Table of Contents

<<3-1-32 —- 3-1-34>>

3-1-33 स्यतासी लृलुटोः

प्रथमावृत्तिः

TBD.

काशिका

ल्\उ0325रूपम् उत्सृष्टानुबन्धं सामान्यम् एकम् एव। तस्मिन् लुटि च परतो धातोर् यथासङ्ख्यं स्यतासी प्रत्ययौ भवतः। करिष्यति। अकरिष्यत्। श्वः कर्ता। इदित्करणम् अनुनासिकलोपप्रतिषेधार्थम्। मन्ता। सङ्गन्ता।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

405 धातोः स्य तासि एतौ प्रत्ययौ स्तो ऌलुटोः परतः. शबाद्यपवादः. ऌ इति ऌङॢटोर्ग्रहणम्.

बालमनोरमा

35 भू-ति इति स्थिते `कर्तरि शबि'ति शपि प्राप्ते– स्यतासी लृ। स्यश्च तासिश्चेति द्वन्द्वात्प्रथमाद्विवचनम्। तासेरिकार उच्चारणार्थः। लृ लुट् अनयोद्र्वन्द्वात्सप्तमीद्विवचनम्। ग्रहणमिति। लृस्वरूपस्योभयत्राऽविशिष्टत्वादिति भावः। धातोरित्यधिकृतम्। तदाह–धातोरिति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

वृत्ति: धातोः “स्य” “तासि” एतौ प्रत्ययौ स्तो लृलुटोः परतः । The affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively. Note: This rule is a अपवाद: for 3-1-68 etc.

Example continued from 3-3-15

भू + ति
= भू + तासिँ + ति 3-1-33
= भू + तास् + ति 1-3-2, 1-3-9
= भू + इट् तास् + ति 7-2-35, 1-1-46
= भू + इतास् + ति 1-3-3, 1-3-9
= भो + इतास् + ति 7-3-84
= भवितास् + ति 6-1-78

Example continued under 2-4-85.