TBD.
शासि वसि घसि इत्येतेषां च इण्कोः उत्तरस्य सकारस्य मूर्धन्यो भवति। अन्वशिषत्, अन्वशिषताम्, अन्वशिषन्। शिष्टः। शिष्टवान्। वसि उषितः। उषितवान्। उषित्वा। घसि जक्षतुः। जक्षुः। घसिभसोर्हलि च 6-4-100 इति उपधालोपः। अक्षन् पितरो ऽमीमदन्त पितरः। अनादेशार्थं वचनम्। घसिर् यद्यप्यादेशः, सकारस्त्वादेशो न भवति। इण्दोः इत्येव, शास्ति। वसति। जघास।
TBD.
556 इण्कुभ्यां परस्यैषां सस्य षः स्यात्. घस्य चर्त्वम्.. जक्षतुः. जक्षुः. जघसिथ. जक्षथुः. जक्ष. जघास, जघस. जक्षिव. जक्षिम. आद. आदतुः. आदुः..
242 - शासिवसि। `सहेः साडः सः' इत्यतः स इति षष्ठ\उfffद्न्तमनुवर्तते। `इण्को'रिति, `अपदान्तस्य मूर्धन्यः' इति चाधिकृतम्। तदाह–इण्कवर्गाभ्यामिति। भारद्वाजनियमात्थलि वेडिति मत्वा आह– उवसिथ उवस्थेति। `न शसददे' ति निषेधात् `थलि च सेटी'ति न भवति। ऊषथुः ऊष, उवास–उवस ऊषिव ऊषिम। क्रादिनियमादिट्। वस् स्य ति इति स्थिते आह– सः स्याद्र्धधातुके इति। अनेन सकारस्य तकार इति भावः। वसतु। अवसत्। वसेत्। उष्यादिति। आशीर्लिङि यासुटः कित्त्वाद्वस्य संप्रसारणे `सासिवसी'ति षत्वमिति भावः। अवात्सीदिति। सिचि हलन्तलक्षणवृद्दौ सस्य तकारः। अवात्तामिति। अवस् स् तामिति स्थिते वृद्धौ `झलो झली' ति सलोपे प्रत्ययलक्षममाश्रित्य सकाराद्याद्र्धदातुकपरत्वाद्धातुसकारस्य `सः सि' इति तकारः। वस्तुतस्तु अवात्स्व अवास्म। अवत्स्यत्। वेञ्धातुरनिट्। ञित्त्वादुभयपदी। तन्तुसन्तानः- - पटनिर्माणार्थं तन्तूनां तिर्यक्प्रसारमविशेषः। वयति वयते इति। शपि अयादेशः। वेञो वयिः। शेषपूरणेन सूत्रं व्याचष्टे–वा स्याल्लिटीति। `लिच्यन्यतरस्या'मित्यतोऽन्यतरस्यामित्यनुवृत्तेरिति भावः। उच्चारणार्थ इति। इकारस्य इत्संज्ञकत्वे तु नुम् स्यादिति भावः। उवायेति। णल#इ वयादेशे यजादित्वादकिति लिटि परे `लिट\उfffद्भ्यासस्ये'ति वकारस्य संप्रासरणे उपधावृद्धिरिति भावः। अत्र यकारस्य तु न संप्रसारणं, `लिटि वयो यः'इति तन्निषेधस्यानुपदमेव वक्ष्यमामत्वादिति भावः। यद्यपि णलि वयादेशाऽभावेऽपि द्वित्वे अभ्यासस्य संप्रसारमे `अचो ञ्णिती'ति वृद्धौ आयादेशे उवायेति सिध्यति, तथापि ऊयतुरित्याद्यर्थं वयादेशस्य आवश्यकत्वादिहापि वयादेशो न्याय्यत्वादुपन्यस्तः। वे- -अतुस् इति स्थिते वयादेशे कृते–
214 शासिवसिघसीनां च। धातुसकारस्याऽप्राप्ते विधिरयम्। ननु सुपिसौ सुपिस इत्यादावतिप्रसङ्गवारणाय `धातोः सकारस्य चेदेषामेवे'ति नियमार्थतां स्वीकृत्य `आदेशप्रत्यययो'रिति सूत्रं त्यज्यतामिति चेत्। अत्राहुः— आदेशावयवस्य षत्ववारणाय आदेशस्यैत्यंशस्तावदावश्यककः। तद्ग्रहणे कृते `धातुभिन्नसकारस्य चेद्भवति आदेशरूपस्यैवे'ति नियमप्रसङ्गवारणाय प्रत्ययग्रहणमपि कर्तव्यमेवेति। अवात्सीदिति। `वदव्रजे'ति वृद्धिः। `सः सी' ति तः। `अस्तिसिचः' इतीट्। उच्चारणार्थ इति। इत्संज्ञायां तु `इदितः' इति नुम् स्यादिति भावः। उवायेति। `ग्रहिज्ये'त्यत्र वयिग्रहणाद्वेञ् इति निषेधोऽत्र न प्रवर्तत इत्याहुः।