TBD.
सुपो विभक्तेर्धातुसंज्ञायाः प्रातिपदिकसंज्ञायाश्च लुग् भवति. तदन्तर्गतास्तद्ग्रहणेन गृह्यन्ते. धातोस्तावत् पुत्रीयति. घटीयति. प्रातिपदिकस्य कष्टश्रितः. राजपुरुषः. धातुप्रातिपदिकयोः इति किम्? वृक्षः. प्लक्षः.
TBD.
724 एतयोरवयवस्य सुपो लुक्..
<< 2-4-71 – 2-1-5 >>
६५० एतयोरवयवस्य सुपो लुक्स्यात् । ’भूतपूर्वे चरट्’ (सू १९९९) इति निर्देशाद्भूतशब्दस्य पूर्वनिपातः । पूर्वं भूतो भूतपूर्वः । ’इवेन समासो विभक्त्यलोपश्च’ (वा० १२३६, १३४१) । जीमूतस्येव । ॥
642 सुपो धातु। `धातुप्रातिपदिकयो'रित्यवयवषष्ठीत्याह–एतयोरवयवस्येति। लुक्स्यादिति। `ण्यक्षत्रियार्षञितो यूनि लुक्' इत्यतस्तदनुवृत्तेरिति भावः। न च `सुप' इत्यनेन सप्तमीबहुवचनस्यैव ग्रहणं किं न स्यादिति वाच्यम्, `पञ्चम्याः स्तोकादिभ्यः' इत्यलुग्विधानात्सुप्प्रत्याहारस्यैवात्र ग्रहणमिति ज्ञापनात्। नचैव मपि पूर्वं भूत इति लोकिकविग्रहवाक्ये परिनिष्ठितसन्धिकार्ययोः सुबन्तयोः समासे सति पूर्वमित्यत्र अमि पूर्वरूपस्य एकादेशस्य परादित्वमाश्रित्य अमो लुकि समासदशायां वकारादकारो न श्रूयेत। पूर्वान्तत्वे तु परिशिष्टस्य मकारस्य सुप्त्वाऽभावात् कथं लुगिति वाच्यं, `सुपो धातु' इति लुग्विषये `अन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधते' #इत्याश्रित्य सन्धिकार्यप्रवृत्तेः प्रागेवाऽलौकिकविग्रहवाक्ये समासप्रवृत्तिरिति `प्रत्ययोत्तरपदयोश्च' इति सूत्रभाष्ये स्थितम्। `कृत्तद्धितसमासाश्च' इत्यत्र प्रौढमनोरमायामपि परिष्कृतमिदम्। `भस्त्रैषा' इति सूत्रव्याख्यावलरे प्रपञ्चितं चास्माभिः। एवंच पूर्व अम् भूत सित्यलौकिकविग्रहदशायामेव अमो लुक्प्रवृत्तेर्नोक्तदोषः। तथाच सुपो लुकि भूतपूर्वेति स्थितम्। ननु `सुबन्तं सुबन्तेन समस्यते' इति समासशास्त्रे सुबन्तं प्रथमानिर्दिष्टम्। सुबन्तत्वं च द्वयोरप्यविशिष्टम्। ततश्च `प्रथमानिर्दिष्टं समास उपसर्जनम्' इति वक्ष्यमाणोपसर्जनत्वस्य द्वयोरप्यविशिष्टत्वात् `उपसर्जनं पूर्व'मित्यन्यतरस्य पूर्वनिपाते विनिगमनाविरह इत्यत आह–भूतपूर्वे चरडिति। पूर्वं भूत इति। लौकिकविग्रहोऽयम्। पूर्वमिति क्रियाविशेषणम्। भूतपूर्व इति समासत्वेन प्रातिपदिकत्वात्समुदायात्पुनर्यथायथं सुबुत्पत्तिरिति भावः।\र्\निवेनेति। इवेत्यव्ययेन सुबन्तस्य समासः। `सुपो धातु' इति लुगभावः। पूर्वपदस्य प्रकृतिसिद्धस्वरश्च भवति, न तु समासस्वर इति वक्तव्यमित्यर्थः। `सह सुपा' इति सिद्धे समासविधानमिवशब्दस्य पूर्वनिपातनिवृत्त्यर्थम्। अन्यथा अत्र इवशब्दस्यापि सुबन्तत्वाऽविशेषात्समासशास्त्रे प्रतमानिर्दिष्टत्वेनोपसर्जनत्वात्पूर्वनिपातः स्यात्। जीमूतस्येवेति। अत्र जीमूतशब्दस्य पूर्वपदस्य फिट्स्वरेणान्तोदात्तत्वमेव , न तु समासस्येत्यन्तोदात्तत्वम्। अत्र यथार्थत्वप्रयुक्तोऽव्ययीभावस्तु न, `तत्र तस्येवे'ति निर्देशात्। क्वाचित्कश्चायं समासः। अत एव बह्वचा एव पदपाठे अवगृह्णन्ति। याजुषास्तु भिन्ने एव पदे पठन्ति। `उद्बाहुरिव वामनः' इत्यादिव्यस्तप्रयोगाश्च सङ्गच्छन्ते। `हरीतकीं भुङ्क्ष्व राजन्मातेव हितकारिणी'मित्यत्र तु मातरमिवेति भवितव्यम्। `तिङ्समानाधिकरणे प्रथमा' `अभिहिते प्रथमा' इति वार्तिकस्वारस्येन प्रथमायाः कारकविभक्तित्वोक्तिपरभाष्येण च क्रियायोग एव प्रथमायाः प्रवृत्त्या मातेति प्रथमाया मातृसदृशीमित्यर्थे असाधुत्वादित्यस्तां तावत्।
570 सुपो धातु। सुप इति प्रत्याहारस्य ग्रहणं, `पञ्चम्याः स्तोकादिभ्यः' इत्याद्यलुक्समासविधानाज्ज्ञापकात्। निर्देशादिति। अन्यथा हि प्रथमानिदिष्टत्वाऽविशेषेऽपि उपसर्जनसंज्ञाया अन्वर्थत्वेन पूर्वशब्दस्यैव पूर्वनिपातः स्यादिति भावः।\र्\निवेन समासो विभक्त्यलोपश्च। इवेनेति। अयमपि समासः पूर्ववत्क्वाचित्क एव। तेन जीमूतस्येवेत्यादौ तैत्तिरीयाणां पृथक्पदत्वन पाठः। `उद्बाहुरिव वामनः' इत्यादौ व्यस्तप्रयोगश्च सङ्गच्छत इति मनोरमायां स्थितम्। विभक्त्यलोपश्चेति। समासावयस्य सुपोऽलोपविधानेऽपि समासादुत्पन्नस्य सोरव्ययादिति लुग्भवत्येव, अनुपसर्जने तदन्तस्याप्यव्ययत्वादिति बोध्यम्।
वृत्तिः एतयोरवयवस्य सुपो लुक्। A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।
Example continued from 3-1-8
पुत्र + अम् + य । “पुत्र + अम् + य” gets धातु-सञ्ज्ञा by 3-1-32
= पुत्र + य 2-4-71, 1-1-61
Example continued under 7-4-33