Table of Contents

<<6-4-65 —- 6-4-67>>

6-4-66 घुमास्थागापाजहातिसां हलि

प्रथमावृत्तिः

TBD.

काशिका

घुसंज्ञाकानाम् अङ्गानां, मा स्था गा पा जहाति सा इत्येतेषां हलादौ क्ङिति प्रत्यये परतः ईकारादेशो भवति। दीयते। धीयते। देदीयते। देधीयते। मीयते। मेमीयते। स्थीयते। तेष्ट्ःईयते। गीयते। जेगीयते। अध्यगीष्ट, अध्यगीषाताम्, अध्यगीषत। पीयते। पेपीयते। पातेरिह ग्रहणं न अस्ति, लुग्विकरणत्वात्। पायते इत्येव तस्य भवति। हीयते। जेहीयते। जहातेरिह निर्देशात् जिहातेर् ग्रहणं न भवति। हायते। षो ऽन्तकर्मणि। अवसीयते। अवसेसीयते। हलि इति किम्? ददतुः। ददुः। आतो लोपाद्धि परत्वादीत्वम् स्यात्। एतदेव हल्ग्रहणं ज्ञापकम् अस्मिन् प्रकरणे विप्रतिषेधेन असिद्धत्वं भवति। क्ङिति इत्येव, दाता। धाता।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

591 एषामात ईत्स्याद्धलादौ क्ङित्यार्धधातुके. अध्यगीष्ट, अध्यैष्ट. अध्यगीष्यत, अध्यैष्यत.. दुह प्रपूरणे.. 21.. दोग्धि. दुग्धः. दुहन्ति. धोक्षि. दुग्धे. दुहाते. दुहते. धुक्षे. दुहाथे. धुग्ध्वे. दुहे. दुह्वहे. दुह्महे. दुदोह, दुदुहे. दोग्धासि, दोग्धासे. धोक्ष्यति, धोक्ष्यते. दोग्धु, दुग्धात्. दुग्धाम्. दुहन्तु. दुग्धि, दुग्धात्. दुग्धम्. दुग्ध. दोहानि. दोहाव. दोहाम. दुग्धाम्. दुहाताम्. दुहताम्. धुक्ष्व. दुहाथाम्. धुग्घ्वम्. दोहै. दोहावहै. दोहामहै. अधोक्. अदुग्धाम्. अदुहन्. अदोहम्. अदुग्ध. अदुहाताम्. अदुहत. अधुग्ध्वम्. दुह्यात्, दुहीत..

बालमनोरमा

293 घुमसाथा। `षो अन्तकर्मणि' इत्यस्य कृतात्वस्य निर्देशः। घु मा स्था गा पा जहाति साएषां द्वन्द्वात्षष्ठी। `आद्र्धधातुके' इत्यधिकृतम्। `आतो लोप इटि चे' त्यत आत इति `ईद्यती'त्यत ईदिति, `अनुदात्तोपदेशे'त्यतः क्ङिति–इति चानुवर्तते। तदाह–एषामित्यादिना। अध्यगीष्टेति। अधि अ गा स् त इत्यत्र आकारस्य ईकारे यणि सिचः षत्वे तकारस्य ष्टुत्वेन ट इति भावः। `गातिस्थे' तिन सिज्लोपः, परस्मैपदाऽभावात्। अध्यगीषाताम् अध्यगीषत। अध्यगीष्टाः अध्यगीढ्वम्। अध्यगीषि अध्यगीष्वहि अध्यगीष्महि। गाङभावपक्षे आह– अध्यैष्टेति। अधि आ इ स् त इति स्थिते इकारस्य गुणे आटो वृद्धौ यणि षत्वष्टुत्वे इति भावः। अध्यैषाताम् अध्यैषत। अध्यैष्ठाः अध्यैषाथाम् अध्यैढ्वम्। `धि चे'ति सलोपः। अध्यैषि अध्यैष्वहि अध्यैष्महि। लृड\उfffदाह– अध्यगीष्यतेति। `विभाषा लुङ्लृङो'रिति गाङादेशे स्ये तस्य `गाङ्कुटादिभ्यः' इति ङित्त्वे `घुमास्थे'ति ईत्त्वे अटि यणि षत्वमिति भावः। अध्यगीष्येतामित्यादि। गाङभावपक्षे आह–अध्यैष्यतेति। अध्यैष्येतामित्यादि। इक्स्मरणे। अयमपीति। इङ्धातुवदयमपि धातुर्नित्यमधिपूर्वक इत्यर्थः। ननु धातुपाठे इङमधिकृत्य `नित्यमधिपूर्व' इति वचनात्, भूवादिसूत्रभाष्याच्च इङो नित्यमधिपूर्वकत्वं युक्तम्, अस्य तु तथात्वे किं प्रमाणमित्यत आह– अधीगर्थेति। तत्र हि अधीगर्थेत्यनेन स्मरणार्थदातुर्विवक्षितः। इग्धातोरधिपूर्वकत्वाऽभावेऽपि स्मरणार्थकत्वे इगर्थेत्येतावतैव स्मरणार्थकधातुलाभात्तत्र अधीति व्यर्थं स्यात्। अत इग्धातुरयं नित्यमधिपूर्वक एव स्मरणार्थक इति विज्ञायत इत्यर्थः। इण्वदिक इति। षष्ठ\उfffद्न्ताद्वतिः। इणो यत् कार्यम् `इणो यणि' त्यादि, तदिको भवतीत्यर्थः। अध्येति, अधीत इति सिद्धवत्कृत्य आह–अधियन्तीति। अन्तादेशे इयङपवादः। `इणो य'णिति यणिति भावः। अध्येषि अधीथः अधीथ। अध्येमि अधीवः अधीमः। अधीयाय। अतुसि तु द्वित्वे कृते अधि इ इ अतुसिति स्थिते `इणो य'णिति द्वितीयस्य इकारस्य यणि प्रथमस्य इकारस्य `दीर्घ इणः किती'ति दीर्घे सवर्णदीर्घे–अधीयतुः अधीयुः। अधीययिथ–अथीयेथ अधीयथुः अधीय। अधीयाय–अधीयय अधीयिव अधीयिम। अध्येता। अध्येष्यति। अध्येतु- अधीतात् अधीताम् अधियन्तु। अधीहि– अधीतात् अधीतम् अधीत। अध्ययानि अध्ययाव अध्ययाम। अध्यैत् अध्यैताम् अध्यायन्। अध्यैः अध्यैतम् अध्यैत। अध्यायम् अध्यैव अध्यैम। इति सिद्धवत्कृत्य लुङ्याह– अध्यगादिति। इण्वत्त्वात् `इणो गा लुङी'ति गादेशे `गातिस्थे' तिसिचो लुका लुप्तत्वात् `घुमास्थे'ति ईत्त्वं न। अध्यगाताम्। अध्यगाम् अध्यगाव। अध्यैष्यत्। केचित्त्विति। `आद्र्धधातुके' इत्यधिकारे `इणो गा लुङी'ति सूत्रे एतद्वार्तिकपाठस्य भाष्ये दर्शनात्तदधिकारोक्तानामेव कार्याणमुपस्थितत्वादिति भावः। तन्मते यण् नेति। `इणो य'णित्यस् आद्र्धधातुकाधिकारस्थत्वाऽभावान्नातिदेश इत्यर्थः। तेन झोऽन्तादेशे इयङि सवर्णदीर्घे अधीयन्तीत्याद्यूह्रम्। राघवयोरधीयन्निति। `अधीगर्थे'ति षष्ठी। राघवौ स्मरन्नित्यर्थः। अधिपूर्वादिग्धातोर्लटः शतरि शपो लुकि इकारस्य इयङि सवर्णदीर्घे अधीयदिति शत्रन्तात्सुबुत्पत्तौ सौ रूपम्। वी गतीति। `अजेव्र्यघञपो'रिति सूत्रभाष्यरीत्या अस्य आद्र्धधातुके नास्ति प्रयोग इति शब्देन्दुशेखरे स्थितम्। वियन्तीति। एकाच्त्वाद्यणभावादियङिति भावः। लोटि वेतु– वीतात् वीताम् वियन्तु। इति सिद्धवत्कृत्याह–वीहीति। हेरपित्त्वेन ङित्त्वान्न गुण इति भावः। वीतात् वीतम् वीत। वयानि वयाव वयाम। लड\उfffदाह– अवेदिति। अवियन्निति। वी–अन्निति स्थिते परत्वादडागमात् प्रागियङि कृते अडागम इति भावः। मतान्तरमाह–अडागमे सतीति। `लावस्थायाम'डिति पक्षे इयङं बाधित्वा अनेकाच्त्वाद्यणि अव्यन्निति केचिदाहुरित्यर्थः। केचिदित्यस्वरसं सूचयति। तद्बीजं तुकृतेऽप्यटि यणि कर्तव्ये आभीयतया अटोऽसिद्धत्वादनेकाच्त्वाऽभावाद्यणभावादियङेवोचित इति शब्देन्दुशेखरे विस्तरः। अत्रेति। वी-ई इति सवर्णदीर्घे' वी गती'ति निर्देश इति भावः। ईयादिति। विधिलिङि आशीर्लिङि च रूपमिदं समानम्। `स्को' रिति सलोपः। तत्र विधिलिङि ईयातामित्यादि, आशिषितु ईयास्तामित्यादी'ति विशेषः। ऐषीदिति। सिचि वृद्धिः। या प्रापणे इति। ननु गच्छतीत्यर्थे यातीति कथमित्यत आह–प्रापणमिह गतिरिति। णिजर्थस्त्वविवक्षित इति भावः। प्राणियातीति। `नेर्गदे'ति णत्वम्। ययौ। याता। यास्यति। यातु। अयात् अयाताम्।

तत्त्वबोधिनी

253 घुमास्था। `दीङो युडची'त्यतः क्ङितीत्यनुवर्तते। आद्र्धधातुक इति चाधिक्रियत एव। क्ङिति किं ?। दाता धाता। हलादौ किं ?। ददतुः। ददुः। अन्यथा आतो लोपात्परत्वादीत्त्वं स्यात्। आद्र्धधातुके किं ?। मातः। माथः। अध्यगीष्टेति। सिचो ङित्त्वादीत्त्वम्। इक् स्मरणे। ककार इह `इण्वदिकः' इति विशेषणार्थः। `ए'रित्युक्ते तु `इट किट कटी'त्यत्र प्रश्लिष्टस्य ईधातोरपि ग्रहणं स्यादित्याहुः। वार्तिकपाठात्तदधिकारोक्तानामेव कार्याणामुपस्थितत्वादतिदेश इति भावः। अधीयन्निति। स्मरन्नित्यर्थः। `राघवयो'रिति। अत्र `अधीयगर्थदयेशां कर्मणी'ति षष्ठी। वी गति। अवियन्निति। अडागमात्परत्वादियङ्। अडागमे सतीति। कृताऽकृतप्रसङ्गित्वमात्रेण अटो नित्यत्वादिति भावः। अत एवाऽपरितोषात्, `असिद्धवदत्राभा'दिति समानाश्रये यणि कर्तव्ये अटोऽसिद्धत्वादियङेवोचित इत्याशयेन वा केचिदित्युक्तम्। `लावस्थायामेवाऽडागम' इति पक्षे तु यणेवेति बोध्यम्। ईकारोऽपीति। प्रयुञ्चते च- - `न हि तरणिरुदीते दिक्पराधीनवृत्ति'रिति। व्याख्यातं च मनोरमायाम्- - `कर्मव्यतिहारे तङ्। न च `न गतिहिंसार्थेभ्यः' इति निषेधः शङ्क्यः। उत्पूर्वस्याविर्भावार्थत्वा'दिति। अत्र वदन्ति– व्यतिशब्दं विना कर्मव्यतिहारकल्पनं क्लेशावहम्। परकीयकर्म च कर्मव्यतिहारेऽपेक्ष्यते, तञ्चात्र। परस्परकरणं तु न संभवत्येव। ततश्चोदिते इति भावे निष्ठा ज्ञेया। तथा चोदये दिक्पराधीनवृत्तिस्तरणिर्नेत्यर्थः सुगम इति।

Satishji's सूत्र-सूचिः

359) घुमास्थागापाजहातिसां हलि 6-4-66

वृत्तिः एषामात ईत्‍स्‍याद्धलादौ क्ङित्‍यार्धधातुके। The आकारः of the verbal roots having the घु-सञ्ज्ञा and the verbal roots √मा [मेङ् प्रणिदाने १. १११६, मा माने २. ५७, माङ् माने शब्दे च ३. ७, माङ् माने ४. ३७], √स्था [ष्ठा गतिनिवृत्तौ १. १०७७], √गा [गै शब्दे १. १०६५, गाङ् गतौ १. ११०१, गा स्तुतौ ३. २६ as well as the गा-आदेश: done in place of इण् गतौ २. ४० and इक् स्मरणे (नित्यमधिपूर्वः) २. ४१, as well as the गाङ्-आदेश: in the place of इङ् अध्ययने (नित्यमधिपूर्वः) २. ४२], √पा [पा पाने १. १०७४], √हा [ओँहाक्
त्यागे ३. ९] and √सो [षो अन्तकर्मणि ४. ४२] gets ईकारः as replacement, when followed by a हलादि: (beginning with a consonant) आर्धधातुक-प्रत्ययः which is a कित् or a ङित्।

गीतासु उदाहरणम् v17-20 – दीयते (√दा, जुहोत्यादि-गण:, डुदाञ् दाने, धातु-पाठः # ३. १०), लँट्, भावे/कर्मणि, प्रथम-पुरुषः, एकवचनम्। This धातु: has the घु-सञ्ज्ञा by 1-1-20.
दा + लँट् 3-4-69, 3-2-123 = दा + ल् 1-3-2, 1-3-3
= दा + त 1-3-13, 3-4-78, 1-4-100, 1-4-101, 1-4-102, 1-4-108, त gets सार्वधातुक-सञ्ज्ञा by 3-4-113 = दा + ते 3-4-79
= दा + यक् + ते 3-1-67, यक् gets आर्धधातुक-सञ्ज्ञा by 3-4-114
= दा + य + ते 1-3-3 = दीयते 6-4-66