Table of Contents

<<7-1-35 —- 7-1-37>>

7-1-36 विदेः शतुर् वसुः

प्रथमावृत्तिः

TBD.

काशिका

विद ज्ञाने इत्येतस्माद् धातोरुत्तरस्य शतुः वसुरादेशः भवति। विद्वान्, विद्वांसौ, विद्वांसः। स्थानिवद्भावादुगित्कार्ये सिद्धे वसोः उकारकरणं वसोः सम्प्रसारणम् 6-4-131 इत्यत्र क्वसोरपि सामान्यग्रहणार्थम्। एकानुबन्धकग्रहणे न द्व्यनुबन्धकस्य इत्येतदपि न भवति। तथा सति उकारकरणम् अनर्थकं स्यात्। अन्यतरस्यांग्रहणं केचिदनुवर्तयन्ति। विदन्, विदन्तौ, विदन्तः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

836 वेत्तेः परस्य शतुर्वसुरादेशो वा. विदन्. विद्वान्..

बालमनोरमा

907 विदेः शतुर्वसुः। वेत्तेरिति। `विद ज्ञाने' इति लुग्विकरणस्यैव ग्रहणम्, शतुः परस्मैपदत्वात्, विद्यतेर्विन्त्तेश्चात्मनेपदित्वात्। यद्यपि विन्दतिरुभयपदी, तथापि तस्य ग्रहणं, `निरनुबन्धकग्रहणे न सानुबन्धकस्ये'त्युक्तेरिति भावः। वा स्यादिति। `तुह्रोस्तात'ङ्ङित्यतस्तदनुवृत्तेरिति भावः। विदुषीति। उगित्त्वान्ङीप्, वनसोः संप्रसारणं, पूर्वरूपम्, षत्वम्।

तत्त्वबोधिनी

746 विदेः। स्थानिवत्त्वादेव सिद्धे वसोरुगित्करणं `वसोः संप्रसारण'मित्यत्र क्वसोरपि सामान्यग्रहणार्थम्। तत्सामथ्र्याच्च `एकानुबन्धग्रहणे न द्वयनुबन्धकस्ये'त्येतदपि न प्रवर्तते।

Satishji's सूत्र-सूचिः

Video

वृत्तिः वेत्तेः परस्‍य शतुर्वसुरादेशो वा । When following a अङ्गम् consisting of the verbal root √विद् (विदँ ज्ञाने २. ५९), the affix ‘शतृँ’ is optionally replaced by a ‘वसुँ’।

उदाहरणम् – वेत्तीति विदन् । विद्वान् ।

The प्रातिपदिकम् ‘विदत्’ is derived from the verbal root √विद् (विदँ ज्ञाने २. ५९)
विद् + लँट् 3-2-123
= विद् + ल् 1-3-2, 1-3-3, 1-3-9
= विद् + शतृँ 3-2-126, 1-3-78, 1-4-99. We are considering the case where the optional substitution ‘वसुँ’ (in place of ‘शतृँ’) by 7-1-36 is not done.
= विद् + अत् 1-3-2, 1-3-8, 1-3-9
= विद् + शप् + अत् 3-1-68
= विद् + अत् 2-4-72. The सार्वधातुक-प्रत्यय: ‘अत्’ is अपित् and hence behaves ङिद्वत् by 1-2-4. This allows 1-1-5 to stop 7-3-86.
= विदत् । ‘विदत्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

The विवक्षा is पुंलिङ्गे प्रथमा-एकवचनम्।
विदत् + सुँ 4-1-2
= विदत् + स् 1-3-2, 1-3-9
= विद नुँम् त् + स् 7-1-70, 1-1-47
= विद न् त् + स् 1-3-2, 1-3-3, 1-3-9
= विद न् त् 6-1-68
= विदन् 8-2-23. After this 8-2-7 cannot apply because of 8-2-1.

The प्रातिपदिकम् ‘विद्वस्’ is derived from the verbal root √विद् (विदँ ज्ञाने २. ५९)
विद् + लँट् 3-2-123
= विद् + ल् 1-3-2, 1-3-3, 1-3-9
= विद् + शतृँ 3-2-124, 1-3-78, 1-4-9. ‘शतृँ’ has the सार्वधातुक-सञ्ज्ञा by 3-4-113. Since ‘शतृँ’ is अपित् and hence behaves ङिद्वत् by 1-2-4.
= विद् + अत् 1-3-2, 1-3-8, 1-3-9
= विद् + शप् + अत् 3-1-68
= विद् + अत् 2-4-72
= विद् + वसुँ 7-1-36, 1-1-55. Note: As per 1-1-56, ‘वसुँ’ also has the सार्वधातुक-सञ्ज्ञा and behaves ङिद्वत्। Since ‘वसुँ’ has the सार्वधातुक-सञ्ज्ञा there is no question of applying 7-2-35 (which requires a आर्धधातुक-प्रत्यय:)। And ‘वसुँ’ being ङिद्वत् allows 1-1-5 to stop 7-3-86.
= विद् + वस् 1-3-2, 1-3-9
= विद्वस् । ‘विद्वस्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

The विवक्षा is पुंलिङ्गे प्रथमा-एकवचनम्।
विद्वस् + सुँ 4-1-2
= विद्ववस् + स् 1-3-2, 1-3-9
= विद्वन्स् + स् 7-1-70, 1-1-47, 1-3-2, 1-3-3, 1-3-9
= विद्वान्स् + स् 6-4-10
= विद्वान्स् 6-1-68
= विद्वान् 8-2-23. After this 8-2-7 cannot apply because of 8-2-1.