Table of Contents

<<7-3-73 —- 7-3-75>>

7-3-74 शमाम् अष्टानां दीर्घः श्यनि

प्रथमावृत्तिः

TBD.

काशिका

शमादीनाम् अष्टानां दीर्घो भवति श्यनि परतः। शम् शाम्यति। तम् ताम्यति। दम् दाम्यति। भ्रम् भ्राम्यति। क्षम् क्षाम्यति। क्लम् क्लाम्यति। मदी माद्यति। अष्टानाम् इति किम्? अस्यति। श्यनि इति किम्? भ्रमति। वा भ्राश इति श्यनो विकल्पः। बभ्राम।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

349 शमामष्टानाम्। स्पष्टम्. बहुवचनाच्छमादिग्रहणम्। तदाह– शमादीनामिति। `शमस्तमुर्दमुरथ श्रमुभ्र्रमुरपि क्षमुः। क्लमुर्मदी चेत्येतेऽष्टौ शमादय इति स्थितिः।' दमु उपशमे इति। ननु `शमु यमु उपशमे' इत्येव पठितुं युक्तमित्यत आह- - उपशम इति ण्यन्तस्येति। शमधातोर्हेतुमण्ण्यन्ताद्धञि `नोदात्तोपदेशस्ये'ति वृद्ध्यभाव इत्यर्थः। ततः किमित्यत आह– तेनेति। ततश्च् दाम्यतीत्यस्य शमयतीत्यर्थः। शेषं भ्वादिवदिति। आद्र्धातुकेषु शप्पक्षे च भ्वादिवदित्यर्थः। क्षमु सहने। ऊदित्त्वात्थलि वमादौ च इड्विकल्पः। तदाह— चक्षमितेत्यादि। षित्त्वाऽषित्त्वयोः फलभेदं श्लोकार्द्धेन संगृह्णाति– अषित इति। अषितः क्षाम्यतेः– श्यन्विकरणपठितस्य क्षमधातोः क्तिनि क्षानतिरिति रूपम्। अषित्त्वात् `षिद्भिदादिभ्यः' इत्यङ्नाक्,मूषस्तु भौवादिकात् षित आत्मनेपदे शपि क्षपि परे इव श्यनि परेऽपि दीर्घसिद्धेः। न च `ष्ठिवुक्लमुचमांशिती'त्यत्रैव क्लमुग्रहणं त्यज्यतामितिवाच्यं, शपि दीर्घार्थं तस्यावश्यकत्वादित्यशङ्क्य परिहरति–शपीव श्यन्यपीत्यादि, घिनुणर्थ इत्यन्तम्। `शमित्यष्टाभ्यो घिनु'णिति विधानादिति भावः। शमादय इति। `शमु उपशमे' इत्यारभ्य `मदी हर्षे' इत्यन्ता अष्टौ शमादयो वृत्ता इत्यर्थः। असु क्षेपणे।

तत्त्वबोधिनी

306 भ्रमु अनवस्थाने। शेषमिति। श्यनि दीर्घो लुङि अङ च विशेष उक्तस्ततोऽन्यदित्यर्थः। चक्षण्वेति। `म्वोश्चे'ति मस्य नत्वे कृते णत्वम्। शमादिपाठ इति। ``शमित्यष्टाभ्यो घिनुण्'। शमादय इति। शमुतमुदमुश्रमुभ्रमुक्षमुक्लमुमद इत्यर्थः।

Satishji's सूत्र-सूचिः

423) शमामष्टानां दीर्घः श्यनि 7-3-74
वृत्तिः शमादीनामष्टानां दीर्घो भवति श्यनि परतः। The eight verbal roots beginning with √शम् (शमुँ उपशमे ४. ९८, तमुँ काङ्क्षायाम् ४. ९९, दमुँ उपशमे ४. १००, श्रमुँ तपसि खेदे च ४. १०१, भ्रमुँ अनवस्थाने ४. १०२, क्षमूँ सहने ४. १०३, क्लमुँ ग्लानौ ४. १०४ and मदीँ हर्षे ४. १०५) take a दीर्घादेश: (elongation) when followed by the श्यन्-प्रत्ययः ।

उदाहरणम् – शाम्यति √शम्-धातुः (दिवादि-गणः, शमुँ उपशमे ४. ९८, धातु-पाठः # ४. ९८), लँट्, कर्तरि-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

The ending उकार: (which is an इत् by 1-3-2) of “शमुँ” has a उदात्त-स्वर: in the धातु-पाठ:। Thus the √शम्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √शम्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default.

शम् + लँट् 3-2-123
= शम् + ल् 1-3-2, 1-3-3
= शम् + ति 3-4-78, 1-4-101, 1-4-102, 1-4-108, ति gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= शम् + श्यन् + ति 3-1-69, श्यन् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= शम् + य ति 1-3-3, 1-3-8
= शाम्यति 7-3-74