Table of Contents

<<1-1-19 —- 1-1-21>>

1-1-20 दाधा घ्वदाप्

प्रथमावृत्तिः

TBD.

काशिका

दारूपाश्चत्वारो धातवः, धारूपौ च द्वौ दाब्दैपौ वर्जयित्वा घुसंज्ञका भवन्ति। डुदाञ् प्रणिददाति। दाण् प्रणिदाता। दो प्रणिद्यति। देङ् प्रणिदयते। डुधाञ् प्रणिदधाति। धेट् प्रणिधयति वत्सो मातरम्। अदापिति किम्? दाप् लवने दातं बर्हिः। दैप् शोधने अवदातं मुखम्। घुप्रदेशाः घुमास्थागापाजहातिसां हलि 6-4-66 इत्येवमादयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

626 दारूपा धारूपाश्च धातवो घुसंज्ञाः स्युर्दाप्दैपौ विना. घ्वसोरित्येत्त्वम्. देहि. दत्तम्. अददात्, अदत्त. दद्यात्, ददीत. देयात्, दासीष्ट. अदात्. अदाताम्. अदुः..

बालमनोरमा

210 आशीर्लिङि घुसंज्ञाकार्यं वक्ष्यन्घुसंज्ञां दर्शयति– दाधाघ्वदाप्। `दे'त्यनेन स्वाभाविकाऽऽकारान्तयोः `डु दाञ् दाने' `दाण् दाने' इत्यनयोः, कृतात्वयोः `दो अवखण्डने' `देङ् रक्षणे' इत्यनयोर्लाक्षणिकयोश्च, `धे' त्यनेन स्वाभाविकाकारान्तस्य `डु धाञ् धारणपोषणयो'रित्यस्य, लाक्षणिकस्य `धेट् पाने' इत्यस्य च ग्रहणम्। `गामादाग्रहणेष्वविशेषः' इति परिभाषाबलात्तत्र दाग्रहणेन धारूपस्यापि ग्रहणाच्च। अत एव `दो दद्धो'रित्त्र धेण्निवृत्त्यर्थं दाग्रहणमर्थवत्, दधातेर्हिभावविधानादेव निवृत्तिसिद्धेः। तदाह–दारूपा धारूपाश्चेति।

तत्त्वबोधिनी

182 दाधा घ्वदाप्। इह दारूपाश्चत्वारः– डुदाञ् दाने। दाण् दाने। दो अवखण्?डने। देङ् रक्षणे। धारुपौ तु द्वौ— डुधाञ् धारणपोषणयोः। धेट् पाने। अनुबन्धानामनेकान्तत्वात् `आदेच उपदेशे' इत्यात्वेदोदेङ्धेटामनुकरणे दादारूपत्वमस्ति। एवं च दाश्च दाश्च दाश्च दाः। धाश्च धाश्च धौ। दाश्च धौ च दाधा इति विग्रहः। दाप्दैपौ विनेति। दाप् लवने। दैप् शोधने– एतद्भिन्ना इत्यर्थः। दैपः पित्त्वमिह प्रतिषेधार्थं, न त्वनुदात्तार्थम्, `अनुदात्तौ सुप्पितौ' इति प्रत्ययस्यैव पितोऽनुदात्तत्वात्। न च दैपो लाक्षणिकत्वान्नाऽस्य प्रतिषेध इति शङ्क्यं, पित्करणस्यानर्थक्यप्रसङ्गात्। इदमेव च दैपः पित्त्वं `गामादाग्रहणेष्वविशेषः' इति परिभाषाया ज्ञापकमित्याहुः। अदाबिति किम् ?। दातं बर्हिः। लूनमित्यर्थः। इह `दो दद्धो'रिति दद्भावो न। अवदातं मुखम्। शुद्धमित्यर्थः। इह तु `अच उपसर्गा' दिति तादेशो न।

Satishji's सूत्र-सूचिः

358) दाधा घ्वदाप् 1-1-20

वृत्तिः दारूपा धारूपाश्‍च धातवो घुसञ्ज्ञाः स्‍युर्दाप्‍दैपौ विना। The verbal roots having the form “दा” or “धा”, except √दाप् (लवने २. ५४) and √दैप् (शोधने १. १०७३), get the घु-सञ्ज्ञा।

Note : The following 6 roots have the घु-सञ्ज्ञा । √दा [दाण् दाने १. १०७९] , √दा [डुदाञ् दाने ३. १०], √दो [दो अवखण्डने ४. ४३], √दे [देङ् रक्षणे १. १११७], √धा [डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११], √धे [धेट् पाने १. १०५०] ।

The following verse illustrates this…
देङ्-दाणौ दो-डुदाञौ च, धेट्-डुधाञावुभावपि ।
पाणिनीये महातन्त्रे, प्रोक्ता घुसञ्ज्ञका अमी ।।