Table of Contents

<<1-3-60 —- 1-3-62>>

1-3-61 म्रियतेर् लुङ्लिङोश् च

प्रथमावृत्तिः

म्रियतेः(5/1), लुङ्लिङोः(7/2), च(-)| अनु. - शितः, आत्मनेपदम्।
हिन्दी – [लुङ्लिङोः] लुङ् लिङ् लकार में [च] तथा शित् विषय में जो [म्रियतेः] 'मृङ् प्राणत्यागे’ धातु, उससे आत्मनेपद होता है॥ मृङ् धातु ङित थी, सो उसे 1-3-12 से आत्मनेपद सिद्ध ही था, पुनर्विधान नियमार्थ है कि इसको इन-इन विषयों मे ही आत्मनेपद हो, सर्वत्र न हो॥

काशिका

'मृङ् प्राणत्यागे’ (तुदा. 113)। ङित्त्वादात्मनेपदम् अत्र सिद्धम् एव। नियमार्थम् इदं वचनम्। म्रियतेर् लुङ्लिङोः शितश्चाऽत्मनेपदं भवति, अन्यत्र न भवति। अमृत। मृषीष्ट। शितः खल्वपि म्रियते, म्रियेते, म्रियन्ते। नियमः किमर्थः? मरिश्यति। अमरिष्यत्।

Ashtadhyayi (C.S.Vasu)

After the verb मृ to die, when it has one of the affixes having an indicatory श, as well as when it takes the affixes लुङ् (aorist 3-2-110) and लिङ् (Benedictive 3-3-159) the Atmenepada is used.

लघु

667 लुङ्लिङोः शितश्च प्रकृतिभूतान्मृङस्तङ् नान्यत्र. रिङ्. इयङ्. म्रियते. ममार. मर्ता. मरिष्यति. मृषीष्ट. अमृत.. पृङ् व्यायामे.. 43.. प्रायेणायं व्याङ्पूर्वः. व्याप्रियते. व्यापप्रे. व्यापप्राते. व्यापरिष्यते. व्यापृत. व्यापृषाताम्.. जुषी प्रीतिसेवनयोः.. 44.. जुषते. जुजुषे.. ओविजी भयचलनयोः.. 45.. प्रायेणायमुत्पूर्वः. उद्विजते..

बालमनोरमा

368 म्रियतेः। अनुदात्तहितः' इत्यत आत्मनेपदमित्यनुवर्तते। चकारेण `शदेः शितः' इत्यतः शित इत्यनुकृष्यते। प्रकृतिभूतादित्यध्याहार्यम्। तदाह - लुङ्?लिङोरिति। तङ् स्यादिति। आत्मनेपदं स्यादित्यर्थः, `म्रियमाण' इत्यत्र आनस्यापि इष्टत्वात्। ननु हित्त्वादेव सिद्धे किमर्थमिदमित्याशङ्क्य नियमार्थमित्याह - नान्यत्रेति। तर्हि ङित्त्वं व्यर्थमित्यत आह – ङित्त्वं स्वरार्थमिति। `तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्त'मित्येतदर्तमित्यर्थ-। म्रियते इति। शे कृते रिङियङाविति भावः। ऋदन्तत्वाद्भारद्वाजमतेऽपि नेडित्याह – ममर्थेति। मम्रिवेति। क्रादिनियमादिट्। मर्ता। `ऋद्धनोः स्ये' इति इटं मत्वाह - मरिष्यतीति। रि पि गताविति। द्वाविमावनिटौ। ननु शे कृते तिपमाश्रित्य इकारस्य परत्वाल्लघूपधगुणः स्यादित्य आह- अन्तरह्गत्वादियङिति। कृ? विक्षेपे इति। दीर्घानतोऽयं , सेट्। किरतीति। `ऋत इद्धातो'रितीत्त्वं। रपत्वम्। चकरतुरिति। कित्त्वेऽपि `ऋच्छत्यृ?ता'मिति गुण इति भावः। `वृ?तो वे'ति मत्वाह - करिता करीतेति।

तत्त्वबोधिनी

322 म्रियतेर्लुङ्?लिङोश्च। चात् `शित' इति अनुकृष्यते। तदाह– शितश्च प्रकृतिभूतादिति।तङिति। आत्मनेपदमित्यर्थः। तेन `म्रियमाण' इति सिद्धम्। स्वरार्थमिति। ` मा हि मृते' त्यत्र `तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्त'मित्यनेन ङितः परस्य लादेशसार्वधातुकस्यानुदात्तत्वे कृते धातुरुदात्तः। ङित्त्वाऽभावे तु प्रत्ययस्योदात्तत्वे धातुरनुदात्तः स्यात्। न च सिज्लोपस्याऽसिद्धत्वान्ङितः परत्वं लसार्वधातुकस्य दुरुपपादमिति तस्य कथमनुदात्तता स्यादिति शङ्क्यम्, ङित्त्वसामथ्र्यात्सिज्लोस्याऽसिद्धत्वं नेति सुवचत्वात्। `अमृते'त्यत्राडागमस्यैवोदात्तत्वान्मृङो ङित्त्वस्य न किंचित्प्रयोजनमिति अण्निवारणाय `मा हि मृते' ति माङः प्रयोगः। `तिङ्ङतिङः' इति तिङन्तनिघातेऽपि ङित्त्वं व्यर्थमेव स्यादिति `हि' शब्दप्रयोगः। हि प्रयोगे तु `हि चे'त्यनेन तिङन्तनिघातनिषेधादिष्टस्वरः सिध्यतीति बोध्यम्। रि पि गतौ। परत्वाल्लघूपधगुणः स्यादित्याशङ्कायामाह–अन्तरङ्गत्वादिति।

Satishji's सूत्र-सूचिः

428) म्रियतेर्लुङ्‌लिङोश्च 1-3-61
वृत्तिः लुङि्लङोः शितश्‍च प्रकृतिभूतान्‍मृङस्‍तङ् नाऽन्‍यत्र । The verbal root √मृ (मृङ् प्राणत्यागे #६. १३९) takes a आत्मनेपद-प्रत्ययः only when लुँङ्, लिँङ् or शित्-प्रत्ययः is used, not otherwise.

उदाहरणम् – म्रियते (√मृ, तुदादि-गणः, मृङ् प्राणत्यागे, धातु-पाठः #६. १३९), लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम् ।

As per 1-3-3 हलन्त्यम्, the ending ङकार: of “मृङ्” is an इत्। Hence, as per 1-3-12 अनुदात्तङित आत्मनेपदम्, this धातु: is already set to take आत्मनेपद-प्रत्यया:। This being the case, the सूत्रम् 1-3-61 is नियमार्थम् as per the परिभाषा – “सिद्धे सत्यारम्भो नियमार्थ:।” 1-3-61 limits the cases in which “मृङ्” takes आत्मनेपद-प्रत्यया:।

मृ + लँट् 3-2-123
= मृ + ल् 1-3-2, 1-3-3
= मृ + त 3-4-78, 1-3-61, 1-4-101, 1-4-102, 1-4-108, त gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= मृ + ते 3-4-79
= मृ + श + ते 3-1-77
= मृ + अ + ते 1-3-8
= म् रिङ् + अ + ते 7-4-28, 1-1-53
= म् रि + अ + ते 1-3-3
= म् र् इयँङ् + अ + ते 6-4-77, 1-1-53
= म् र् इय् + अ + ते 1-3-2, 1-3-3
= म्रियते