Table of Contents

<<2-4-79 —- 2-4-81>>

2-4-80 मन्त्रे घसह्वरनशवृदहाऽद्वृच्कृगमिजनिभ्यो लेः

प्रथमावृत्तिः

TBD.

काशिका

मन्त्रविषये घस ह्वर नश वृ दह आत् वृच कृ गमि जनि इत्येतेभ्यः उत्तरस्य लेः लुग् भवति। घस अक्षन् पितरो ऽमीमदन्त पितरः। ह्वर इति ह्वृ कौटिल्ये मा ह्वार्मित्रस्य त्वा। णश धूर्तिः प्रणङ् मर्त्यस्य। वृ इति वृङ्वृञोः सामान्येन ग्रहनम् सुरुचो वेन आवः। दह मा न आ धक्। आतिति आकारान्तग्रहनम्। प्रा पूरने आप्रा द्यावापृठीवी अन्तरिक्षम्। वृच् मा नो अस्मिन् महाधने परा वृग् भारभृद्यथा। कृ अक्रन् कर्म कर्मकृतः। गमि {सद्यः पुंष्टि निरुन्धानासो} अग्मन्। जनि अज्ञत वा अस्य दन्ताः। ब्राह्मने प्रयोगो ऽयम्। मन्त्रग्रहणं तु छन्दस उपलक्षणार्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

–

तत्त्वबोधिनी

–

Satishji's सूत्र-सूचिः

TBD.