Table of Contents

<<6-4-87 —- 6-4-89>>

6-4-88 भुवो वुग् लुङ्लिटोः

प्रथमावृत्तिः

TBD.

काशिका

भुवो वुगागमो भवति लुङि लिटि च अजादौ परतः। अभूवन्। अभूवम् लिट् बभूव, बभूवतुः, बभवुः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

395 भुवो वुगागमः स्यात् लुङ्लिटोरचि॥

बालमनोरमा

24 भुवो वुक्। अचीति। `अचि श्नुधात्वि'त्यतस्तदनुवृत्तेरिति भावः। अचीति किम् ?। अभूत्। ननु णलि परत्वाद्वुकं बाधित्वा `अचो ञ्णिती'ति वृद्धिः स्यात्, बभूविथेत्यत्र तु `सार्वधातुकाद्र्धधातुकयो'रिति गुणः स्यादित्यत आह– नित्यत्वादिति। कृतयोरपि गुणवृद्ध्योरेकदेशविकृतन्यायद्वुक् प्रवर्तते, अकृतयोरपि प्रवर्तते। ततश्च `कृताऽकृतप्रसङ्गी यो विधिः स नित्य' इति न्यायेन वुङ् नित्यः सन् गुणवृद्धी बाधत इत्यर्थः। वुकि ककार इत्, उकार उच्चारणार्थः। कित्त्वादन्तावयवः।

तत्त्वबोधिनी

20 `अचि श्नुधात्वि'ति सूत्रादचीत्यनुवर्तते। तदाह– लुङ्लिटोरचीति। अचीति किम्। अभूत् अभूः। वुकि सति `लोपो व्यो'रिति लोपं बाधित्वा परत्वाद्धल्ङ्यादिलोपः स्यात्। ननु हल्ङ्यादिलोपादन्तरङ्गत्वात् `लोपो व्यो'रिति लोप एव भविष्यति। तथा च मव्यतेर्लङ्लुगन्ताल्लङि तिप्सिपोः अमामत् अमाम इत्यत्र व्योर्लोप एव माधवादिभिः स्वीकृतः। एवं चाऽज्ग्रहणम् `ऊदुपधाया' इत्युत्तरार्थमनुवर्तमानमिहाप्युपरञ्जकतया वृत्तिकारादिभिर्योजितं न त्वावस्यकतयेत्येव निष्कर्ष उचित इति चेत्। अत्राहुः- - `भुवो वुगि त्यस्याङ्गत्वाह्वपेक्षत्वेन हल्ङ्यादिलोपस्येव वुकोऽपि बहिरङ्गतयाऽसिद्धत्वे सति वलिलोपस्य प्राप्तेरेवाऽभवादज्ग्रहणमिहार्थमपीत्येव युक्तमिति। अयं च शङ्काग्रन्थः, समाधानग्रन्थश्च मनोरमायां स्थितः। अत्र नव्याः- - मव्यतिर्यङ्?लुगन्त एव नास्ति, णमामदित्यादि रूपं तु दूरादपास्तमेव, `यकारवकारान्तानामूठ्भाविनां यङ्लुग्नास्ती'ति `छ्वोः शू'डिति सूत्रे भाष्ये ध्वनितम्, कैयटेन च स्पष्टीकृतम्। इदं च छ्वोरिति यत्रोठ् तद्विषयकं, `ज्वरत्वरे' त्यूठ्भाविनोः रिउआविमव्योस्तु यङ्लुगस्त्येवेति न्याय्यं, माधवादिसंमतं च। `मव्य बन्धने' अयं य#आन्त ऊठ्भावी' ति मूले वक्ष्यमाणत्वात्। तथा च तद्ग्रन्थेन सहात्रत्यमनोरमाग्रन्थो विरुध्यत इत्याहुः। यदि तु मवतेर्यङ्लुगन्तादिति मनोरमायां पठ\उfffद्ते तदा तत्र पूर्वाऽपरग्रन्थविरोधो नास्तीति दिक्॥

Satishji's सूत्र-सूचिः

वृत्तिः भुवो वुगागमः स्‍यात् लुङि्लटोरचि । “भू” gets the augment “वुक्” when a vowel-beginning affix of लुँङ् or लिँट् follows.

Example continued from above -

भू + अ At this stage the question arises as to whether 7-2-115 (which is a later rule in the अष्टाध्यायी) should be applied or 6-4-88 should be applied. 6-4-88 is an invariable rule (नित्य-कार्यम्) because it applies regardless of whether 7-2-115 applies or not. On the other hand, 7-2-115 cannot apply once 6-4-88 has applied. Hence 6-4-88 takes precedence as per the following maxim – पूर्वपरनित्यान्तरङ्गापवादानाम् उत्तरोत्तरं बलीय:। = भू वुक् + अ 6-4-88, 1-1-46 = भूव् + अ 1-3-3, 1-3-9. Note: The उकार: in “वुक्” is उच्चारणार्थ: (for pronunciation only.)

Example continued in 6-1-8.