Table of Contents

<<3-3-158 —- 3-3-160>>

3-3-159 लिङ् च

प्रथमावृत्तिः

TBD.

काशिका

इच्छार्थेषु समानकर्तृकेषु धातुषु उपपदेषु धातोः लिङ् प्रत्ययो भवति। भुञ्जीय इति इच्छति। अधीयीयेति इच्छति। क्रियातिपत्तौ लृङ् भवति। योगविभाग उत्तरार्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

638 लिङ् च। समानकर्तृकेष्विति, इच्छार्थेष्विति चानुवर्तते। तदाह– समानेत्यादि। भुञ्जीयेतीच्छतीति। अत्र भोक्तुरेव इषिकर्तृत्वात्समानकर्तृकत्वम्। `समानकर्तृकेषु इच्छार्थेष्वि'ति लोटो निवृत्त्यर्थमिदं सूत्रम्। क्रियातिपत्तौ तु भविष्यति नित्यं लृङ्, भूते चेत्यधिकारः संपूर्णः। इच्छार्थेभ्यो। लिङित्येवानुवर्तते। समानकर्तृकेष्विति तु निवृत्तम्। तत् सूचयन्नुदाहरति– इच्छेत् इच्छतीति। `विधिनिमन्त्रणे'ति बूधातौ व्याख्यातमप सूत्रकर्मप्राप्तत्वात्समारितम्। एवं लोडिति। लोट् चेति विध्यादिषु विहितो लोडप्येवमुदाहर्तव्य इत्यर्थः।

तत्त्वबोधिनी

529 लिङ् च। `समानकर्तृकेषु तुमुन्नि'त्यनेन `इच्छार्थेषु लिङ्लोटौ' इति विहितयोर्लिङ्लोटोर्बाधे प्राप्ते लिङः प्रतिप्रसवार्थं सूत्रम्। न चाऽत्र वासरूपविधिना लिङ्लोटोर्नित्यं बाधा नेति शङ्क्यम्, क्तल्युट्तुमुन्खलर्थेषु तदभावात्। अथाऽपि वासरूपविधिः स्यात्, एवमपि लिहेव यता स्याल्लोट् माभूदित्येवमर्थं तदारब्धव्यमेव। क्रियातिपत्तौ लृङ् प्राग्वत्।

Satishji's सूत्र-सूचिः

TBD.