Table of Contents

<<7-3-76 —- 7-3-78>>

7-3-77 इषुगमियमां छः

प्रथमावृत्तिः

TBD.

काशिका

इषु गमि यम इत्येतेषां शिति परतः छकारादेशो भवति। इच्छति। गच्छति। यच्छति। इषेरुदितो ग्रहणम्। इह मा भूत्, इष्यति, इष्णाति इति। ये तु इषिमुदितं न अधीयते ते इह च सूत्रे अचि इति अनुवर्तयन्ति। तच् च प्रधानम् अज्ग्रहणम् शिति इत्यनेन विशेष्यते इति वर्णयन्ति। तथा च सति तदादिविधिर्न भवति। यस्मिन् विधिस् तदादावल्ग्रहणे इत्येतदपि विशेष्णेन एव इस्यते, तेन इषाण इत्यत्र छत्वं न भवति। न ह्ययम् अजेव शितिति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

506 एषां छः स्यात् शिति. गच्छति. जगाम..

बालमनोरमा

235 इषुगमि। शितीति। `ष्ठिवुक्लमुचमा'मित्यतस्तदनुवृत्तेरिति भावः। उदिन्निर्देशात्तौदादिकस्य इषेग्र्रहणम्। अत्राऽचीत्यनिवर्त्त्य अजादौ शितीत्याश्रित्य इष्यति इष्णाति इत्यत्र छत्वं नेति भाष्ये स्थितम्। एवं चात्र सूत्रे, तुदादौ च उदित्पाठोऽनार्ष इति शब्देन्दुशेखरे स्थितम्। गच्छतीति। शपि मकारस्य छकारः। जग्मतुरिति। `गमहने'त्युपधालोपः। एवं जग्मुः। भारद्वाजनियमात्थलि वेट्। तदाह–जगमिथ जगन्थेति। जग्मथुः जग्म। जगाम– जगम जग्मिव जग्मिम। क्रादिनियमादिट्।

तत्त्वबोधिनी

206 जग्मतुरिति। `गमहने'त्युपधालोपः।

Satishji's सूत्र-सूचिः

340) इषुगमियमां छः 7-3-77
वृत्तिः एषां छः स्‍याच्छिति। When followed by a प्रत्ययः which begins with शकार: as an इत्, the ending letter of the verbal roots √इष् (इषुँ इच्छायाम् ६. ७८), √गम् (गमॢँ गतौ १. ११३७) and √यम् (यमँ उपरमे १. ११३९) gets छकारः as replacement.

गीतासु उदाहरणम् – अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ।। 6-37 ।।
गच्छति (√गम्-धातुः, लँट्, प्रथम-पुरुषः, एकवचनम्)
गम् + लँट् 3-2-123 = गम् + ल् 1-3-2, 1-3-3
= गम् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= गम् + शप् + तिप् 3-1-68, शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= गम् + अ + ति 1-3-3, 1-3-8 = गछ् + अ + ति 7-3-77

Example continued below