Table of Contents

<<7-3-95 —- 7-3-97>>

7-3-96 अस्तिसिचोऽपृक्ते

प्रथमावृत्तिः

अस्तिसिचः ५/१, अपृक्ते ७/१।
हिन्दी – [अस्तिसिचः] अस धातु से उत्तर तथा सिच् से उत्तर [अपृक्ते] अपृक्त हलादि सार्वधातुक को ईट् आगम होता है।

काशिका

अस्तेरङ्गात् सिजन्ताच् च परस्य अपृक्तस्य सार्वधातुकस्य ईडागमो भवति। अस्तेः आसीत्। आसीः। सिजन्तात् अकार्षीत्। असावीत्। अलावीत्। अपावीत्। अपृक्ते इति किम्? अस्ति। अकार्षम्। आहिभुवोरीटि प्रतिषेधः इति स्थानिवद्भावप्रतिषेध तेन इह न भवति, आत्थ, अभूतिति।

Ashtadhyayi (C.S.Vasu)

A single consonantal saaravadhatuka affix gets augment ईट्, after अस् (अस्ति) and after Aorist character सच्.

लघु

447 विद्यमानात् सिचोऽस्तेश्च परस्यापृक्तस्य हल ईडागमः..

बालमनोरमा

73 अस्तिसिचोऽपृक्ते। अस्तिश्च सिच्चेति समाहारद्वन्द्वात्पञ्चमी। `ब्राउव ई'डित्यत ईडित्यनुवर्तते। `तस्मादित्युत्तरस्ये'ति परिभाषया `अस्तिसिचः' इति पञ्चमी अपृक्तस्येति षष्ठी प्रकल्पयति। ततश्च अस्तेः सिचश्च परस्याऽपृक्तस्य ईडागमः स्यादिति प्राचीना व्याचक्षते। तथा सति लुङि अस्तेर्भूभावे अभूदिति न स्यात्, स्थानिवत्त्वेन अस्तितया तत्राऽपृक्तस्य हल ईडागमस्य दुर्वारत्वात्। तथा अगात् अस्थात् अपादित्यादावपि `गातिस्थे'ति सिचो लुक्यपि स्थानिवत्त्वेन सिचः परत्वादीडागमः स्यादतः प्रकारान्तरेण व्याचष्टे– सिच्च अश्चेत्यादिना। ननु सिचस्?शब्दे सिच्शब्दस्य पूर्वखण्डस्यान्तर्वर्तिविभक्त्या पदत्वाच्चोः कुरिति कुत्वप्रसङ्ग इत्यत आह–सौत्रं भत्वमिति। तथ च भत्वेन पदत्वस्य बाधान्न कुत्वमिति भावः। ननु सिचस्?शब्दे असित्यनेनैवास्तेर्लाभादस्तिग्रहणं किमर्थमित्यत आह- - अस्तीत्यव्ययेन कर्मधारय इति। अस्तीति विभक्तिप्रतिरूपकमव्ययं लुप्तसुब्विभक्तिकं विद्यमानार्थकम्। तेन सिचस्?शब्दस्य कर्मधारय इत्यर्थः। तथा च `अस्तिसिच'सित्येक पदमिति स्थितम्। सौत्रो लुगिति। `सुपां सुलुगित्यनेनेटति शेषः। तथा च अस्तिसिच इति पदाल्लब्धार्थमाह– विद्यमानादित्यादि। हल इति। `उतो वृद्धिर्लुकि हली'स्यतोऽनुवृत्तस्य हलीत्यस्य षष्ठ\उfffदा विपरिणाम इति भावः। इतीण्नेहेति। अनेन सूत्रेण अभूत् इत्यत्र ईडागमो नेत्यर्थः। कुत इत्यत आह- - लुप्तत्वादिति। विद्यमानत्वविशेषणेन लुप्तात्सिचः परस्ये नेति भावः। एवं च अगादित्यादावपि लुप्तात्सिचः परस्य अस्तेर्लुङि कृतभूभावात्परस्य च नेत्युक्तप्रायम्। ऐधिषीति। एधधातोर्लुङि उत्तमपुरुषैकचवनम् इट्। अत्र इकारस्य सिचः परत्वेऽपि हल्वाऽभावादिडागमो नेति भावः। ऐधिष्टेति। एध धातोर्लुङि प्रथमपुरुषैकवचनम्। अत्र त इत्यस्य सिचः परत्वेऽपि एकाल्प्रत्ययत्वाऽभावेनाऽपृक्तत्वाऽभावादीडागमो नेति भावः। अभूतामिति। लुङस्तसि तस्य तामादेशः। च्लिः। सिच्। अट्। गुणनिषेधः।

तत्त्वबोधिनी

56 अत्र प्राञ्चः– अस्तिश्च सिच्चेति समाहारद्वन्द्वे अस्तिसिच्, तस्मादिति विग्रहं मत्वा अस्तेः सिचश्च परस्येति व्याचख्युः। तच्चिन्त्यम्। तत्र समासान्तस्याऽनित्यत्वाश्रयणे `द्वन्द्वाच्चुदषहान्ता'दिति प्राप्तस्य टचः परिहारेऽपि, `समुद्राभ्राद्धः'इति निर्देशात् `अल्पाच्तर'मित्येतदनित्यमित्याश्रित्य सिच्छब्दस्य परत्वसमर्थेऽपि, `अस्तेर्भू'रिति भूभावस्य स्थानिवत्त्वेनाऽस्तितया तत्रापृक्तस्य हल ईडागमस्य दुर्वारत्वात्। तथा गातिस्थाघुपाभूभ्यः सिचो लुक्यपि स्थानिवद्भावेन सिचः पर्तवानपायादगादस्थादभूदित्यादावतिप्रसङ्गाच्च। तदेतद्ध्वनयन्व्याचष्टे– सिच्च अस् चेति। सौत्रं भत्वमिति। तेनाऽत्र कुत्वजश्त्वे न भवत इति भावः। विद्यमानादिति। सिचोऽस्तेश्च विद्यमानविशेषणेन लुप्तात्सिचः, कृतभूभावादस्तेश्च नेति भावः॥ भाष्यकारास्त्वाहुः– `अस्तिसिचोऽपृक्ते' इति द्विसकारकोऽयं निर्देश इति। अत्र माधवः– अस् स् इति समुदायस्याऽधातुतया `इक्?श्तिपौ धातुनिर्देशे' इति श्तिप् प्रत्ययो न स्यादिति। अत्र वदन्ति– द्विसकारकनिर्देशे श्तिप् न स्यादिति यदुक्तं, तद्रभसोक्तिमात्रम्। इत्थं हि भाष्याशयः– सिच इत्यस्यानन्तरं सकारः प्रश्लिष्यते न तु श्तिपः प्राक्, अत एव `सिचोऽपृक्ते इति द्विसकारकोऽयं निर्देश' इत्युक्तं भाष्ये। अन्यथा `अस्तीति निर्देशो द्विसकारक' इत्येव ब्राऊयात्, एवं च सान्तादस्तेः, सान्तात्सिच इति चार्थो निर्बाध एव। द्वितीयस्च सकारो लुप्यते, `संयोगान्तस्य पदान्तस्ये'ति व्याख्यानात्, व्यपदेशिवद्भावेन पदान्तत्वाद्वितीयसकारस्य। न च संयोगान्तलोपस्याऽसिद्धत्वात् `अतो रो'रित्युत्वं दुर्लभमिति वाच्यं, `संयोगान्तलोपो रोरुत्वे' इति वार्तिकेनाऽसिद्धत्वनिषेधात्। `संयोगान्तां यत्पद'मिति व्याख्याने तु नेह संयोगान्तलोपः, किंतु सकारद्व्यस्यापि रुत्वे कृते `अतो रो'रित्यनेनैक एवोकारो भविष्यति, विधेयविशेषणस्यैकत्वस्य प\उfffदोकत्ववद्ववक्षितत्वात्। न च स्थानिभेदेन उकारद्वये सत्यपि न क्षतिः, सवर्णदीर्घानन्तरमाद्गुणे सति समीहितरूपसिद्धेरिति वाच्यम्, एकपदाश्रयत्वेनाऽन्तरङ्गत्वादाद्गुणे पश्चादवादेशप्रवृत्त्या `अस्तिसिचोऽपृक्ते' इति रूपाऽसिद्धेः, तस्मादुक्तरीत्या एक एवोकार इति स्वीकर्तव्यम्। अत एव विधेयगतैकत्वस्य विवक्षितत्वात् `एकः पूर्वपरयो'रित्यत्रैकग्रहणं भाष्यादौ प्रत्याख्यातम्। नन्वति परे यो रुः, स त्वत#ः परो न भवति, अतः परस्तु अतिपूर्वो न भवतीति रुद्वयस्थाने कथमुकारः स्यात् ?। मैवम्। `रो'रिति जातिपरनिर्देशेनाऽतः परत्वस्य पूर्वत्वस्य च संभवात्। न चैवमपि परत्वात् `हशि चे'ति प्रथमस्यैव रोरुः स्यादिति वाच्यं, रुत्वस्याऽसिद्धतया हश्परत्वाऽभावात्। न चाश्रयाऽसिद्धत्वमिति वाच्यं, स्थान्यंशे तथात्वेऽपि निमित्तभूतहशंशे तदसंभवात्। यद्यपि सत्वजातेरेकत्वादुभयोरपि एक एव रुर्भवतीति व्याख्यायां नायं क्लेशस्तथापि रुत्वविधौ पदस्येत्यनुवर्तनादेकपदान्तत्वं न संभवति, द्वितीयसकारस्य पृथक्पदत्वादित्याहुः। अपृक्तस्य हल इति। `अपृक्तसार्वधातुकस्ये'ति प्राचोक्तं त्युक्तम्, ऐधिषीत्यादावतिव्याप्तेः, सार्वधातुकग्रहमव्यावत्र्याऽलाभाच्च॥

Satishji's सूत्र-सूचिः

385) अस्तिसिचोऽपृक्ते 7-3-96

वृत्तिः विद्यमानात् सिचोऽस्तेश्च परस्यापृक्तस्य हल ईडागमः। A अपृक्त-हल् (affix which is a single consonant – ref. 1-2-41 अपृक्त एकाल् प्रत्ययः) takes the “ईट्” augment in the following two cases:
i. The अपृक्त-हल् follows the “सिँच्”-प्रत्यय: which is actually present or
ii. The अपृक्त-हल् follows √अस् (असँ भुवि, धातु-पाठः #२. ६०) which is actually present.

उदाहरणम् – आसीत् (√अस्, अदादि-गणः, असँ भुवि, धातु-पाठः #२. ६०) लँङ्, कर्तरि-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

अस् + लँङ् 3-2-111 = अस् + ल् 1-3-2, 1-3-3
= अस् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= अस् + ति 1-3-3 = अस् + त् 3-4-100
= अस् + शप् + त् 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113.
= अस् + त् 2-4-72
= अस् + ईट् त् 7-3-96, 1-1-46
= अस् + ईत् 1-3-3
= आट् अस् + ईत् 6-4-72, 1-1-46
= आ अस् + ईत् 1-3-3
= आसीत् 6-1-90