Table of Contents

<<3-1-72 —- 3-1-74>>

3-1-73 स्वादिभ्यः श्नुः

प्रथमावृत्तिः

TBD.

काशिका

षूञभिषवे, इत्येवम् आदिभ्यो धातुभ्यः श्नुप्रत्ययो भवति। शपो ऽपवादः। सुनोति। सिनोति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

648 शपोऽपवादः. सुनोति. सुनुतः. हुश्नुवोरिति यण्. सुन्वन्ति. सुन्वः, सुनुवः. सुनुते. सुन्वाते. सुन्वते. सुन्वहे, सुनुवहे. सुषाव, सुषुवे. सोता. सुनु. सुनवानि. सुनवै. सुनुयात्. सूयात्..

बालमनोरमा

353 स्वादिभ्यः श्नुः। कत्र्रर्थे सार्वधातुके स्वादिभ्यः श्नुः स्यादित्यर्थः। शपोऽपवादः। सुनोतीति। लटस्तिपि श्नुः, शकार इत्। शित्त्वेन सार्वधातुकत्वात् `सार्वधातुकमपित्' इति ङित्त्वातत्स्मिन् परे धातोर्न गुणः। श्नोस्तु तिपमाश्रित्य गुण इति भावः। सुनुत इति। तसो ङित्त्वात् स्नोर्न गुण इति भावः। सुनु– अतीति स्थिते `अचि श्नुधातु' इति उवङमाशङ्क्याह– हुश्नुवोरिति। सुनोषि सुनुथः सुनुथ। सुनोमि। वसि मसि च `लोपश्चास्यान्यतकरस्यां म्वो'रित्युकारलोपविकल्पं मत्वाह- - सुन्वः सुनुव इति। सुन्मः सुनुम इत्यपि ज्ञेयम्। अथ लटस्तङि– सुनुते सुन्वाते सुन्वते। सुनुषे सुन्वाथे सुनुद्वे। सुन्वे। इति सिद्धवत्कृत्य आह– सुन्वहे सुनुवहे इति। `लोपश्चास्ये'त्युकारलोपविकल्प इति भावः। सुन्महे सुनुमहे इत्यपि ज्ञेयम्। सुषावेति।सुषुवतुः सुषुवुः। सुषविथ–सुषोथ सुषुवथुः सुषुव। सुषाव–सुषव सुषुविव सुषुविम। अथ लिटस्तह्राह– सुषुवे इति। सुषुवाते सुषुविरे। सुषुविषे सुषुवाथे [सुषुविढवे] सुषुविधवे। सुषुवे सुषुविवहे सुषुविमहे।सोतेति। अनिट्त्वसूचनमिदम्। सोष्यति सोष्यते। सुनोतु–सुनुतात् सुनुताम् सुन्वन्तु। इतिसिद्धवत्कृत्य आह– स#उनु इति। `उतश्च प्रत्यया'दिति हेर्लुक्। सुनुतात् सुनुतम् सुनुत। सुनवानीति। `हुश्नुवो'रिति यणं बाधित्वा परत्वाद्गुणः, आटः पित्तवेनाऽङित्त्वादिति भावः। सुनवाव सुनवाम। लोटस्तङि सुनुताम् सुन्वाताम् सुन्वताम्. सुनुष्व सुन्वाथाम् सुनुध्वम्। इति सिद्धवत्कृत्य आह– सुनवै इति। `हुश्नुवो'रिति यणं बाधित्वा परत्वाद्गुणः, आटः पित्त्वेन ङित्त्वाऽभावादिति भावः। सुनवावहै सुनवामहै। असुनोत् असुनुताम् असुन्वन्। असुनोः। असुनवम् असुनुव असुन्व। असुनुत असुन्वाताम् असुन्वत। इत्याद्यूह्रम्। विधिलिङ्याह– सुनुयादिति। यासुटो ङित्त्वात्श्नोर्न गुण इति भावः। सूयादिति। आशीर्लिङि `अकृत्सार्वधातुकयो'रिति दीर्घ इति भावः। सोषीष्ट। लुङि परस्मैपदे सिच इण्निषेधे प्राप्ते आह- - स्तुसुधूञ्भ्य इतीडिति। असाविष्टामित्यादि। लुङस्तङ्याह–असोष्टेति। असोषातामित्यादि। असोष्यत् असोष्यत `उपसर्गात्सुनोती'ति षत्वं मत्वा आह- - अभिषुणोतीति। षात्पर्तवाण्णत्वम्। अभ्यषुणोदिति। `प्राक् सितादड्व्यवायेऽपी'ति षत्वम्। अभिसुषावेति। `स्थादिष्वभ्यासेने'ति नियमादभ्यासस्य न षः। `आदेशप्रत्यययो'रित्युत्तरखण्डस्य षः।

तत्त्वबोधिनी

308 सुनवानीति। `आडुत्तमस्ये'त्याटि कृते `हुश्नुवो' रिति यणं बाधित्वा परत्वाद्गुणः।

Satishji's सूत्र-सूचिः

424) स्वादिभ्यः श्नुः 3-1-73
वृत्तिः शपोऽपवादः । The श्नु-प्रत्यय: is placed after the verbal roots of the स्वादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌ ।

उदाहरणम् – सुनोति √सु-धातुः (स्वादि-गणः, षुञ् अभिषवे, धातु-पाठः # ५. १), लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

Since this धातु: has ञकारः as an इत्, as per 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, it is उभयपदी।
Let us consider the case where it takes a परस्मैपद-प्रत्यय:।

सु + लँट् 3-2-123
= सु + ल् 1-3-2, 1-3-3
= सु + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= सु + ति 1-3-3
= सु + श्नु + ति 3-1-73, श्नु which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= सु + नु ति 1-3-8
= सुनोति 7-3-84. Note: Since the प्रत्यय: “नु” is a सार्वधातुक-प्रत्यय: which is अपित्, it becomes ङित्-वत् (as if it has ङकार: as an इत्) by 1-2-4 सार्वधातुकमपित्। And then 1-1-5 ग्क्ङिति च prevents the गुणादेश: for the ending उकार: of the अङ्गम् “सु” which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः।