TBD.
व्रश्च भ्रस्ज सृज मृज यज राज भ्राज इत्येतेषाम्, छकारान्तानाम्, शकारान्तानां च षकारः आदेशो भवति झलि परतः पदान्ते च। व्रश्च व्रष्टा। व्रष्टुम्। व्रष्टव्यम्। मूलवृट्। भ्रस्ज भ्रष्टा। भ्रष्टुम्। भ्रष्टव्यम्। धानाभृट्। सृज स्रष्ट। स्रष्टुम्। स्रष्टव्यम्। रज्जुसृट्। मृज मार्ष्टा। मार्ष्टुम्। मार्ष्टव्यम्। कंसपरिमृट्। यज यष्टा। यष्टुम्। यष्टव्यम्। उपयट्। राज सम्राट्। स्वराट्। विराट्। भ्राज विभ्राट्। राजभ्राजोः पदान्तार्थं ग्रहणम्, झलादिराभ्यामिटा पर्यवपद्यते। केचित् तु राष्टिः, भ्राष्टिः इति क्विन्नन्तम् इच्छन्ति। छकारान्तानाम् प्रच्छ प्रष्टा। प्रष्टुम्। प्रष्टव्यम्। शब्दप्राट्। च्छ्वोः शूडनुनासिके च 6-4-19 इत्यत्र क्ङिति इत्यनुवर्तते इति छग्रहणम् इह क्रियते। शकारान्तानाम् लिश् लेष्टा। लेष्टुम्। लेष्टव्यम्। लिट्। विश् वेष्टा। वेष्तुम्। वेष्टव्यम्। विट्।
TBD.
309 झलि पदान्ते च. जश्त्वचर्त्वे. राट्, राड्. राजौ. राजः. राड्भ्याम्.. एवं विभ्राट्, देवेट्, विश्वसृट्.. (परौ व्रजेः षः पदान्ते). परावुपपदे व्रजेः क्विप् स्याद्दीर्घश्च पदान्ते षत्वमपि. परिव्राट्. परिव्राजौ..
292 ब्राश्चभ्रस्ज। व्रश्चादयः सप्त धातवः। छशौ वर्णौ, ताभ्यां शब्दरूपविशेष्यमादाय तदन्तविधिः। `झलो झली'त्यतो `झली'त्यनुवर्तते। `पदस्ये'त्यधिकृतम्। `स्कोःसंयोगाद्योरन्ते चे'त्यतोऽन्ते इत्यनुवर्तते। तदाह– व्रश्चादीनामिति। अन्तादेश इत्यलोऽन्त्यसूत्रलभ्यम्। षस्य जश्त्वेनेति। प्रकृतसूत्रेण शस्य षत्वे तस्य षकारस्य `स्वादिषु' इति पदत्वाज्झलाञ्जशोऽन्ते' इति जश्त्वेन स्थानसाम्याड्डकारे निड्भ्यामित्यादि रूपमित्यर्थः। सुपीति। निश्-सु इति स्थिते `व्रश्चे'ति षत्वे तस्य जश्त्वेन डकारे `ङसि धुट्' इति कदाचिद्धुडागमः। चत्र्वमिति। `डधयो'रिति शेषः। स्थानसाम्याड्डस्य टः, धस्य तः। तस्येति। चत्र्वस्येत्यर्थः। ठथौ नेति। धुडभावपक्षे टस्य ठो न, धुट्पक्षे तस्य थो नेत्यर्थः। `नादिन्याक्रोशे' इति सूत्रस्थभाष्ये `चयो द्वितीया' इत्यस्य पाठदर्शनात्तदपेक्षया चत्र्वस्य परत्वम्। अथ तकारस्य ष्टुत्वेन टकारमाशङ्क्य आह–न पदान्तादिति। `स्वादिषु' इति पदत्वं बोध्यम्। निट्त्सु इति। धुट्पक्षे रूपम्। तदभावपक्षे तु निट्सु।
254 टतयोष्ठथौ नेति। धुडभावे टस्य ठो न, धृट्पक्षे तु तस्य थो नेति विवेकः। न भवतीति। जशत्वात्प्राक् षस्य कुत्वं न भवतीत्यर्थः।
220) व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राजच्छशां षः 8-2-36
वृत्ति: व्रश्चादीनां सप्तानां छशान्तयोश्च षकारोऽन्तादेशः स्याज्झलि पदान्ते च। The seven verbal roots listed (“व्रश्च्”, “भ्रस्ज्”, “सृज्”, “मृज्”, “यज्”, “राज्”, “भ्राज्”) and terms ending in a छकारः or शकारः get षकारः as a replacement, when they are at the end of a पदम् or are followed by a झल् letter.
उदाहरणम् – राज् + सुँ = राज् 1-3-2, 6-1-68 = राष् 8-2-36 = राड् 8-2-39 = राट्, राड् 8-4-56.
Example continued from prior rule:
By this rule 8-2-36, the ending जकार: of ऋत्विज् would have become a षकार: but the following special rule comes into play.