Table of Contents

<<6-4-133 —- 6-4-135>>

6-4-134 अल्लोपो ऽनः

प्रथमावृत्तिः

TBD.

काशिका

अनित्येवम् अन्तस्य भस्य अकारलोपो भवति। राज्ञः पश्य। राज्ञा। राज्ञे। तक्ष्णः पश्य। तक्ष्णा। तक्ष्णे। अनो नकारान्तस्याय लोप इष्यते। इह न भवति, राजकीयम् इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

248 अङ्गावयवोऽसर्वनामस्थानयजादिस्वादिपरो योऽन् तस्याकारस्य लोपः. दध्ना. दध्ने. दध्नः. दध्नः. दध्नोः. दध्नोः..

बालमनोरमा

शसादावचि नुमभावात्प्र-अच् अस् इति स्थिते-अचः। अच इत्यन्चुधातोः `अनिदिता'मिति लुप्तनकारस्य षष्ठ\उfffद्न्तम्। भस्येत्यधिकृतम्। `अल्लोपो नः' इत्यतोऽल्लोप इत्यनुवर्तते। तदाह–लुप्तेति।

तत्त्वबोधिनी

368 अचः। `अल्लोपोऽनः'इत्यतोऽल्लोप इत्यनुवर्तते, `भस्ये'ति च। तदाह—भस्याकारस्य लोपः स्यादिति। अत्र नव्याः–यद्यत्राञ्चतेर्भस्येति सामानाधिकरण्येनान्वयः स्वीक्रियते तर्हि `प्रतीचः'`प्रतीचे'त्यादि न सिध्येत्। उपसर्गसहितस्यैव भत्वेन केवलस्याऽञ्चतेर्भत्वाऽभावात्। `भस्यावयवस्याञ्चते'रिति वैयधिकरण्येनान्वये तु प्रत्यगात्मनेत्यादावञ्चतेकारस्य लोपः स्यात्। `अञ्चत्यन्तस्य भस्याकारस्य लोप'इति व्याख्यानेतु `प्राचः' `प्रातीचे'प्रशब्दाकारस्यापि लोपः स्यात्। तन्त्रावृत्त्यादिनाऽञ्चत्यन्तस्य भस्याञ्चतेरकारस्येति व्याख्यानेऽपि– प्रत्यञ्चमञ्चति प्रत्यङ्। ततः शसादिषु `प्रत्यक्वः'`प्रत्यक्चे'त्यादावतिप्रसङ्ग एव। तस्मात् `अल्लोपोऽनः'इत्यत्रेवात्रापि `अङ्गावयवोऽसर्वनामस्थानयजादिस्वादिपरो योऽञ्चतिस्तस्याऽकारस्य लोपः स्या'दिति व्यख्येयम्। `द्युप्रागपागुदक्प्रतीचः'इति निर्देशश्चेह व्याख्याने लिङ्गमित्याहुः।

Satishji's सूत्र-सूचिः

161) अल्लोपोऽनः 6-4-134

वृत्ति: अङ्गावयवोऽसर्वनामस्थान-यजादि-स्वादिपरो योऽन्, तस्याकारस्य लोपः। The अकारः of the अन् in the अङ्गम् is elided when a स्वादि-प्रत्यय: which is not सर्वनामस्थानम् and which either begins with a यकारः or a vowel (अच्), follows.

उदाहरणम् continued – दधन् + आ = दध्ना 6-4-134