Table of Contents

<<1-2-42 —- 1-2-44>>

1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम्

प्रथमावृत्तिः

TBD.

काशिका

प्रथमया विभाक्त्या यन् निर्दिश्यते समासशास्त्रे तदुपसर्जनसंज्ञं भवति। समासे इति समासविधायि शास्त्रं गृह्यते। वक्ष्यति द्वितीया श्रितातीतपतितगतात्यस्तप्राप्ताऽपन्नैः 2-1-24 इति। द्विदीयासमासे द्वितीया इत्येतत् प्रथमानिर्दिष्टं, तृतीयासमासे तृतीया इति, चतुर्थीसमासे चतुर्थी इति, पञ्चमीसमासे पञ्चमी इति, षष्ठीसमासे षष्ठी इति, सप्तमीसमासे सप्तमी इति। कष्टश्रितः। शङ्कुलाखण्डः। यूपदारु। वृकभयम्। राजपुरुषः। अक्षशौण्डः। उपसर्जनप्रदेशाः उपसर्जनं पूर्वम् 2-2-30 इत्येवम् आदयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

912 समासशास्त्रे प्रथमानिर्दिष्टमुपसर्जनसंज्ञं स्यात्..

सिद्धान्तकौमुदी

<< 2-1-62-2-30 >>
६५३ समासशास्त्रे प्रथमानिर्दिष्टमुपसर्जनसंज्ञं स्यात् ॥

बालमनोरमा

645 अत्र उपसर्जनकार्यं वक्ष्यन्नुपसर्जनसंज्ञामाह-प्रथमानिर्दिष्टम्। ननु समासे प्रतमानिर्दिष्टमुपसर्जनमिति व्याख्याने असंभवः, समाससे सति `सुपो धातु' इति प्रथमाया लुप्तत्वात्। समासे चिकीर्षिते प्रथमानिर्धिष्टमिति व्याख्याने तु कृष्णं श्रितः कृष्णश्रित इत्यत्र विग्रहे कृष्णशब्दस्य द्वितीयानिर्दिष्टत्वादुपसर्जनत्वं न स्यात्। श्रितशब्दस्य प्रथमानिर्दिष्टत्वादुपसर्जनत्वं स्यात्। अतो व्याचष्टे-समासशास्त्रै इति। समास पदं समासविधायकशास्त्रपरमिति भावः। एवंच `द्वितीया श्रिते'ति समासविधायकशास्त्रे द्वितीयान्तस्यैव कृष्णशब्दस्य द्वितीयेति प्रथमानिर्दिष्टत्वादुपसर्जनत्वम्। एवंच `अव्यय'मिति समासविधावपेत्यस्य प्रथमानिर्दिष्टत्वादुपसर्जनत्वं स्थितम्।

तत्त्वबोधिनी

572 प्रथमानिर्दिष्टम्। अत्र समासपदं तद्विधायके लाक्षणिकम्। अन्यथा `चिकीर्षिते समासे यत्प्रथमान्त'मिति व्याख्यानप्रसक्त्या कृष्णश्रित इत्यादौ श्रितादिष्वतिप्रसङ्ग इत्याशयेनाह समासशास्त्र इथि। विग्रह इति। अनुवर्तमानेन समासग्रहणेन विग्रहे लक्ष्यत इति भावः। नतु तस्येति। `अनन्तरस्य–'इति न्यायात्पूर्वसूत्रेण विहितस्य पूर्वनिपातत्वं न निषिध्यते। तेन कुमारीश्रित इत्यादौ न दोषः।

Satishji's सूत्र-सूचिः

Video

वृत्तिः समासशास्त्रे प्रथमानिर्दिष्टमुपसर्जनसञ्ज्ञं स्यात्। A term denoted by a word ending in a nominative case in a सूत्रम् which prescribes a compound gets the designation “उपसर्जन”।

Example continued from 2-2-19

“प्र” gets the उपसर्जन-सञ्ज्ञा by 1-2-43

Example continued under 2-2-30