Table of Contents

<<3-1-9 —- 3-1-11>>

3-1-10 उपमानादाचारे

प्रथमावृत्तिः

TBD.

काशिका

क्यचनुवर्तते, न काम्यच्। उपमनात् कर्मणः सुबन्तादाचारे ऽर्थे वा क्यच् प्रत्ययो भवति। आचारक्रियायाः प्रत्ययार्थत्वात् तदपेक्षयैव उपमानस्य कर्मता। पुत्रमिव आचरति पुत्रीयति छात्रम्। प्रावारीयति कम्बलम्। अधिकरणाच् चेति वक्तव्यम्। प्रासादीयति कुट्याम्। पर्यङ्कीयति मञ्चके।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

729 उपमानात्कर्मणः सुबन्तादाचारेर्ऽथे क्यच्. पुत्रमिवाचरति पुत्रीयति छात्रम्. विष्णूयति द्विजम्.. (सर्वप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः). अतो गुणे. कृष्ण इवाचरति कृष्णति. स्व इवाचरति स्वति. सस्वौ..

बालमनोरमा

489 उपमानादाचारे। `सुप आत्मनः क्य'जित्यतः सुप इत्यनुवर्तते। `धातोः कर्मणः समानक्रतृका'दित्यतः कर्मण इति। तदाह - उपमानात्कर्मण इत्यादिना। उपमां यत्कर्मकारकं तद्वृत्तेः सुबन्तादित्यर्थः। पुत्रमिवेति। `धातोः कर्मणः' इत्यतो वेत्यनुवृत्तिरनेन सूचिता। छात्रं पुत्रत्वेन उपचरतीत्यर्थः। विष्णूयतीति। द्विजं विष्णुत्वेन उपचरतीत्यर्थः। अधिकरणाच्चेति। उपमानभूताधिकरणवृत्तेरपि सुबन्तादाचारे क्यजिति वक्तव्यमित्यर्थः। प्रासादीयति कुट\उfffदामिति। प्रासादे इव कुठ\उfffदां ह्मष्टो वर्तते इत्यर्थः। कुटीयति प्रासादे इति। कुट\उfffदामिव प्रासादे क्लिष्टो वर्तते इत्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

वृत्तिः उपमानात्‍कर्मणः सुबन्‍तादाचारेऽर्थे क्‍यच् । The affix क्‍यच् is employed, in the sense of conduct/treatment, after a पदम् which ends in a सुँप् affix and denotes an object that is the standard of comparison.
Note: In the optional case when the affix क्‍यच् is not used, a sentence (वाक्यम्) may be used to convey the same meaning.

उदाहरणम् – पुत्रमिवाचरति – पुत्रीयति शिष्यम् । Note: The नाम-धातुः “पुत्रीय” derived using the सूत्रम् 3-1-10 is of the same form as the नाम-धातुः “पुत्रीय” derived using the सूत्रम् 3-1-8, but the meaning is completely different. The affix क्यच् prescribed by 3-1-10 is called आचार-क्यच् (क्‍यच् in the sense of conduct/treatment) while that prescribed by 3-1-8 is called इच्छा-क्यच् (क्‍यच् in the sense of wishing.)

The नाम-धातुः “पुत्रीय” is derived as follows:
पुत्र + अम् 4-1-2
= पुत्र + अम् + क्यच् 3-1-10
= पुत्र + अम् + य 1-3-8, 1-3-3, 1-3-9. “पुत्र + अम् + य” gets धातु-सञ्ज्ञा by 3-1-32
= पुत्र + य 2-4-71, 1-1-61
= पुत्री + य 7-4-33, 1-1-52

The विवक्षा is लँट्, कर्तरि, प्रथम-पुरुषः, एकवचनम्।
पुत्रीय + लँट् 3-2-123 = पुत्रीयति 1-3-78

उदाहरणम् – मातरमिवाचरति – मात्रीयति परकलत्रम् ।

The नाम-धातुः “मात्रीय” is derived as follows:
मातृ + अम् 4-1-2
= मातृ + अम् + क्यच् 3-1-10
= मातृ + अम् + य 1-3-8, 1-3-3, 1-3-9. “मातृ + अम् + य” gets धातु-सञ्ज्ञा by 3-1-32
= मातृ + य 2-4-71, 1-1-61
= मात् रीङ् + य 7-4-27, 1-1-53
= मात्रीय 1-3-3, 1-3-9

The विवक्षा is लँट्, कर्तरि, प्रथम-पुरुषः, एकवचनम्।
मात्रीय + लँट् 3-2-123 = मात्रीयति 1-3-78

वार्तिकम् अधिकरणाच्चेति वक्तव्यम्।

The affix क्‍यच् is also employed, in the sense of conduct, after a पदम् which ends in a सुँप् affix and denotes a location that is the standard of comparison.
Note: In the optional case when the affix क्‍यच् is not used, a sentence (वाक्यम्) may be used to convey the same meaning.

उदाहरणम् – प्रासादीयति कुट्यां भिक्षुः।