Table of Contents

<<7-3-72 —- 7-3-74>>

7-3-73 लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये

प्रथमावृत्तिः

TBD.

काशिका

दुह दिह लिह गुह इत्येतेषाम् अङ्गानाम् आत्मनेपदे दन्त्यादौ परतः क्षस्य वा लुग् भवति। अदुग्ध, अधुक्षत। अधुग्धाः, अधुक्षथाः। अदुग्ध्वम्, अधुक्षध्वम्। अदुह्वहि, अधुक्षावहि। दिह अदिग्ध, अधिक्षत। लिह अलीढ, अलिक्षत। गुह न्यगूढ, न्यघुक्षत। दुहादीनाम् इति किम्? व्यत्यपुक्षत। आत्मनेपदे इति किम्? अधुक्षत्। दन्त्ये इति किम्? अधुक्षामहि। लोप इति वर्तमाने लुग्ग्रहणं सर्वादेशार्थम्। तच् च बह्यर्थम्। अन्यत्र तु अन्त्यस्य एव लोपे कृते झलो झलि 8-2-26 इति सकारलोपेन सिध्यति। स्थानिवद्भावो ऽपि अकारलोपस्य न अस्ति, पूर्वत्र असिद्धे न स्थानिवतिति। दन्त्योष्ठो ऽपि वकारो दन्त्य इति गृह्यते। यदि स न गृह्येत ततः तौग्रहणम् एव अत्र कृतं स्यात्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

594 एषां क्सस्य लुग्वा स्याद्दन्त्ये तङि. अदुग्ध, अधुक्षत..

बालमनोरमा

202 लुङस्तङि विशेषमाह–लुग्वा दुह। दन्त्ये तङीति। दन्त्यादौ तङीत्यर्थः। प्रत्ययाऽदर्शनत्वात्सर्वादेशोऽयं लुक्। अगूढेति। अगुह् त इति स्थिते प्रक्रियां दर्शयति–ढत्वधत्वष्टुत्वढलोपदीर्घा इति। अघुक्षतेति। क्सलुगभावे ढत्वभष्भावकत्वषत्वानीति भावः। अघुक्षातामिति। च्लेः क्सादेशे क्सस्य कित्त्वेन गुणहेतुत्वाऽभावादूत्त्वाऽभावेढत्वभष्भावकत्वषत्वेषु कृतेषु `क्सस्याची'त्यन्तलोपे अतः परत्वाभावादातो ङित इति न भवतीति भावः। अघुक्षन्तेति। झस्य अजादित्वाऽभावात्तस्मिन्परे क्सस्य अन्त्यलोपाऽभावादतः परत्वाऽभावादात्मनेपदेष्वत इत्यदादेशो न भवति। कृते तु झोऽन्तादेशे क्सस्याऽन्तलोप इति भावः। अघुक्षथाः काघुक्षाथाम् अघुक्षध्वम्। अघुक्षि। इति रूपाणि सिद्धवत्कृत्याह– अगुह्वहीति। दन्त्यादिप्रत्ययपरत्वत्क्सस्य लुङि अजादिप्रत्ययाऽभावादूत्त्वाऽभावे रूपम्। अघुक्षावहीति। क्स्लुगभावे ढत्वभष्भावकत्वषत्वानि, अतो दीर्घश्च। अघुक्षामहीति।दन्त्यादिप्रत्ययपरत्वाऽभावान्न क्सलुक्। इतिगूहत्यन्ताः स्वरितेतः। उभयपदिन इति। ञित्त्वादिति भावः। श्रिञ्धातुः सेट्। शिश्रियतुरिति। कित्त्वान्न गुणः। इयङ् शिश्रियुः। शिश्रयिथ शिश्रियथुः शिश्रिय। शिश्राय–शिश्रय, शिश्रियिव शिश्रियिम। शिश्रिये शिश्रियाते शिश्रियिरे। शिश्रयिषे शिश्रयाथे शिश्रियिढ्वे– शिश्रियिध्वे। शिश्रियेशिश्रियिवहे शिश्रयिमहे। श्रयितेति। श्रयिष्यति श्रयिष्यते। श्रयतु श्रयताम्। अश्रयत् अश्रयत। श्रयेत्। श्रीयात्। श्रयिषीष्ट। लुङि विशेषमाह- - णिश्रीति। अशश्रियदिति। `चङी'ति द्वित्वम्। अशिश्रियत। अश्रयिष्यत् अश्रयिष्यत। भृञ् धातुरनिट्। भरतीति। भरते इत्यपि ज्ञेयम्। बभ्रतुरिति। कित्त्वान्न गुणः। यण्। बभ्रुः। थलादौ `एकाचः' इति नेट्, कृसृभृवृस्तुद्रुरुआउश्रुषु लिट\उfffद्पि तन्निषेधस्य प्रवृत्तेः। थलि `अचस्तास्व'दिति निषेधाच्च, ऋदन्तेषु भारद्वाजमतेऽपि थलि निषेधाच्च। तदाह–बभर्थेति। बभ्रथुः बभ्र। बभार-बभर। इति सिद्धवत्कृत्याह- - बभृवेति। बभृम। बभ्रे बभ्राते बभ्रिरे। इति सिद्धवत्कृत्याह– बभृषे इति। बभ्राथे बभृढ्वे। बभ्रे बभृवहे बभृमहे।

तत्त्वबोधिनी

175 दन्त्ये तङीति। दन्त्यादौ तङीत्यर्थः। अदुग्ध। अधुक्षत। अदिग्ध। अधिक्षत। अलीढ। अलिक्षतेत्यादि।

Satishji's सूत्र-सूचिः

वृत्ति: क्सस्य लुग्वा स्याद्दन्त्ये तङि । When following the verbal root √दुह् (दुहँ प्रपूरणे २. ४), √दिह् (दिहँ उपचये २. ५), √लिह् (लिहँ आस्वादने २. ६) or √गुह् (गुहूँ संवरणे १. १०४३), the affix “क्स” optionally takes the लुक् elision, when followed by a तङ् affix beginning with a dental.
Note: This optional लुक् elision also takes place when the affix begins with a वकारः (because the वकारः is a combination of dental and labial.) Thus there are a total of four तङ् affixes which begin with a dental – “त”, “थास्” “ध्वम्” and “वहि”।

उदाहरणम् – अदुग्ध/अधुक्षत derived from √दुह् (दुहँ प्रपूरणे २. ४). विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
Note: The ending अकारः (which is a इत्) of “दुहँ” has a स्वरित-स्वरः, hence √दुह् is उभयपदी। Now, let us consider the case where a आत्मनेपद-प्रत्ययः is used.

दुह् + लुँङ् 3-2-110 = दुह् + ल् 1-3-2, 1-3-3, 1-3-9
= दुह् + त 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-72
= दुह् + च्लि + त 3-1-43. 7-2-10 stops 7-2-35
= दुह् + क्स + त 3-1-45. Note: Since “क्स” is a कित्-प्रत्ययः, 1-1-5 stops 7-3-86
= दुह् + त optionally “क्स” takes the लुक् elision by 7-3-73, 1-1-61
= अट् दुह् + त 6-4-71, 1-1-46
= अ दुह् + त 1-3-3, 1-3-9
= अ दुघ् + त 8-2-32
= अ दुघ् + ध 8-2-40
= अदुग्ध 8-4-53

The alternate form (when the affix “क्स” does not take the लुक् elision) is अधुक्षत। It is derived similar to the form अधुक्षत् shown under 3-1-45.

Similarly the forms for उत्तम-पुरुषः, द्विवचनम् are अदुह्वहि/अधुक्षावहि। Note: In the form अधुक्षावहि 7-3-101 अतो दीर्घो यञि is used.