TBD.
गम हन जन खा घस इत्येतेषाम् अङ्गानाम् उपधाया लोपो भवत्यजादौ प्रत्यये क्ङिति अनङि परतः। जग्मतुः। जग्मुः। जघ्नतुः। जघ्नुः। जज्ञे, जज्ञाते, जज्ञिरे। चख्नतुः। चख्नुः। जक्षतुः। जक्षुः। अक्षन् पितरो ऽमोमदन्त पितरः। क्ङिति इति किम्? गमनम्। हननम्। अनङि इति किम्? अगमत्। अघसत्। अचि इत्येव, गम्यते। हन्यते।
TBD.
507 एषामुपधाया लोपोऽजादौ क्ङिति न त्वङि. जग्मतुः. जग्मुः. जगमिथ, जगन्थ. जग्मथुः. जग्म. जगाम, जगम. जग्मिव. जग्मिम. गन्ता..
200 गमहन। उपधाया इति। `ऊदुपधायाः' इत्यतस्तदनुवृत्तेरिति भावः। अजादाविति। `अचि श्नुधात्वि'त्यतोऽनुवृत्तस्य अचीत्यस्य अङ्गाक्षिप्तप्रत्ययविशेषणतया तदादिविधिलाभ त भावः। क्ङितीत्युक्तेश्चखानेत्यत्र नोपधालोपः। अनङीति किम् ?। अगमत्। चख्ने चख्नाते इत्यादि। व्यय। अयं वित्तत्यागेऽपि, अर्थनिर्देशस्योपलक्षणत्वात्। अव्ययीदिति। `ह्म्यन्ते'ति न वृद्धिः। चष भक्षण इति। चचाष चेषतुः। छष हिंसायामिति। वैरूप्यसंपादकादेशादित्वादेत्त्वाभ्यासलोपो न। तदाह–चच्छषतुरिति। गुहू। उदुपधोऽयम्। ऊदित्।
173 गमहन `अचि श्नुधातुभ्रुवा'मित्यतोऽचीत्यनुवर्तते। `ऊदुपधाया गोहः' इत्यत उपधाग्रहणं च। तदाह– एषामुपधाया इत्यादि। जग्मतुः। जग्मुः। जघ्नतुः। जग्घुः। जज्ञे। जज्ञाते। जक्षतुः। जक्षुः। अनङीति अनङीति किम् ?। अगमत्। चीवृ। चीवरं- - वरुआं। `चीवरपीवरमीवरे'त्युणादिषु निपातितऽयम्। व्यय गतौ। वित्तत्यागे तु नित्यमात्मनेपदीगत इति मनोरमा। न कुत्रापि गत इति चिन्त्यैव सा। अव्ययीदिति। यान्तत्वान्न वृद्धिः। स्पश बाधनस्पर्शनयोः। `णिश्री'ति च्लेश्चङि–अपस्पशत्। - - `अत्स्मृद्दृत्वरप्रथे'त्यादिना अभ्यासस्याऽत्वं सन्वदित्त्वापवादः। पस्पशा। यङन्तादचि `यङोऽचि च' इति लुक्। `अजाद्यतः' इति टाप्। `दीर्घोऽकितः' इत्यभ्यासस्य दीर्घस्तु न भवति, संज्ञापूर्वकविधेरनित्यत्वादित्याहुः। `जपजभदहदशभञ्जपसां चे'त्यत्र पसेति सौत्रो धातुः। पसतीत्यादि। यङ्लुकोस्तु `जपजभे'त्यनेनैवाभ्यासस्य नुक्। यङि– पंपस्यते।लुकि –पंपसीति। पंपसिति कण्ड्वादिः। पंपस्यति।
368) गमहनजनखनघसां लोपः क्ङित्यनङि 6-4-98
वृत्तिः एषामुपधाया लोपोऽजादौ क्ङिति न त्वङि। The उपधा (penultimate letter – ref. 1-1-65) of the verbal roots √गम् (गमॢँ गतौ १. ११३७), √हन् (हनँ हिंसागत्योः २. २), √जन् ([जनीँ प्रादुर्भावे ४. ४४], [जनँ जनने ३. २५]), √खन् (खनुँ अवदारणे १. १०२०) and √घस् (घसॢँ अदने १. ८१२) is elided, when followed by an अजादि-प्रत्ययः which is a कित् or a ङित् with the exclusion of the “अङ्”-प्रत्ययः।
उदाहरणम् – घ्नन्ति (√हन्, अदादि-गणः, हनँ हिंसागत्योः धातु-पाठः #२. २ ) लँट्, कर्तरि-प्रयोगः, प्रथम-पुरुषः, बहुवचनम्।
हन् + लँट् 3-4-69, 3-2-123
= हन् + ल् 1-3-2, 1-3-3 = हन् + झि 3-4-78, 1-4-101, 1-4-102, 1-4-108, झि gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= हन् + शप् + झि 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 = हन् + झि 2-4-72
= हन् + अन्ति 7-1-3 = ह् न् + अन्ति 6-4-98 (झि is not a पित् and therefore it is ङिद्वत् by 1-2-4) = घ्नन्ति 7-3-54