्रातिपदिकसंज्ञा विधीयते। अर्थवत्समुदयानां समासग्रहणं नियमार्थम्। कृत् कारकः। हारकः। कर्ता। हर्त। तद्धितः औपगवः। कापटवः। समासः राजपुरुषः। ब्राह्मणकम्बलः। समासग्रहणस्य नियमार्थत्वाद् वाक्यस्य अर्थवतः संज्ञा न भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

117 कृत्तद्धितान्तौ समासाश्च तथा स्युः..

बालमनोरमा

178 कृत्तद्धित। कृच्च तद्धितश्च समासश्चेति विग्रहः। पूर्वसूत्रात् `प्रातिपदिक'मित्यनुवर्तते, तच्च बहुवचनान्ततया विपरिणम्यते। प्रत्ययग्रहणपरिभाषया कृत्तद्धितेति तदन्तग्रहणम्। तदाह–कृत्तद्धितान्ताविति। कृत्तद्धितान्तयोः प्रत्ययान्तत्वात्पूर्वसूत्रेणा।ञप्राप्तौ कृत्तद्धितग्रहणम्। केवलयोः कृत्तद्धितयोः संज्ञायां प्रयोजनाऽभावात्संज्ञाविधाविति निषेधोऽत्र न भवति। अस्मादेव पूर्वसूत्रे संज्ञाविधावपि प्रत्ययग्रहणपरिभाषया तदन्तलाभात्प्रत्ययान्तपर्युदासः। केचित्तु अर्थवदित्यनुवर्त्त्य तत्सामथ्र्यात्तदन्तविधिमाहुः। कृदन्ते यथा–`कर्ता' `भर्ता' इत्यादि। तद्धिते यथा–`औपगव' इत्यादि। समासे यथा–`राजपुरुष' इत्यादि। ननु समासग्रहणं व्यर्थं, समासे `राजपुरुष' इत्यादि। ननु समासग्रहं व्यर्थं, समासे `राजपुरुष' इत्यादिशब्दानां पूर्वसूत्रेणैव प्रातिपदिकत्वस्य सिद्धत्वात्। न च उत्तरपदोत्तरलुप्तप्रत्ययं प्रत्ययलक्षणेनाश्रित्य प्रत्ययान्तपर्युदासः शङ्क्यः, उत्तरपदमात्रस्य प्रत्ययान्तत्वेऽपि समुदायस्याऽप्रत्ययान्तत्वात्, प्रत्ययग्रहणे यस्मात्स विहितस्तदादेरेव ग्रहणात्, प्रत्ययलक्षणमाश्रित्य प्रत्ययान्तपर्युदासो न प्रवर्तत इति `न ङिसम्बुद्धयोः' इति निषेधेन ज्ञाप्यत इति पूर्वसूत्रे प्रपञ्चितत्वाच्चेत्यत आह–पूर्वसूत्रेणेत्यादिना। नियमशरीरं दर्शयति-यत्रेति। `पूर्वो भागः पद'मित्युपलक्षणम्। `उत्तरभागस्तु प्रत्ययो ने'त्यपि द्रष्टव्यम्। अन्यथा जन्मवानित्यादौ प्रातिपदिकत्वं न स्यात्, स्वादिष्वसर्वनामस्थान इति पूर्वभागस्य पदत्वात्। नचात्र कृत्तद्धितेति तद्धितग्रहणसामथ्र्यादेव प्रातिपदिकत्वं संभवतीति वाच्यम्, दाक्षिरित्यादौ तद्धितग्रहणस्य चरितार्थत्वात्। तत्र हि प्रकृतिभागो न पदम्, भत्वेन तद्बाधात्। `पूर्वो भागः पद'मित्यनुक्तौ `बहुपटव' इत्यत्र प्रातिपदिकसंज्ञा न स्यात्। ईषदसमाप्तावित्यनुवृत्तौ `विभाषा सुपो बहुच्पुरस्तात्तु' इति सूत्रेण `पटव' इति प्रथमाबहुवचनान्तात्पूर्वतो बहुच्प्रत्यये कृतेऽर्थवदिति प्रातिपदिकत्वात्तदवयवजसो लुकि `चितः सप्रकृतेर्बह्वजर्थ'मिति टकारादुकारस्य उदात्तत्वे चित्स्वरे कृते पुनर्जसि `बहुपटव' इति रूपम्। अत्र टकारादकार उदात्त इति स्थितिः। जसन्तात्पूर्वतो बहुच्प्रत्यये बहुपटव इति समुदायस्य प्रातिपदिकत्वा।ञभावे तु ततो जसन्तरं नोत्पद्येत। नचेष्टापत्तिः, तथ#आ सति बहुच्प्रकृतिभूतजसन्ते जसःप्रातिदिकावयवत्वा।ञभावेन`सुपो धातुप्रातिपदिकयो'रिति लुगभावाद्बहुपटव इति जसन्तस्यैव बहुच्प्रक-तितया चितस्सप्रकृतेर्विधीयमानश्चित्स्वरः जस एवाकारस्य स्यात्। इष्यते तु टकारादुत्तरस्य। `बहुपटव' इति समुदायस्य प्रातिपदिकावयवत्वाज्जसो लुकि पटुशब्दस्यैव बहुच्प्रकृतितया टकारादुत्तरस्य चित्स्वरे सति पुनर्जसि बहुपटव इति रूपमुक्तं निर्बाधमिति भावः। नियमस्य फलमाह– तेनेति। उक्तनियमेनेत्यर्थः। अन्यथा `देवदत्त गामभ्याज शुक्लां दण्डेने'त्यादिवाक्यस्यापि प्रातिपदिकत्वापत्तौ सुब्लुक् स्यात्। न च वाक्यस्य प्रत्ययान्तत्वादेव न प्रातिपदिकत्वमिति वाच्यम्, प्रत्ययग्रहणे यस्मात्स विहितस्तदादेरेव ग्रहणादिति भावः। कृत्तद्धितसमासाश्चेति चकारोऽनुकसमनुच्चयार्थः। तेन `निपातस्यानर्थकस्य प्रातिपदिकसंज्ञा वक्तव्ये'ति वार्तिकं गतार्थम्।

तत्त्वबोधिनी

148 तत्सामथ्र्यात्तदन्तविधिः। ननु यद्यर्थवत्ता पारमार्थिकीं विवक्ष्यते, सा पदस्य वाक्यस्य वाऽस्ति, न तु कृत्तद्धितान्तस्य, यदि तु प्रक्रियादशायां या कल्पिता सा विवक्ष्यते, तर्हि कृत्तद्धितयोरपि साऽस्तीति कथमर्थवद्ग्रहणानुवृत्त्या तदन्तग्रहणमिति चेदत्राहुः,-अतएवार्थवद्ग्रहणसामथ्र्यमुक्तम्। प्रत्ययान्तेन ह्रोकार्थीभूतेन प्रतीयमानोऽर्थ इह गृह्रते। तस्य लोकिकार्थं प्रति प्रत्यासन्नतरत्वान्मतुपः प्राशस्त्यपरतया तस्यैव ग्रहणात्। अतएव च तदुपादानं सार्थकं, पूर्वसूत्रे `अधातु'रिति `कर्ता ' `औपगव' इत्यादौ `अप्रत्ययान्त' इति च पर्युदासे प्राप्ते `कृत्तद्धिते'त्यारम्भः। नियमार्थमिति। न च प्रत्ययान्तत्वेन पर्युदासे प्राप्ते विध्यर्थमस्त्विति शङ्क्यम् ; वाक्यस्याऽप्रत्ययान्तत्वात्। प्रत्ययग्रहणे यस्मात्स विहितस्तदादेरेव ग्रहणात्। न चैवमप्यनुपसर्जनस्त्रीप्रत्यये तदादिनियमाऽभावाद्राजकुमारीत्यादौ ङीबन्ते विध्यर्थमस्त्विति वाच्यम्, `अन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधते' इति लुग्विषये हल्ङ्यादिलोपाऽप्रवृत्त्या श्रूयमाण एव सुपि समासप्रवृत्तेः। तत्र च कुमारीशब्दस्य सुबन्तत्वेऽपि राजशब्दसहित [कुमारी]शब्दस्याऽतथात्वादप्रत्ययान्तत्वेन प्रवृत्तायाः संज्ञाया एकदेशविकृतन्यायेन विभक्तिलुक्यपि सुलभत्वात्। अतएव `गोमत्प्रिय'इत्यादौ नुमादयो न, लुकः प्रागन्तरङ्गस्य हस्ङ्यादिलोपस्य प्रवृत्तौ तु स्युरेवेति दिक्। नियमशरीरमाह-यत्र सङ्घात इति। नियमश्चात्र सजातीयापेक्ष इत्याह-पूर्वो भागः पदमिति। षड्विधेऽपि समासे पूर्वभागस्य पदत्वाऽव्यभिचाराद्भवत्ययं सजातीयः। `पूर्वो भाग' इत्युपलक्षणम्, `उत्तरस्तु प्रत्ययो ने'त्यपि बोध्यम्। अन्यथा `जन्मवा'नित्यादौ संज्ञा न स्यात्, `स्वादिष्वि'त्यनेन पूर्वभागस्य पदत्वात्। न च तद्धितग्रहणसामथ्र्यात्तत्र स्यादेवेति वाच्यं, तद्धितग्रहणस्य `भानव' इत्यादौ कृतार्थत्वात्। तत्र हि पूर्वभागस्य भत्वं, न तु पदत्वम्। न चैवमयमियानित्यादिसमुदायस्य प्रातिपदिकत्वं स्यादेव, पूर्वभागस्य पदत्वेऽप्युत्तरस्य प्रत्ययत्वादनेन नियमेन वारयितुमशक्यत्वादिति वाच्यम् ; `उत्तरस्तु प्रत्ययो ने'त्यत्र `तद्विहितप्रत्ययो ने'ति व्याख्यानात्। पूर्वो भागः पदमिति किम् ?, बहुज्विशिष्टस्य प्रातिपदिकसंज्ञा यथा स्यात्। तेन `बहुपटव' इत्यत्र उपोत्तमोदात्तत्वं सिध्यति। प्रथमजसो लुकि `चितः सप्रकृतेर्बह्वकजर्थ'मिति चित्स्वरे कृते पुनर्जस उत्पत्तेः। प्रातिपदिकसंज्ञायामसत्यां तु जसेवोदात्तः स्यात्। यद्वा `प्रकृतिप्रत्ययभावानापन्नसङ्घातस्य चेद्भवति तर्हि समासस्यैवे'ति नियमार्थं `समास'ग्रहणम्। तेन गवित्ययमाहे'त्यादौ नातिप्रसङ्ग इति दिक्। नियमफलमाह-तेन वाक्यस्य नेति। `गांमभ्याज शुक्ला'मित्यादिवाक्यस्य न भवतीत्यर्थः। सत्यां हि संज्ञायां सुब्लुक्स्यात्। नन्वेवमपि `मूलकेनोपदंशं भुङ्क्ते' इत्यादिवाक्यस्य संज्ञा दुर्वारा, `कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणा'दिति चेन्मैवम्। समासग्रहणरृतनियमेन परत्वाद्बाधात्। एवंच `कृत्तद्धिते'ति सूत्रे कृद्ग्रहणपरिभाषा निष्फलत्वान्नोपतिष्ठते। तस्याश्च परिभाषायाः `व्यावक्रोशी' `व्यावहासी'त्यत्रावकाशः। तत्र हि `कर्मव्यतिहारे णच्स्त्रिया'मिति धातोर्णचि कृते गतिपूर्वस्य णजन्तत्वात् `णचः स्त्रिया'मित्यञिसत्युपसर्गाकारस्यादिवृद्धिस्वरौ भवतः। कृद्ग्रहणे कारकपूर्वस्याप्युदाहरणम्-अवतप्ते नकुलस्थितमित्यादि स्फुटीभविष्यति। चकारोऽनुक्तसमुच्चयार्थः। तेन `निपातस्यानर्थकस्य प्रातिपदिकसंज्ञा वक्तव्ये'ति वार्तिकं गतार्थम्। येषां द्योत्योऽप्यर्थो नास्ति तदर्थमिदम्,-अवद्यति। अनुकरणेषु तु अनुकार्येण सहाऽभेदविवक्षायामर्थवत्त्वाऽभावादेव न प्रातिपदिकत्वम्। `भू सत्ताया'मिति यथा। भेदविवक्षायां तु संज्ञा स्यादेव-`भुवो वु'गिति यथा।

Satishji's सूत्र-सूचिः

41) कृत्तद्धितसमासाश्च 1-2-46

वृत्ति: कृत्तद्धितान्तौ समासाश्च प्रतिपदिकसंज्ञा: स्यु: । A word form that ends in a कृत् affix or a तद्धित affix and so also compounds get the name प्रातिपदिकम्. Note: कृत् affixes occur in the अष्टाध्यायी from 3-1-93 to the end of the third chapter. तद्धित affixes start from 4-1-76 and go to the end of the fifth chapter.

गीतासु उदाहरणम् – श्लोकः bg1-1

धर्मक्षेत्र is a प्रातिपदिकम् since it is a compound formation

मामक is a प्रातिपदिकम् since it is a term ending in a तद्धित affix