TBD.
आकारान्तादङ्गादुत्तरस्य णलः औकारादेशो भवति। पपौ। तस्थौ। जग्लौ। मम्लौ। अत्र औत्वम्, एकादेशः , स्थानिवद्भावः, द्विर्वचनम् इत्यनेन क्रमेण कार्याणि क्रियन्ते। एकादेशादनवकाशत्वादौत्वं द्विर्वचनादपि परत्वादेकादेशः इति।
TBD.
490 आदन्ताद्धातोर्णल औकारादेशः स्यात्. पपौ..
208 तथा च प्रकृते लिटि द्वित्वादौ दधा अ इति स्थिते–आत औ। `औ' इति लुप्तप्रथमाकम्। अङ्गस्येत्यधिकृतं पञ्चम्या विपरीणम्यते। `आत' इति तद्विशेषणम्। तदन्तविधिः। तदाह–आदन्ताद्धातोरिति। णल्?प्रकृतिश्च धातुरेवेति धातुग्रहणम्। तथा च णल औत्वे वृद्धौ रूपमाह– दधाविति।
180 आत औ णलः। इह अङ्गस्येत्यनुवर्तते। धातोरिति तु फलितार्थकथनम्। आदन्तादङ्गादित्यर्थः।
वृत्तिः आदन्ताद्धातोर्णल औकारादेशः स्यात्। The “णल्”-प्रत्यय: is substituted by a औकार:, when it follows a धातु: that ends in a आकार:।
गीतासु उदाहरणम् – दध्मौ (ध्मा शब्दाग्निसंयोगयोः १. १०७६, लिँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्)।
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् || 1-12||
ध्मा + लिँट् 3-2-115
= ध्मा + ल् 1-3-2, 1-3-3, 1-3-9
= ध्मा + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= ध्मा + णल् 3-4-82, 1-1-55
= ध्मा + औ 7-1-34
= ध्मा ध्मा + औ 6-1-8. Note: As per 1-1-59, we apply 6-1-8 before applying 6-1-88.
= धा ध्मा + औ 7-4-60
= ध ध्मा + औ 7-4-59
= धध्मौ 6-1-88
= दध्मौ 8-4-54