Table of Contents

<<3-4-103 —- 3-4-105>>

3-4-104 किदाशिसि

प्रथमावृत्तिः

TBD.

काशिका

आशिषि यो लिङ्, तस्य यासुडागमो भवति, स च उदात्तः किद्वद् भवति। प्रययस्य एव इदं कित्त्वम्, न आगमस्य, प्रयोजनाभावात्। ङित्त्वे प्राप्ते कित्त्वम् विधीयते। गुणवृद्धिप्रतिषेधः तुल्यः, सम्प्रसारणम्, जागर्तेर् गुणे च विशेषः। इष्यत्, इष्यास्ताम्, इस्यासुः। जागर्यात्, जागर्यास्ताम्, जागर्यासुः। आशिषि इति किम्? वच्यात्। जागृयात्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

434 आशिषि लिङो यासुट् कित्. स्कोः संयोगाद्योरिति सलोपः..

बालमनोरमा

64 किदाशिषि। `लिङः सीयु'डित्यतो लिङ इत्यनुवर्तते। `यासुट् परस्मैपदेष्वि'त्यतो यासुडिति च। तदाह–आशिषि लिङ इति। `यासुट् परस्मैपदेष्वि'ति ङित्त्वस्यापवादः। यद्यपि ङित्त्वेनैव गुणनिषेधः सिध्यति, तथापि `इज्या'दित्यादौ `वचिस्वपियजादीनां किती'ति संप्रसारणार्थं कित्तवमावश्यकमिह न्याय्यत्वादुपन्यस्तम्। अथ आशिषि लिङस्तिप्याद्र्धधातुकत्वाच्छबभावे `इतश्चे'तीकारलोपे यासुटागमेऽतः परत्वाऽभावात् सार्वधातुकात्वाऽभावाच्च इयादेशाऽभावे सुटि भूयास् स् त् इति स्थिते प्रक्रियामाह- - स्कोरिति लोप इति। `लिङसलोप' इत्यस्य सार्वधातुकविषयत्वात्स्कोरिति सुः पदान्तसंयोगादित्वाल्लोपः। ततो यासुटः सस्यापि पदान्तसंयोगादित्वादेव लोपः, न तु झल्परसंयोगादित्वेन यासुटः सस्य लोपे सुटः सस्य पदान्तसंयोगादित्वाल्लोप इति युक्तं, तथा सति झल्पसंयोगादिलोपस्याऽसिद्धत्वेन संयोगान्तलोपापत्तेः। भ्रष्ट इत्यादौ सावकाशस्यझल्परसंयोगादिलोपस्य संयोगान्तलोपाऽबाधकत्वादिति शब्दरत्ने विस्तरः। एवं च भूयास् स् त् इति स्थिते सकारद्वयस्य निवृत्तौ भूयादिति रूपम्। तत्र `सार्वधातुकाद्र्धधातुकयो'रिति गुणे प्राप्ते।

तत्त्वबोधिनी

49 ङित्त्वेनैव गुणवृद्धिप्रतिषेधेसिद्धे किद्वचनमिज्यादित्यादौ संप्रसारणार्थं, जागर्यादित्यत्र गुणार्थं च। जागर्तेर्गुणो हि ङिति पर्युदस्यते, ङित्त्वं चेह विशेषविहितेन कित्त्वेन बाध्यते। सलोप इति। झल्परसंयोगादित्वेन यासुटः सस्य लोपः, सुटस्तु पदान्तसंयोगादित्वेनेति भाव मनोरमायां स्थितं, तदसंबद्धमिति मत्वाऽत्र निष्कर्षमाहुः– भूयास्तां, भूयास्तं, भूयास्तेत्यत्र झस्पसंयोगादित्वेन यासुटः सस्य लोपः। भूयादित्यत्र तु सुट इव यासुटोऽपि सस्य लोपः पदान्तसंयोगादित्वेनैव। अन्यथा झस्परसंयोगादिलोपस्याऽसिद्धत्वात्संयोगान्तलोप एव स्यात्। भृष्ट इत्यादौ सावकाशस्य झस्पसंयोगादिलोपस्य संयोगान्तलोपऽबाधकत्वादिति।

Satishji's सूत्र-सूचिः

वृत्ति: आशिषि लिङो यासुट् कित्। The augment यासुट् (prescribed by 3-4-103) shall be considered to be a कित् (as having ककार: as a इत्) when it joins a लिँङ् affix used in the sense of benediction.

Example continued from 3-4-116.

= वच् + यास्त् As per 3-4-104, यासुट् is a कित् here. This allows 6-1-15 to apply in the next step.
= उ अ च् + यास्त् 6-1-15
= उच्यास्त् 6-1-108
= उच्यात् 8-2-29

उदाहरणम् – क्रियात् derived from √कृ (डुकृञ् करणे ८. १०). विवक्षा is आशीर्लिँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्, परस्मैपद-प्रत्यय:।

कृ + लिँङ् (आशिषि) 3-3-173
= कृ + ल् 1-3-2, 1-3-3, 1-3-9
= कृ + तिप् 3-4-78, 1-3-72, 1-4-101, 1-4-102, 1-4-108
= कृ + ति 1-3-3, 1-3-9
= कृ + त् 3-4-100. As per 3-4-116, the affix “त्” has the आर्धधातुक-सञ्ज्ञा here. Hence 3-1-79 does not apply.
= कृ + यासुट् त् 3-4-103, 1-1-46
= कृ + यास्त् 1-3-3, 1-3-9. The उकार: in यासुट् is उच्चारणार्थ:। As per 3-4-104, यासुट् is a कित् here. This allows 1-1-5 to stop 7-3-84.
= क् रिङ् + यास्त् 7-4-28, 1-1-53
= क्रियास्त् 1-3-3, 1-3-9. As per 3-4-116, the affix “यास्त्” has the आर्धधातुक-सञ्ज्ञा here. Hence 7-2-79 does not apply.
= क्रियात् 8-2-29