Table of Contents

<<3-1-30 —- 3-1-32>>

3-1-31 आयादय आर्धधातुके वा

प्रथमावृत्तिः

TBD.

काशिका

आर्धधातुकविषये आर्धधातुकविवक्षायाम् आयादयः प्रत्यया वा भवन्ति। गोप्ता, गोपायिता। अर्तिता, ऋतीयिता। कमिता, कामयिता। नित्यं प्रत्ययप्रसङ्गे तदुत्पत्तिरार्धधातुकविषये विकल्प्यते, तत्र यथायथं प्रत्यया भवन्ति। गुप्तिः। गोपाया।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

471 आर्धधातुकविवक्षायामायादयो वा स्युः. (कास्यनेकाच आम् वक्तव्यः). लिटि आस्कासोराम्विधानान्मस्य नेत्त्वम्..

बालमनोरमा

148 आयादयः। आय आदिर्येषां ते आयादयः। `आय ईयङ्णिङ् चेति त्रय आयादयो मताः'। गुपूधूपविच्छिपणिपनिभ्य आयः, ऋतेरीयङ्, कमेर्णिङित्युत्तरमस्य सूत्रस्य पाठात्। विवक्षायामिति। `आद्र्धधातुके' इति विषयसप्तमीति भावः। परसप्तमीत्वे तु गोपायितेत्यत्र अतो लोपो न स्यात्, आद्र्धधातुकोपदेशकालेऽदन्तत्वाऽभावादिति भावः।

तत्त्वबोधिनी

121 आयादयः। आयेयङ्?णिङ इत्यर्थः। विवक्षायामिति। परसप्तम्यां तु आद्र्धधातुकोपदेशकाले यददन्तमित्यनुपदं वक्ष्यमाणं न सङ्गच्छेतेति भावः। अन्ये तु `गुपू रक्षणे' इत्यस्मात् क्तिनि पश्चादाय्?प्रत्यये गोपायतिरित्यनिष्टप्रसज्येत। विवक्षायामित्युक्ते तु आय्?प्रत्यये कृते क्तिनं बाधित्वा `अप्रत्यया' दित्यकारप्रत्यये टापि च `गोपाया' `धूपाये'ति सिद्ध्यतीत्याहुः।

Satishji's सूत्र-सूचिः

वृत्ति: आर्धधातुकविवक्षायामायादयो वा स्युः । When the intention is to add a आर्धधातुक-प्रत्यय:, the affixes “आय” etc. (prescribed by the prior three rules – 3-1-28 गुपूधूपविच्छिपणिपनिभ्य आयः, 3-1-29 ऋतेरीयङ् and 3-1-30 कमेर्णिङ्) are added to the धातु: only optionally.

उदाहरणम् – गोपायिष्यति/गोपिष्यति/गोप्स्यति derived from √गुप् (गुपूँ रक्षणे १. ४६१). विवक्षा is लृँट्, कर्तरि-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

3-1-31 applies here because the intention is to add the affix “स्य” which has the आर्धधातुक-सञ्ज्ञा by 3-4-114.

Let us first consider the case where the affix “आय” is added.

गुप् + आय 3-1-28, 3-1-31
= गोपाय 3-4-114, 7-3-86
“गोपाय” gets the धातु-सञ्ज्ञा by 3-1-32.

गोपाय + लृँट् 3-3-13
= गोपाय + ल् 1-3-2, 1-3-3, 1-3-9
= गोपाय + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= गोपाय + ति 1-3-3, 1-3-9
= गोपाय + स्य + ति 3-1-33
= गोपाय + इट् स्य + ति 7-2-35, 1-1-46
= गोपाय + इस्य + ति 1-3-3, 1-3-9
= गोपाय् + इस्य + ति 6-4-48
= गोपायिष्यति 8-3-59

Similarly in the विवक्षा of लुँट्, कर्तरि-प्रयोगः, प्रथम-पुरुषः, एकवचनम्, we can derive the form गोपायिता।

Now let us consider the case where the affix “आय” is optionally not added.

गुप् + लृँट् 3-3-13
= गुप् + ल् 1-3-2, 1-3-3, 1-3-9
= गुप् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= गुप् + ति 1-3-3, 1-3-9
= गुप् + स्य + ति 3-1-33

Example continued under 7-2-44.