Table of Contents

<<3-4-104 —- 3-4-106>>

3-4-105 झस्य रन्

प्रथमावृत्तिः

TBD.

काशिका

लिङः इत्येव। झस्य लिङादेशस्य रनित्ययम् आदेशो भवति। झो ऽन्तापवादः। पचेरन्। यजेरन्। कृषीरन्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

523 लिङो झस्य रन् स्यात्. एधेरन्. एधेथाः. एधेयाथाम्. एधेध्वम्..

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

349) झस्य रन् 3-4-105

वृत्तिः लिँङो झस्‍य रन् स्‍यात् । The affix “झ” of लिँङ् is replaced by “रन्”।

उदाहरणम् – एधेरन् (√एध् – एधँ वृद्धौ धातु-पाठः १. २), विधिलिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
एध् + लिँङ् 3-3-161 = एध् + ल् 1-3-2, 1-3-3
= एध् + झ 3-4-78, 1-4-100, 1-4-101, 1-4-102, 1-4-108, झ gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= एध् + रन् 3-4-105, 1-1-55, 1-3-4, रन् also gets सार्वधातुक-सञ्ज्ञा by 1-1-56
= एध् + सीयुट् रन् 3-4-102, 1-1-46 = एध् + सीय् रन् 1-3-3, उकारः before the टकारः is उच्चारणार्थ:
= एध् + शप् + सीय् रन् 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= एध् + अ + सीय् रन् 1-3-3, 1-3-8 = एध् + अ + ई य् रन् 7-2-79 = एध् + अ + ई रन् 6-1-66
= एधेरन् 6-1-87