Table of Contents

<<6-1-65 —- 6-1-67>>

6-1-66 लोपो व्योर् वलि

प्रथमावृत्तिः

लोपः (1/1), व्योः(6/2), वलि (7/1)|
हिन्दी – [व्यो] वकार और् यकार का [वलि] वल् परे रहते [लोपः] लोप होता है।

काशिका

धातोः इति प्रकृतं यत् तद् धात्वादेः इति पुनर् धातुग्रहणान् निवृत्तम्। तेन धातोरधातोश्च वकारयकारयोः वलि परतो लोपो भवति। दिव् दिदिवान्,दिदिवांसौ,दिदिवांसः। ऊयी – ऊतम्। क्नूयी – क्नूतम्। गोधाया ढ्रक् 4-1-129। गौधेरः। पचेरन्। यजेरन्। वकारस्य – जीवे रदानुक् (द. उ. 1.163)– जीरदानुः। स्रिवेः – आस्रेमाणम्। उणादयो बहुलम् (3-3-1) इति बहुलवचनाच् 'च्छ्वोः शूडनुनासिके च (6-4-19) इति ऊठ् न भवति। वलि इति किम्? ऊय्यते। क्नूय्यते। पूर्वं लोपग्रहणं किम्? वेरपृक्तलोपात् पूर्वं वलि लोपो यथा स्यात्। कण्डूयतेः क्विप् – कण्डूः। लोलूयतेः – लोलूः। व्रश्चादीनाम् उपदेशसामर्थ्यात् वलि लोपो न भवति। वृश्चति। वव्रश्च इत्यत्र अपि हि सम्प्रसारणहलादिःशेषयोर् बहिरङ्गत्वात् प्राप्नोति।

Ashtadhyayi (C.S.Vasu)

There is a लोपः substitution (elision) of the व् and य् when followed by any consonant except य्॥

लघु

431 भवेत्. भवेताम्.

बालमनोरमा

863 लोपो व्योर्वलि। `व्' `य्' अनयोद्र्वन्द्वात् षष्ठीद्विवचनम्। तदाह– वकारयकारयोरिति। पुंवद्भाव इति। `स्त्रियाः पुंवदि'त्यनेने'ति शेषः। युवजानिरिति। जायाशब्दे यकारादाकारस्य निङ्।

तत्त्वबोधिनी

752 लोपो व्योर्वलि। `व्योर्लोप'इति वक्तव्ये `वेरपृक्तलोपाद्वलिलोपः पूर्वविप्रतिषेधेन'इति ज्ञापयितुमादौ विधेयनिर्देशः कृतः। तेन सुखीयतेः क्विपि सुखीरिति सिद्ध्म्।

Satishji's सूत्र-सूचिः

316) लोपो व्‍योर्वलि 6-1-66

वृत्तिः वकारयकारयोर्लोपः स्याद्वलि । A वकारः or a यकारः is elided when it is followed by a letter of the वल्-प्रत्याहारः।

Example continued from above
भव इय् त् = भव इत् 6-1-66 = भवेत् 6-1-87