Table of Contents

<<8-2-34 —- 8-2-36>>

8-2-35 आहस्थः

प्रथमावृत्तिः

TBD.

काशिका

आहो हकारस्य थकारादेशो भवति झलि परतः। इदमात्थ। किमात्थ। आदेशान्तरकरणं झषस्तथोर्धो ऽधः 8-2-40 इत्यस्य निवृत्त्यर्थम्। झलि इत्येव, आह, आहतुः, आहुः। हृग्रहोर्भश्छन्दसि हस्येति वक्तव्यम्। गर्दभेन सम्भरति। ग्रभीता। जभ्रिरे। उद्ग्राभं च निग्राभं च ब्रह्म देवा अवीवृधन्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

597 झलि परे. चर्त्वम्. आत्थ. आहथुः..

बालमनोरमा

282 आहस्थः। `आह' इति षष्ठ\उfffद्न्तम्। `झलो झलि' इत्यतो झलीत्यनुवर्तते इत्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे– झलि परे इति। आह्? इत्यस्य थकारः स्याज्झलीति फलितम्। `अलोऽन्त्यस्ये'त्यन्त्यस्य भवति। चत्त्र्वमति। आथ्–थेति स्थिते प्रथमथकारस्य `खरि चे'ति चर्त्वे आत्थेति रूपमित्यर्थः। आहादेशस्य अकारान्तत्वे तु हकारादकारस्य थकारादेशे हस्य ढत्वे चर्त्वे आट्त्थ इति स्यादिति बोध्यम्। पञ्चानं णलाद्यभावपक्षे आह—-

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

394) आहस्थः 8-2-35
वृत्तिः झलि परे। The हकारः of the verbal form “आह्” gets थकारः as the replacement when followed by a letter of the झल्-प्रत्याहारः।

गीतासु उदाहरणम् – श्लोकः bg11-3

आत्थ (√ब्रू, अदादि-गणः, ब्रूञ् व्यक्तायां वाचि, धातु-पाठः #२. ३९) लँट्, कर्तरि-प्रयोगः, मध्यम-पुरुषः, एकवचनम्।

ब्रू + लँट् 3-2-123 = ब्रू + ल् 1-3-2, 1-3-3
= ब्रू + सिप् 3-4-78, 1-4-101, 1-4-102, 1-4-105, सिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= आह् + थल् 3-4-84 = आह् + थ 1-3-3
= आह् + शप् + थ 3-1-68
= आह् + थ 2-4-72
= आथ् + थ 8-2-35 = आत्थ 8-4-55

In the case in which the optional “थल्”-आदेश: (by 3-4-84) is not done, the form will be ब्रवीषि (see next सूत्रम्)।