Table of Contents

<<3-1-29 —- 3-1-31>>

3-1-30 कमेर् णिङ्

प्रथमावृत्तिः

TBD.

काशिका

कमेर् धातोः णिङ् प्रत्ययो भवति। णकारो वृद्ध्यर्थः। ङकार आत्मनेपदार्थः। कामयते, कामयेते, कामयन्ते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

527 स्वार्थे. ङित्त्वात्तङ्. कामयते..

बालमनोरमा

151 कमेर्णिङ्। शेषपूरणेन सूत्रं व्याचष्टे—स्वार्थे इति। अर्थविशेषाऽनिर्देशादिति भावः। णङावितौ। `णेरनिटी'त्यत्रोभयोग्र्रहणायाऽनुबन्धकरमम्। ङित्त्वात्तङिति। अनुदात्तेत्वं तु णिङभावे `चकमे' इत्यादौ चरितार्थमिति भावः। कामयत इति। णिङि `अत उपधाया' इति वृद्धौ `कामी'ति णिङन्तम्। `क्ङिति चे'ति निषेधस्तु न,अनिग्लक्षणत्वात्। णिङन्तस्य धातुत्वाल्लडादयः। तत्र लटि शपि गुणेऽयादेशे कामयते इति रूपम्। कामयेति इत्यादि सुगमम्। लिटि `कास्यनेकाच' इत्यामि, `आम' इति लिटो लोपे `\त्कामि-आम्' इति स्थिते, सार्वधातुके'ति गुणं बाधित्वा `णेरनिटी'ति वक्ष्यमाणे णिलोपे प्राप्ते।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

360) कमेर्णिङ् 3-1-30

वृत्तिः स्‍वार्थे । The affix णिङ् comes after the धातुः √कम् (कमुँ कान्तौ १. ५११)।

उदाहरणम् – कामयते (√कम्, भ्वादि-गणः, कमुँ कान्तौ, धातु-पाठः #१. ५११) लँट्, कर्तरि-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

कमुँ + णिङ् 3-1-30 = कम् + इ 1-3-2, 1-3-3, 1-3-7

Example continued below.