Table of Contents

<<8-4-46 —- 8-4-48>>

8-4-47 अनचि च

प्रथमावृत्तिः

TBD.

काशिका

अचः इति वर्तते, यरः इति च। अनच्परस्य अच उत्तरस्य यरो द्वे वा भवतः। दद्ध्यत्र। मद्ध्वत्र। अचः इत्येव, स्मितम्। ध्मातम्। यणो मयो द्वे भवत इति वक्तव्यम्। केचिदत्र यणः इति पञ्चमी, मयः इति षष्ठी इति व्याचक्षते। तेषाम् उल्क्का, वल्म्मीकः इत्युदाहरणम्। अपरे तु मयः इति पञ्चमी, यणः इति षष्ठी इति। तेषाम् दध्य्यत्र, मध्व्वत्र इत्युदाहरणम्। शरः खयो द्वे भवत इति वक्तव्यम्। अत्र अपि यदि शरः इति पञ्चमी, खयः इति षष्ठी, तदा स्त्थाली, स्त्थाता इति उदाहरणम्। अथवा खय उत्तरस्य शरो द्वे भवतः। वत्स्सः। इक्ष्षुः। क्ष्षीरम्। अप्स्सराः। अवसाने च यरो द्वे भवत इति वक्तव्यम्। वाक्क, वाक्। त्वक्क्, त्वक्। षट्ट्, षट्। तत्त्, तत्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

18 अचः परस्य यरो द्वे वा स्तो न त्वचि. इति धकारस्य द्वित्वेन सुध्ध्य् उपास्य इति जाते..

बालमनोरमा

50 सुध्? य् इति स्थिते इति। धकारस्य द्वित्वमिति वक्ष्यमाणेनान्वयः। केन सूत्रेणेत्यत आह- अनचि चः। `यरोऽनुनासिकेऽनुनासिको वे'त्यतो `यर' इति ष,?ट\उfffद्न्तं `वे'ति चानुवर्तते। `अचो रहाभ्यां द्वे' इत्यतोऽच इति पञ्चम्यन्तं `द्वे' इति चानुवर्तते। न अच अनच्, तस्मिन् अनचीति न पर्युदासः, तथा सति `नञिवयुक्तमन्यसदृशे तथाह्रर्थगति'रिति न्यायेनाऽज्भिन्ने हलीत्यर्थः स्यात्। तथा सति लाघवाद्धलीत्येव वदेत्। रामादित्याद्येवसानेषु च द्वित्वं न स्यात्। अतोऽचि न भवतीत्यसमर्थसमासमाश्रित्य प्रतिषेधपरं वाक्यान्तरम्। तदाह-अचः परस्येत्यादिना। इति धकारस्येति। अनेन सूत्रेण धकारस्य द्विरुच्चारणमित्यर्थः। धकारस्य उकारादचः परत्वादच्परकत्वाऽभावाच्चेति भावः।

तत्त्वबोधिनी

43 अनचि च। यरो द्वे वेति। `यरोऽनुनासिके' इति सूत्राद्यरो वेति चानुवर्तते। `अचो रहाभ्या'मिति सूत्रादयो द्वे इति च, तदाह-अचः परस्येत्यादि। एवं चात्र `वा'ग्रहणानुवृत्त्यैवेष्टसिद्धेः `त्रिप्रभृतिषु शाकटायनस्य' `सर्वत्र शाकल्यस्य' दीर्घादाचार्याणा'मिति च सूत्रत्रयं नारम्भणायमिति भावः। अच इति किम् ?, `तादात्म्य'मित्यादौ मस्य द्वित्वं मा भूत्। `अनची'ति यदि पर्युदासः स्यात्ततो `नञिवयुक्तमन्यसदृशे तथा ह्रर्थगति'रिति न्यायादज्भिन्नेऽच्सदृशे वर्णे हलीत्यर्थः स्यात्, ततो लाघबाद्धलीत्येव वदेत्, तस्मात्प्रसज्यप्रतिषेध इत्याह-न त्वचीति। एवं चाबसानेऽपि द्वित्वं भवति-वाक्क् वाक्।

Satishji's सूत्र-सूचिः

TBD.