Table of Contents

<<1-3-61 —- 1-3-63>>

1-3-62 पूर्ववत् सनः

प्रथमावृत्तिः

TBD.

काशिका

सनः पूर्वो यो धातुः आत्मनेपदी, तद्वत् सन्नन्तादात्मनेपदम् भवति। येन निमित्तेन पूर्वस्मादात्मनेपदं विधीयते तेन एव सन्नन्तादपि भवति। अनुदात्तङित आत्मनेपदम् 1-3-12 आस्ते, शेते। सन्नन्तादपि तदेव निमित्तम् आसिसिषते, शिशयिषते। नेर् विशः 1-3-17) निविशते, निविविक्षते। आङ उद्गम्ने (*1,3.40 आक्रमते, आचिक्रंसते। इह न भवति, शिशत्सति, मुमूर्षति। न हि शदिम्रियतिमात्रम् आत्मनेपदनिमित्तम्। किं तर्हि? शिदाद्यपि, तच् च इह न अस्ति। यस्य च पूर्वत्र एव निमित्तभावः प्रतिशिध्यते, तत् सन्नन्तेश्वप्यनिमित्तम् अनुचिकीर्षति। पराचिकीर्षति। इह जुगुप्सते, मीमांसते इति? अनुदात्तङित इत्येव सिद्धम् आत्मनेप्दम्। अवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवति इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

558 पूर्ववत्सनः। पूर्वेणेव पूर्ववत्। `तेन तुल्यटमिति तृतीयान्तद्वतिः। पूर्वशब्देन सन्प्रकतिर्विवक्षिता। तदाह– सनः पूर्व इत्यादि। एदिधिषते इति। सन्प्रकृतेरेधधातोरात्मनेपदित्वात्तत्प्रकृतिकसन्नन्तादात्मनेपदम्। `नेर्विशः' इत्यात्मनेपदविधानात्तत्प्रकृतकसन्नन्तादपि आत्मनेपदम्। ननु `शदेः शितः' `म्रियतेर्लुङ्लङोश्चे'त्यस्य ग्रहणम्। `शदे'रित्यादिसूत्रद्वये `पूर्ववत्सनः' इति, `नानोर्ज्ञः' इत्यतो नेति चानुवर्त्त्य शदेर्म्रियतेश्च सन्ननतान्नात्मनेपदमिति व्याख्येयमित्यर्थः। नन्वेवं सति शीयते म्रियते इत्यादावात्मनेपदं न लभ्येतेत्यत आह– वाक्यभेदेनेति। `शदेः शितः' म्रियतेर्लुङ्लिङोश्चे'त्येकं वाक्यम्. शिद्भाविनः शदेरात्मनेपदं स्यात्, मृङो लुङ्लिङ्प्रकृतिभूतात्, शित्प्रकृतभूताच्चात्मनेपदं स्यान्नान्यत्रेत्यर्थः। तेन शीयते म्रियते ममारेत्यादि सिध्यति। `सनो ने'त्यपरं वाक्यम्। शदेः, म्रियतेश्च सन्नन्तान्नात्मनेपदमित्यपरम्। तेन शिशत्सति, मुमूर्षति इत्यादौ नात्मनेपदमित्यर्थः।

तत्त्वबोधिनी

463 निविविक्षत इति। `नेर्विशः' इत्यात्मनेपदविधानात्सन्नन्तादपि आत्मनेपदम्। सनो नेत्यनुवर्त्त्येति। `नानोर्ज्ञः', `पूर्ववत्सनः' इति सूत्राभ्या'मिति शेषः।

Satishji's सूत्र-सूचिः

वृत्तिः सनः पूर्वो यो धातुस्तेन तुल्यं सन्नन्तादप्यात्मनेपदं स्यात् । A सन्नन्त-धातुः (verbal root ending in the affix “सन्”) takes a आत्मनेपद-प्रत्यय: in the same manner as the verbal root to which the affix सन् is added.
Note: This implies that if the धातु: to which the affix सन् is added is आत्मनेपदी/परस्मैपदी/उभयपदी then the सन्नन्त-धातुः is correspondingly आत्मनेपदी/परस्मैपदी/उभयपदी।

Example continued from 6-1-9
पिपठिष + लँट् 3-2-123
= पिपठिष + ल् 1-3-2, 1-3-3, 1-3-9
= पिपठिष + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-62, 1-3-78
= पिपठिष + ति 1-3-3, 1-3-9
= पिपठिष + शप् + ति 3-1-68
= पिपठिष + अ + ति 1-3-3, 1-3-8, 1-3-9
= पिपठिषति 6-1-97