Table of Contents

<<3-1-4 —- 3-1-6>>

3-1-5 गुप्तिज्किद्भ्यः सन्

प्रथमावृत्तिः

TBD.

काशिका

गुप गोपने, तिज निशाने, कित निवासे एतेभ्यो धातुभ्यः सन् प्रत्ययो भवति। प्रत्ययसंज्ञा च अधिकृतैव। जुगुप्सते। तितिक्षते। चिकित्सति। निन्दाक्षमाव्याधिप्रतीकारेषु सन्निषते ऽन्यत्र यथा प्राप्तं प्रत्यया भवन्ति। योपयति। तेजयति। सङ्केतयति। गुपादिष्वनुबन्धकरणम् आत्मनेपदार्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

229 गुप्तिज्किद्भ्यः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

वृत्तिः “गुपँ गोपने”, “तिजँ निशाने”, “कितँ निवासे” एतेभ्यः सन् स्यात्। The affix सन् is employed after the verbal roots – √गुप् (गुपँ गोपने १. ११२५), √तिज् (तिजँ निशाने १. ११२६) and √कित् (कितँ निवासे रोगापनयने च १. ११४८).

The following वार्तिकानि specify the special meanings in which this affix सन् is used: गुपेर्निन्दायाम् – The affix सन् is employed after the verbal root √गुप् (गुपँ गोपने १. ११२५) in the sense of “to censure/despise.”
तिजेः क्षमायाम् – The affix सन् is employed after the verbal root √तिज् (तिजँ निशाने १. ११२६) in the sense of “to endure/forbear.”
कितेर्व्याधिप्रतीकारे निग्रहे अपनयने नाशने संशये च – The affix सन् is employed after the verbal root √कित् (कितँ निवासे रोगापनयने च १. ११४८) in the sense of “to cure (a disease)”, “to restrain”, “to remove”, “to destroy”, “to doubt/suspect.”

उदाहरणम् – जुगुप्सते is a desiderative form derived from √गुप् (गुपँ गोपने १. ११२५).

The विवक्षा is लँट्, कर्तरि, सन्नन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
गुप् + सन् 3-1-5
= गुप् + स 1-3-3, 1-3-9. Note: The सन् affix does not get the आर्धधातुक-सञ्ज्ञा here, since it is not prescribed using the term “धातोः”। Therefore neither 7-2-35 nor 7-3-86 applies here.
= गुप् स् गुप् स 6-1-9
= जुप् स् गुप् स 7-4-62
= जु गुप् स 7-4-60
= जुगुप्स
“जुगुप्स” gets धातु-सञ्ज्ञा by 3-1-32

जुगुप्स + लँट् 3-2-123 = जुगुप्सते 1-3-62, 1-3-12