TBD.
पा घ्रा ध्मा स्था म्ना दाण् दृशि अर्ति सर्ति शद सद इत्येतेषां पिब जिघ्र धम तिष्ठ मन यच्छ पश्य ऋच्छ धौ शीय सीद इत्येत आदेशा भवन्ति शिति परतः। पा पिबति। घ्रा जिघ्रति। ध्मा धमति। स्था तिष्ठति। मना मनति। दाण् यच्छति। दृशि पश्यति। अर्ति ऋच्छति। सर्ति धावति। शद शीयते। सद सीदति। पिबतेर् लघूपधगुणः प्राप्नोति, सः अङ्गवृत्ते पुनर् वृत्तावविधिर्निष्ठितस्य इति न भवति। अथ वा अकारान्तो ऽयम् आदेशः आद्युदात्तो निपात्यते। सर्तेर्वेगितायां गतौ धावादेशम् इच्छन्ति। अन्यत्र सरति, अनुसरति इत्येव भवति।
TBD.
489 पादीनां पिबादयः स्युरित्संज्ञकशकारादौ प्रत्यये परे. पिबादेशोऽदन्तस्तेन न गुणः. पिबति ॥
197 लटि शपि सद् अ ति इति स्थिते—पाघ्राध्मा। पा घ्रा ध्मा स्था म्ना दाण् दृशि अर्ति सर्ति शद् सद् एषां द्वन्द्वात् षष्ठीबहुवचनम्। पिब जिघ्र धम तिष्ठ मन यच्छ पश्य ऋच्छ धौ शीय सीद एषां द्वन्द्वात् प्रथमाबहुवचनम्। यथासङ्ख्यमादेशाः। `ष्ठिवुक्लमु'इत्यतः शितीत्यनुवर्तते। श् चासौ इच्चेति कर्मधारयः।अङ्गाक्षिप्तप्रत्ययविशेषणत्वात्तदादिविधिः। तदाह–इत्संज्ञकेति। ससादेरिति। इत्संज्ञकशकारादिप्रत्ययाऽभावान्न सीदादेशः। श् इत् यस्य स शित्। शितीति बहुव्रीह्राश्रयणे तु पाधातोः कर्मणि लिटि एशि आल्लोपे `पपे' इत्यत्रापि पिबादेशः स्यादिति बोध्यम्। थलि क्रादिनियमप्राप्तस्य इटः `उपदेशेऽत्त्वतः' इति निषेधेऽपि भारद्वाजनियमाद्वेट्। तत्र इट्पक्षे `थलि च सेटी' त्येत्त्वाभ्यासलोपौ। तदाह– सेदिथ ससत्थेति। सेदिव सेदिम। क्रादिनियमादिट्। न्यषीददिति। `प्राक्सितादड्?व्यवायेऽपि'ति षत्वम्।
170 पाघ्राध्मा। पा पाने। पा रक्षणे इति तु न गृह्रते, लुग्विकरणत्वात्। `द्रष्ट्रि' इति केषांचित्पाठस्तत्र `सृजिदृशो'रित्यम्। अर्तीत्यादौ ऋच्छादेशाद्यभाव इव सौत्रत्वात्पश्यादेशाऽभाव इति बोध्यम्। `दृश्यत्र्ती'ति पाठस्तु निर्दुष्ट एव। पादीनामिति। एकादशानामेषां यथासङ्ख्यमेकादश- पिबाद्यादेशाः स्युरित्यर्थः। `ष्ठिवुक्लमुचमा'मित्यतः शितीत्यनुवर्तते। स च कर्मधारय इत्यभिप्रेत्याह– इत्संज्ञकशकारादाविति। शकारादाविति किम् ?। पपे। जिघ्रे। दध्मे। शितीति बहुव्रीहिरित्यभ्युपगमे त्विह पिबाद्यादेशाः स्युरेव।
332) पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः 7-3-78
वृत्तिः पादीनां पिबादयः स्युरित्सञ्ज्ञकशकारादौ प्रत्यये परे । When followed by a प्रत्ययः which begins with शकार: as an इत्, the verbal roots “√पा (पा पाने १. १०७४), √घ्रा (घ्रा गन्धोपादाने १. १०७५), √ध्मा (ध्मा शब्दाग्निसंयोगयोः १. १०७६), √स्था (ष्ठा गतिनिवृत्तौ १. १०७७), √म्ना (म्ना अभ्यासे १. १०७८ ), √दा (दाण् दाने १. १०७९), √दृश् (दृशिँर् प्रेक्षणे १. ११४३), √ऋ (ऋ गतिप्रापणयोः १. १०८६), √सृ (सृ गतौ १. १०८५), √शद् (शद्ऌँ शातने १. ९९१, ६. १६४) and √सद् (षद्ऌँ विशरणगत्यवसादनेषु १. ९९०, ६. १६३)” get “पिब,
जिघ्र, धम, तिष्ठ, मन, यच्छ, पश्य, ऋच्छ, धौ, शीय and सीद” as replacements respectively.
Note: पिबादेशोऽदन्तस्तेन न गुणः। The substitute “पिब” (in place of “पा”) is actually ending in a अकार:। (This अकार: is not उच्चारणार्थ:।) So the उपधा (penultimate letter) in “पिब” is the बकार: and not the इकार:। Thus 7-3-86 (which requires a लघूपधा) cannot do the गुणादेश: for the इकार:।
धातुः आदेशः उदाहरणम्
(१) √पा (पा पाने १. १०७४) पिब पिबति
(२) √घ्रा (घ्रा गन्धोपादाने १. १०७५) जिघ्र जिघ्रति
(३) √ध्मा (ध्मा शब्दाग्निसंयोगयोः १. १०७६) धम धमति
(४) √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) तिष्ठ तिष्ठति
(५) √म्ना (म्ना अभ्यासे १. १०७८ ) मन मनति
(६) √दाण् (दाण् दाने १. १०७९) यच्छ यच्छति
(७) √दृश् (दृशिँर् प्रेक्षणे १. ११४३) पश्य पश्यति
(८) √ऋ (ऋ गतिप्रापणयोः १. १०८६) ऋच्छ ऋच्छति
(९) √सृ (सृ गतौ १. १०८५) धौ धावति
(१०) √शद् (शद्ऌँ शातने १. ९९१, ६. १६४) शीय शीयते
(११) √सद् (षद्ऌँ विशरणगत्यवसादनेषु १. ९९०, ६. १६३) सीद सीदति
उदाहरणम् – पिबति (√पा-धातुः, लँट्, प्रथम-पुरुषः, एकवचनम्)
पा + लँट् 3-2-123 = पा + ल् 1-3-2, 1-3-3
= पा + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= पा + शप् + तिप् 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 = पिब + शप् + तिप् 7-3-78, 1-3-10, 1-1-55 = पिब + अ + ति 1-3-3, 1-3-8 (Note: 7-3-86 does not apply because the उपधा of the अङ्गम् “पिब” is the बकार: and not the इकार:) = पिबति 6-1-97