TBD.
आशिषि गम्यमानायां धातुम् आत्रात् वुन् प्रत्ययो भवति। जीवतात् जीवकः। नन्दतात् नन्दकः। आशीः प्रार्थनाविशेषः। स च इह क्रियाविषयः। अमुष्याः क्रियायः कर्ता भवेतित्येवम् आशास्यते। इति श्रीज्यादित्यविरचितायां काशिकायां वृत्तौ तृतीयाध्यायस्य प्रथमः पादः। तृतीयाध्यायस्य द्वितीयः पादः।
TBD.
–
729 आशिषि च। जीवक इत। आशास्यमानजीवनक्रियाश्रय इत्यर्थः। एवं नन्दकः। आशीरिति। आशासनम् = अयमित्थं भूयादिति प्रार्थनं, शब्दप्रयोक्तृकर्तृकमिति यावत्। तत आशासितुः पित्रादेरियमुक्तिः। इयं = नन्दकशब्दप्रयोगः। औचित्यादिति भावः। [इति तृतीयाध्यायस्य प्रथमः पादः]। अथ तृतीयाध्यायस्य द्वितीयः पादः।
609 आशिषि च। अप्राप्तप्रार्थनमाशीः। सा च प्रयोक्तृधर्मो न प्रत्ययार्थः, `कर्तरि कृ'दिति कत्र्रर्थे विधानादित्याशयेनाह– आशीर्विषयार्थेत्यादिना। जीवतादिति। जीवनं तव भूयादित्यर्थः। जीवक इति। स्त्रियां तु टापि `आशिषि वुनश्च ने'ति निषेधात् `प्रत्ययस्था'दिति इत्त्वाऽभावः। जीवका। कर्मण्यण्। उपपदसमास इति। `तत्रोपपदम'मिति कर्मादिवाच्यकुम्भादिवाचकपदस्योपपदसंज्ञायाम् `उपपद[मति' ङिति] समास इत्यर्थः। कुम्भकार इति। अणि कृते `कर्तृकर्मणोः कृतिर' इति षष्ठ\उfffद्न्तस्य कुम्भशब्दस्य कारशब्देन समासः। शेषत्वविवक्षायामिति। पदसंस्कारपक्षे तु धरतीति धरः, गङ्गाया धर इति कर्मणि या षष्ठी तदन्तेन समास इति सुवचम्। स्यादेतत्– धातोर्विधीयमानस्याऽणादेः पदविधित्वाऽभावेन समर्थपरिभाषाया अनुपस्थानात्पश्यति कुम्भं, करोति कटमित्यादावसमर्थादपि धातोरणादयः स्युरिति चेत्। अत्राहुः– कुम्भाद्युपपदे विधीयमानस्याऽणादेरपि पदाश्रितारविधित्वात्समर्थपरिभाषोपस्थानान्नोक्तदोषः। उपोच्चारितं पपदं ह्रुपपदं, पदं च सुप्तिङन्तमिति प्रागेवोक्तत्वादिति।
TBD.