Table of Contents

<<1-1-70 —- 1-1-72>>

1-1-71 आदिरन्त्येन सहेता

प्रथमावृत्तिः

TBD.

काशिका

आदिरन्त्येन इत्संज्ञकेन सह गृह्यमाणस् तन्मद्यपतितानां वर्णानां ग्राहको भवति, स्वस्य च रूपस्य. अण्. अक्. अच्. हल्. सुप्. तिङ्. अन्त्येन इति किम्? सुटिति तृतीयैकवचनेन टा इत्यनेन ग्रहणं मा भूत्.

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

4 अन्त्येनेता सहित आदिर्मध्यगानां स्वस्य च संज्ञा स्यात् यथाणिति अ इ उ वर्णानां संज्ञा. एवमच् हल् अलित्यादयः ॥

सिद्धान्तकौमुदी

<< 1-3-31-3-2 >>
२ अन्त्येनेता सहित आदिर्मद्ध्यगानां स्वस्य च संज्ञा स्यात् । इति हल्संज्ञायाम् । ’हलन्त्यम्’ 1-1-1 । उपदेशेऽन्त्यं हलित्स्यात् । उपदेश आद्योच्चारणम् । ततः ’अण्’ ’अच्’ इत्यादिसंज्ञासिद्धौ ।

बालमनोरमा

– अन्ते भवः अन्त्यः । तेन इता सहोच्चार्यमाणः आदिः अण् अच् इत्यादिरूपः सञ्ज्ञेत्येर्थः । तत्र ’यस्मात्पूर्वं नास्ति परमस्ति स आदिः । यस्मात्परं नास्ति पूर्वमस्ति सोऽन्तः’ इति आद्यन्तवत्सूत्रे भाष्यम् ।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.