Table of Contents

<<7-3-74 —- 7-3-76>>

7-3-75 ष्ठिवुक्लम्याचमां शिति

प्रथमावृत्तिः

TBD.

काशिका

ष्थिवु क्लमि आचम् इत्येतेषां दीर्घो भवति शिति परतः। ष्थीवति। क्लमु क्लामति। आचम् आचामति। क्लमिग्रहणम् शबर्थम्। चमेराङ्पूर्वस्य ग्रहणम्। इह मा भूत्, वमति। विचमति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

160 ष्ठिवुक्लम्वाच। `शमामष्टानां दीर्घः श्यनी'त्यतो दीर्घ इत्यनुवर्तते। दीर्घश्रुत्या अच इत्युपस्थितम्। तदाह—- एषामचो दीर्घ इति। ष्टिवु क्लमु आचम् एषां द्वन्द्वः। आचमित्यनेन आङपूर्वकस्य चमेग्र्रहणम्?। अचमीदिति। `ह्म्यन्ते'ति न वृद्धिः। क्रमु पादेति। उदित्त्वमुदितो वेति विकल्पार्थम्।

तत्त्वबोधिनी

134 ष्ठिवुक्लमु। ष्ठीवति। क्लामति। आङि चम इति। `ष्ठिवुक्लम्वाचमा'मिति वृत्तिकारोक्तपाठोऽयुक्त इति भावः। जिमिं केचिदिति। तथा च जेमनमिति भोजने प्रयुञ्जते।

Satishji's सूत्र-सूचिः

TBD.