Table of Contents

<<6-4-77 —- 6-4-79>>

6-4-78 अभ्यासस्य असवर्णे

प्रथमावृत्तिः

TBD.

काशिका

अभ्यासस्य इवर्णोवर्णान्तस्य अवसर्णे ऽचि परतः इयङुवङित्येतावादेशौ भवतः। इयेष। उवोष। इयर्ति। असवर्णे इति किम्? ईषतुः। ईषुः। ऊषतुः। ऊषुः। अचि इत्येव, इयाज। उवाप।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

582 अभ्यासस्य इवर्णोवर्णयोरियङुवङौ स्तोऽसवर्णेऽचि. इयाय..

बालमनोरमा

134 लिटि णलः पित्त्वेन कित्तवाऽभावात्प्राप्तस्यापि लघूपधगुणस्य `द्विर्वचनेऽचीति' निषिद्धतया गुरुमत्त्वाऽभावादामभावे सति पूर्वं द्वित्वे कृते हलादिशेषे पश्चात् `वार्णादाङ्गं बलीय' इति परिभाषाया अन्तरङ्गमपि सवर्णदीर्गं बाधित्वा लघूपधगुणे कृते उ ओख अ इति स्थिते, उवर्णस्य यणि प्राप्ते– अभ्यासस्य। `अचि श्नुधात्वि' त्यतोऽचीति, य्वोरियङुवङाविति चानुवर्तते। इश्च उश्च यू, तयोरिति विग्रहः। अभ्यासविशेषणमिदं ! तदन्तविधिः। तदाह–इवर्णोवर्णान्तरस्येति। ङित्त्वादन्तादेशौ। उवोखेति। `अचि श्नुधात्वि'त्यस्य तु नात्र प्राप्तिः, अजादौ प्रत्यये परत एव तत्प्रवृत्तेः, अभ्यासस्य अङ्गत्वाऽभावाच्च। ननु द्वित्वे कृते लघूपधगुणे सति इजादिगुरुमत्त्वादाम् स्यादित्यत आह–संनिपातेति। णलि परे विहितगुणसंपन्नामिजदिगुरुमत्त्वमाश्रित्य आमं गुणो न प्रवर्तयति, आमि सति धातोर्णल्परकत्वव्याघातादिति भावः। ऊखतुरिति। अपित्त्वेन कित्त्वाल्लघूपधगुणाऽभावे द्वित्वे हलादिशेषे सवर्णपरकत्वादभ्याससस्याऽसवर्ण इति इयङभावे सवर्णदीर्घे रूपमिति भावः। ननु `ऊखतु'रित्यत्र ऊकारस्य सवर्णदीर्घसंपन्नस्य एकादेशतया पूर्वान्तत्वेनाऽभ्याससंबन्धित्वात् `ह्यस्व' इत्यभ्यासस्याऽचो विधीयमानो ह्यस्वः प्राप्नोतीत्याशङ्कते– इहेति। अथ परहरति– न भवतीति। कुत इत्यत आह- - सकृत्प्रवृत्तत्वादिति। तदेवोपपादयति–आङ्गत्वादिति।उ-उखतुरिति स्थिते पर्जन्यवल्लक्षणप्रवृत्त्या अभ्यासह्यस्वे सवर्णदीर्घे `ऊखतु'रिति स्थितिः। तत्र ऊकारस्य पुनरभ्यासह्यस्वो न भवति। `लक्ष्ये लक्षणस्य सकृदेव प्रवृत्ति'रिति न्यायादित्यर्थः। ननु वर्णमात्रापेक्षत्वेनाऽन्तरङ्गतया प्रथमं सवर्णदीर्घ एव स्यादिति ह्यस्वस्य प्रथमं प्रवृत्तिर्दुरुपपादेत्यत आह–वार्णादिति। तथा चानया परिभाषया बहिरङ्गोऽपि ह्यस्व एव प्रथमं प्रवर्तत इति भावः। परत्वाच्चेति। नन्विदमनुपपन्नम्, उक्तरीत्या अन्तरङ्गं सवर्णदीर्घं प्रति ह्यस्वस्य परत्वकथनाऽनौचित्यादिति चेन्न, परत्वादित्यस्य परकालप्राप्तकत्वादित्यर्थात्। अभ्यासविकारेषु परस्परं बाध्यबाधकभावाऽभावेन युगपदेव हलादिशेषे ह्यस्वे च कृते पश्चात्प्रवर्तमानस्य सवर्णदीर्घस्य पूर्व पूर्वमन्तरङ्गं, परं परं बहिरङ्ग'मिति न्यायेन बहिरङ्गत्वादित्यलम्। उङ्खतीति। इदित्त्वान्नुम्। ववाखेति। वखधातोर्णलि उपधावृद्धिः। ववखतुरिति। वादित्वादेत्त्वाभ्यासलोपौ न। वङ्खतीति। वखिधातोरिदित्त्वान्नुम्। ववङ्ख। मेखतुरिति। एत्त्वाभ्यासलोपौ। [मङ्खतीति। मखिधातोरिदित्त्वाभ्यासलोपौ न। ममङ्खेति। संयुक्तहल्मद्यस्थत्वादेत्वाभ्यासलोपौ न। नखति नङ्खतीति। `णो नः' इति नत्वम्। रखतीति। णलि तु उपधावृद्धिः। रराख। अतुसादावेत्वाभ्यासलोपौ–रेखतुरित्यादि। रङ्खतीति। इदित्त्वान्नुम्। ररङ्ख। एखतीति। इखधातोः शपि लघूपधगुणः। इयेख। ईखतुः। इङ्खतीति। इदित्त्वान्नुम्। इङ्खांचकार। ईङ्खतीति. अलधूपधत्वान्न गुणः। ईङ्खाचकार। वल्गतीति। लिटि ववल्ग ववल्गतुः। रङ्गतीति लङ्गतीति। ररङ्गतुः। अङ्गतीति। लिटि–आनङ्ग। वङ्गतीति। लिटि- - ववङ्ग ववङ्गतुः। मङ्गतीति। लिटि–ममङ्ग ममङ्गतुः। तङ्गतीति। लिटि–ततङ्ग ततङ्गतुः। त्वङ्गतीति। लिटि तत्वङ्ग तत्वङ्गतुः। श्रङ्गतीति। लिटि–शश्रङ्ग शश्रङ्गतुः। श्लङ्गतीति। लिटि–शश्लङ्ग शश्लङ्गतुः। इङ्गतीति। लिटि इङ्गांचकार। रिङ्गतीति। लिटि–रिरिङ्ग रिरङ्गतुः। लिङ्गतीति। अथखान्तेषु रिखादिचतुर्णां मतान्तरसिद्धानामुदाहरणमाह– रेखतीति। शपि लघूपधगुणः। रिरेख रिरिखतुः। त्रखतीति। लिटि– तत्राख तत्रखतुः। त्रिङ्खतीति। लिटि– तित्रिङ्ख त्रित्रङ्खतुः। शिङ्खतीति। लिटि शिशिङ्ख शिशिङ्खतुः। त्वगि कम्पने चेति। चाद्गतौ। त्वङ्गति तत्वङ्ग। युगीति। त्रयोऽपि इदितः। युङ्गति बुङ्गति जुङ्गति। घघ हसने इति। घघति। णलि उपधावृद्धिः। जघाघ जघघतुः। लिण्निमित्तादेशादित्वादेत्त्वाभ्यासलोपौ न। मघि मण्डन इति। इदित्त्वान्नुमित्याह– मङ्घतीति। ममङ्घ ममङ्घतुः। शिघि आघ्राण इति। शिङ्घति शिशिङ्घ। फक्कादयः पञ्चाशद्गताः। वर्च दीप्ताविति। दीप्तिः- प्रकाशः। षच सेचन इति। अच्परकसादित्वात् षोपदेशोऽयम्। स्वरितेत्सु `षच समवाये' इति वक्ष्यते। सेच इति. सत्वस्य लिण्निमित्तत्वाऽभावादादेशादित्वेऽपि एत्वाभ्यासलोपौ। दम्भः शाठ\उfffद्ं चेति। परविरुआम्भार्थ धर्माद्याचरणं दम्भः– कापट\उfffदाऽपरपर्यायः। `कपटोऽस्त्री व्याजदम्भोपधयःर' इत्यमरः। शाठ\उfffद्ं कुटिलीभावः। `निकृतस्त्वनृजुः शठः' इत्यमरः। पचि व्यक्तीकरम इति। `पचि विस्तारे' इति चुरादौ वक्ष्यते। `पचे'त्येके। ष्टुच प्रसाद इति। ष्टुत्वसंपन्नष्टकारः। ततश्च दन्त्यपरकसादित्वात् षोपदेशोऽयम्। स्तोचत इति। षस्य सत्वे सति ष्टुत्वं निवर्तत इति भावः। तुष्टुचे इति। `सर्पूर्वाः खयः' इति तकारशेषः। आदेशसकारत्वात् षत्वम्। ऋज गतीति। अर्जनं—संपादनम्। उपार्जनं–सेवनम्। `ऊर्जनेष्वि'त्यन्ये। अर्जत इति। शपि लघूपधगुणः। रपरत्वम्। नुड्विधाविति। वार्तिकमिदम्। आनृज इति। लिटोऽसंयोगादिति कित्त्वाद्गुणाऽभावे द्वित्वे उदरत्वे रपरत्वे हलादिः शेषे अत आदेरिति दीर्घे नुडिति भावः। ऋजी भृजी इति।ऋदुपधौ द्वौ। आद्य इदित्। द्वितीयस्य ईदित्त्वात् `\उfffदाईदितो निष्ठाया'मिति नेट्। इदित्त्वान्नुम्। अनुस्वारपरसवर्णौ। ऋञ्जांचक्र इति। नुमि सति `संयोगे गुर्वि'ति ऋकारस्य गुरुत्वादिजादेश्चेत्याम्। ऋञ्जिता। ऋञ्जिष्यते। ऋञ्जताम्। आर्ञ्जत। ऋञ्जेत। ऋञ्जिषीष्ट। अथ लुङि रूपं दर्शयति– आर्ञ्जिष्यत। भर्जत इति। शपिलघूपधगुणः। रपत्वम्। बभृजे। भर्जिता। भर्जिष्यते। भर्जताम्। अभर्जत। भर्जेत। भर्जिषीष्ट। लुङि रूपमाह– अभर्जिष्टेति। लुङस्तादेशः। च्लिः सिच्। इट्। गुणः। रपरत्वम्। अडागमः। षत्वं। ष्टुत्वम्। लृङि–अभर्जिष्यत। एजृ भ्रेजृ भ्राजृ इति। आद्ययोरृदित्वं `नाग्लोपी'त्यर्थम्। तृतीयस्य तु अकारेत्कत्वेऽप्यात्मनेपदं सिध्यति। ऋदित्त्वस्य न किञ्चित्फलमस्ति। न च `नाग्लोपी'ति चङ्परे णौ उपधाह्यस्वः फलं भवितुमर्हति, `भ्राजभासे'त्यादिना तत्र उपधाह्यस्वविकल्पस्य वक्ष्यमाणत्वात्। ईज गतीति। अलघूपधत्वान्न गुणः। ईजते। ईजांचक्र इति। इजादेश्चेत्याम्। वर्चादय एकविंशतिर्वृत्ताः। द्विसप्ततिरिति। `चवर्गीयान्ता' इति शेषः। शुच शोक इति। स्मृत्वा क्लेशः– शोकः। शोचतीति। वियुक्तं पित्रादिकं स्मृत्वा क्लिश्नातीत्यर्थः। कुच शब्द इति। शब्दनं शब्दः। चुकोच चुकुचतुः। अकोचीत्। कुञ्च क्रुञ्चेति। उभावपि चवर्गपञ्चमोपधौ। कुञ्चतौ अनुस्वारपरसवर्णसंपन्नस्य नकार्थानिकञकारस्य धातुपाठे निर्देशः। धातुपाठे`नकारजावनुस्वारपञ्चमौ' इत्यभियुक्तवादात्। तदाह–अनिदितामिति। अनुस्वारपरसवर्णयोरसिद्धतया नकारस्य सत्त्वेन आशीर्लिङि `अनिदिता'मिति नलोपे कुच्यादिति रूपमतित्यर्थः। लिटि तु चुकुञ्च चुकुञ्चतुरित्यादौ पित्त्वेन संयोगात्परत्वेन च कित्त्वाऽभावान्नलोपो न भवति। क्रुञ्चधातुस्तु स्वाभाविकञकारोपध एव, न त्वनुसारपरसवर्णसंपन्नञकारोपध इति `परेश्च घाङ्कयो'रिति सूत्रे भाष्यकैयटयोः स्थितम्। अतस्तस्याशीर्लिङि `अनिदिता'मिति नलोपः। तदाह–लुच्यादिति। एवमञ्चुधातोरपि द्रष्टव्यम्। पूजायां त्विति। `नाञ्चेः पूजाया'मिति निषेधादिति भावः। वञ्चु चञ्चु तञ्चु इति। आद्याः षट् नोपधाः। अनुस्वारपरसवर्णाभ्यां ञकारनिर्देशः। तथा च तेषामाशीर्लिङि `अनिदिता'मिति नलोपः। तदाह–वच्याद#इति। लुङि अम्रुञ्चीत्। अम्लुञ्चीदिति नोपधयो रूपम्। सिज्लोपः।

तत्त्वबोधिनी

108 असवर्णे किम् ?। ऊखतुः। अचि किम्?। इयाज, उवाय। उवोखेति। `द्विर्वचनेऽची'ति निषेधात्पूर्वं द्वित्वं, पश्चादुकारस्य लघूपधगुणेकृते अभ्यासस्योवङ्। एवमियेषेत्यत्रेयङ्। असवर्णग्रहणसामथ्र्यादियङादौ कर्तव्ये गुणोऽत्र न स्थानिवदिति बोध्यम्। संनिपातपरिभाषयेति। आमि सति लिट्परत्वं धातोर्न सिध्येदिति भावः। अन्ये तु – `इजादे'रिति सूत्रे गुरुमानिति नित्ययोगे मतुप्। ततश्च नित्यं यो गुरुमान् `एध वृद्धौ' इत्यादिस्तत्रैव स्यादिति नात्र आमः प्रसक्तिरित्याहुः। ऊखतुरिति। अत्र कित्त्वाद्गुणाऽभावे `अब्यासस्यासवर्णे' इति उवङ् न भवति। ननु इयेष उवोखेत्यत्राप्यन्तरङ्गत्वात्सवर्णदीर्घे कृतेऽच्परत्वाभावादियङुवङौ न स्त इतीष्टरूपाऽसिद्धेः किं तन्नाऽसवर्णग्रहणेनेति चेत्। अत्राहुः– `वार्णादाङ्गं बलीयः' इति परिभाषाज्ञापनार्थमेवाऽसवर्णग्रहणं कृतम्। तेन भवतीत्यत्रान्तरङ्गमपि यणं बाधित्वा गुणो भवति। तथा करोतेर्घञि `कार' इत्यत्र यणं बाधित्वा वृद्धिर्भवति। नचैवं सिवेरौणादिके नप्रत्ययेयस्त्वात्। इह तु निमित्तभेदेन व्याश्रयत्वमिति। अभ्यासग्रहणेनेति। पूर्वस्यान्तवत्त्वेनेत्यर्थः। पर्जन्यवल्लक्षणेति। उपयोगाऽनुपयोगाऽव#इचारेण प्रवर्तमानं शास्त्रं ह्यस्वस्थानेऽपि ह्यस्वं प्रवर्तयीत्यथः। तथा चैक\उfffद्स्मल्लक्ष्ये लक्षणं सकृदेव प्रवर्तत इति न तस्य पुनः प्रवृत्तिरिति भावः। आङ्गं बलीय इति। नन्वत्र ह्यस्वसवर्णदीर्घयोर्निमित्तभेदात्समानाश्रयत्वाऽभावे कथमाङ्गस्य बलीयस्त्वमितिचेत्। सत्यम्। इष्टानुरोधेन स्थानिनमादाय क्वचित्समानाश्रयत्वाभ्युपगमात्। अत एव उङ्शब्दे इत्यस्माल्लिटि ऊवे ऊवाते इत्यादीष्टं सिध्यति। उवङः प्राक् सवर्णदीर्घप्रवृत्तौ तन्न सिध्येदिति दिक्। परत्वाच्चेति। आपाततोऽयं हेतुः, ह्यस्वस्याऽऽङ्गत्वेन बहिरङ्गत्वादन्तरङ्गं सवर्णदीर्घं प्रति परत्वोपन्यासस्यायुक्तत्वात्। उङ्खतीति। इदित्त्वान्नुम्। लिटि उङ्खाञ्चकार। आशिषि-उङ्ख्यात्। ववखतुरिति। वादित्वादेत्वाभ्यासलोपौ न। एखति। इङ्खति। इङ्खांचकार। ईखति। ईखाञ्चकार। इङ्गति। इङ्गांचकार। त्वगि कम्पने इति। अयम् उख उखि इति दण्डके गतौ पठितस्य गतिविशेषे वृतिं?त बोधयितुं पठ\उfffद्ते। अतएवानतिप्रयोजनत्वाद्बहुषु पुस्तकेषु न पठितः। सेवने चेति। `यं पूरवो वृत्रहणं सचन्ते' इत्यादौ सेवन्ते इत्यभियुक्तैव्र्याख्यातत्वात्। स्वरितेत्सु `षच समवाये' इति वक्ष्यते। लोचृ। ऋदित्त्वात् `नाग्लोपी'ति ह्यस्वनिषेधः। अलुलोचत्। `पचि व्यक्तीकरणे'। `पचि विस्तारवचने' इति चुरादौ। ऋज गति। अर्जनं– प्राधान्येन, उपार्जनं तु–प्रासङ्गिकम्। नुड्विधावित्यादि। `नुज्विधिलादेशविनामेषु तु प्रतिविदेय'मिति वचनान्नुडादिविधिषु वर्णैकदेशस्य वर्णत्वेन ग्रहणादिति भावः। यद्वा द्विहल्ग्रहणं भाष्यादौ प्रत्याख्यायते। न च आट आटतुरित्यत्रातिप्रसङ्गः, `अश्नोतेश्चे'त्यनेन `अवर्णोपधस्य यदि भवति तह्र्रस्नोतेरेवे'ति नियमात्सिद्धमिष्टमित्यन्यत्र विस्तरः। ऋजिभृजी। भर्जनं–जलं विना तण्डुलादेः संतापविशेषः। ईदित्त्वात् `\उfffदाईदितोनिष्ठाया'मिति नेट्। भृक्तः। भृक्तवान्। एजृ भेजृ भ्राजृ। भ्राजेरृदित्करणमनुदात्तेत्त्वमात्रफलम्। `भ्राजभासे'त्यादिना चङ्परे णौ उपधाह्यस्वस्य विकल्पितत्वात्। अबिब्राजत्। अबभ्राजत्। परस्मैपदिन इति।चवर्गीयान्ताः परस्मैपदिनः। पूजायां त्विति। `नाञ्चेः पूजाया'मिति निषेधादिति भावः।

Satishji's सूत्र-सूचिः

वृत्ति: अभ्यासस्य इवर्णोवर्णयोरियङुवङौ स्तोऽसवर्णेऽचि। “इयँङ्” and “उवँङ्” are substituted respectively in place of a इवर्ण: (इकार:/ईकार:) and उवर्ण: (उकार:/ऊकार:) belonging to a अभ्यास:, when followed by a vowel which is not सवर्ण:।
Note: The resulting meaning is that if the इवर्ण: (इकार:/ईकार:) belonging to a अभ्यास: is followed by any vowel other than a इवर्ण: (इकार:/ईकार:) it gets substituted by “इयँङ्”। Similarly, if the उवर्ण: (उकार:/ऊकार:) belonging to a अभ्यास: is followed by any vowel other than a उवर्ण: (उकार:/ऊकार:) it gets substituted by “उवँङ्”।

उदाहरणम् – इयाय (इण् गतौ २. ४०, लिँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्)।

इ + लिँट् 3-2-115

= इ + ल् 1-3-2, 1-3-3, 1-3-9

= इ + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108

= इ + णल् 3-4-82, 1-1-55

= इ + अ 1-3-7, 1-3-3, 1-3-9

= इ इ + अ 6-1-8. Note: As per 1-1-59, we apply 6-1-8 before applying 7-2-115.

= इ ऐ + अ 7-2-115

= इयँङ् ऐ + अ 6-4-78. Note: 6-4-77 would not have worked here, because it only applies in the case of a इवर्ण:/उवर्ण: that is at the end of a अङ्गम् followed by a अच् (vowel) of a प्रत्यय:। Here the इकार: is not at the end of the अङ्गम् and the ऐकार: is not part of the प्रत्यय:।

= इय् ऐ + अ 1-3-2, 1-3-3, 1-3-9

= इयाय 6-1-78