TBD.
या प्रापने, अस्माद् यङन्तात् तच्छीलादिषु कर्तृषु वरच् प्रत्ययो हवति। यायावरः।
TBD.
–
958 यश्च यङः। `या प्रापणे' इत्यस्य धातोरनुकरणस्य या इत्यस्य `यः' इति षष्ठ\उfffद्न्तम्। तदाह— यातेरिति। याधतोर्यङ्। द्वित्वादि। `दीर्घोऽकितः' इत्यभ्यासस्य दीर्घः। `यायाये'ति यङन्ताद्वरचिविशेषमाह– अतो लोप इति। हलः परत्वाऽभावात् `यस्य हलः' इति यकारोलोप न। `यायाय् - वर' इति स्थिते आह– लोपो व्योरिति यकारलोप इति। ननु अतो लोपस्य `अचः परस्मिन् इतस्थानिवत्त्वदाकरेण व्यवधानाद्वल्परत्वाऽभावात्कथमह यलोप इत्यत आह– तस्येति। तस्य= अल्लोपस्य यलोपे कर्तव्ये `न पदान्ते'ति स्थानिवत्त्वनिषेधादित्यर्थः। एवं च यङोऽकारस्य यकारस्य च लोपे यायावर इत्यत्र `आतो लोप इटि चे'त्याल्लोपमाशङ्क्य निराकरोति– अल्लोपस्येति। यङकारलोपस्य `अचः परस्मि'न्नति स्थानिवत्त्वमाश्रित्य तदाकारात्मकाद्र्धधातुकपरत्वादाकारस्य `आतो लोप इटि चे'त्याल्लोपे प्राप्ते सति परिहार उच्यते इत्यर्थः। परिहारमेवाह– वरे लुप्तं न स्थानिवदिति। `लुप्त'मिति भावे क्तः। `न पदान्ते' ति सूत्रे `वरे' इत्यनेन वरे परे विहितं न स्थानिवदिति लभ्यते। अल्लोपोऽयमाद्र्धधातुके वरे परे विहितः। अतस्तस्य स्थानिवत्त्वाऽभावान्न यङोऽकारमाश्रित्य `आतो लोप इटि चे'त्यस्य प्रवृत्तिरित्यर्थः। एवंच `न पदान्ते'ति सूत्रे `वरे' इत्यंशस्य , `यलोपे' इत्यंशस्य च यायावर इत्युदाहरणमिति बोध्यम्।
–
TBD.